31116: पुष्यसिद्ध्यौ नक्षत्रे

Padacheda: पुष्य-सिद्ध्यौ | S | 1 | 2 |

नक्षत्रे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words पुष्य and सिद्ध्य् are irregularly formed by the affix क्यप् , when used as names of asterisms.

Vasu English Translation

The words पुष्य and सिद्ध्य् are irregularly formed by the affix क्यप् , when used as names of asterisms. Thus पुष् + क्यप् = पुष्यः ‘the Pushya asterism’. It is so called because objects are nourished under the influences of this asterism. सिध् + क्यप् = सिद्ध्यः ‘the asterism Siddhya’ another name of Pushya, so-called because things are accomplished under the influence of this star.

When not the names of asterisms, the forms are पोषणं ‘nourishing’, सेधनम् ‘accomplishing’.

Kashika

पुषेः सिधेश्चाधिकरणे क्यब् निपात्यते नक्षत्रेऽभिधेये। पुष्यन्त्यस्मिन्नर्था इति पुष्यः। सिध्यन्त्यस्मिन्निति सिद्ध्यः। नक्षत्र इति किम्? पोषणम्, सेधनम्॥

Siddhanta Kaumudi

अधिकरणे क्यब्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिद्ध्यन्त्यस्मिन्सिद्ध्यः ॥

Balamanorama

पुष्यसिद्ध्यौ नक्षत्रे - पुष्यसिध्यौ । ‘निपात्येते’ इति शएषः । नक्षत्रविशेषे गम्ये इत्यर्थः ।

Tattvabodhini

पुष्यसिद्ध्यौ नक्षत्रे - पुष्यसिद्ध्यौ । नक्षत्रे किम् । पोषणं, सेधनम् । अधिकरणे ल्युट् । पुष्यसिध्ययोः पर्यायत्वेऽपि स्वरूपपरत्वात्सूत्रे द्वन्द्वः ।पुष्ये तु सिध्यतीष्यौ॑ इत्यमरः ।

Padamanjari

पुष्यसिद्ध्यौ नक्षत्रे ॥ पुष्यन्त्यस्मिन्नर्था इति। आरब्धा इति शेषः। सिद्धन्त्यस्मिन्निति। अत्रार्था इत्यपेक्ष्यते। पुष्पसिद्धशब्दौ पर्यायौ। स्वरूपपरत्वातु सूत्रे द्वन्द्वः॥

Nyaas

पुषेः सिद्धेश्च इति। पुष पुष्टौ (धातुपाठः-1182) {षिधु धातुपाठः-}सिधु संराद्धौ (धातुपाठः-1192)। `अधिकरणे क्यब् निपात्यते इति। ल्युटोऽपवादः।

Prakriyasarvasvam

<karika>अर्थाः पुष्यन्ति सिध्यन्ति चास्मिन्नित्येवमुच्यते । शोभते कार्यमत्रेति त्विषः स्यात् तिष्य इत्यपि ॥ ६२ ॥</karika>

Sutra Prayogas

  • सिध्य-तारामिव (भट्टिकाव्यम्): पुण्य - सिध्यौ नक्षत्रे इति निपातनात्।