31118: प्रत्यपिभ्यां ग्रहेश्छन्दसि

Padacheda: प्रति-अपिभ्याम् | S | 5 | 2 |

ग्रहेः | S | 7 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word ग्रह ‘to seize’, preceded by the prepositions प्रति and अपि , takes the affix क्यप् in the छन्दस् (Vedas).

Vasu English Translation

The word ग्रह ‘to seize’, preceded by the prepositions प्रति and अपि , takes the affix क्यप् in the छन्दस् (Vedas). Thus मत्तस्य न प्रतिग्राह्यम् तस्मान्नापिगृह्यम् ॥

In the classical Sanskrit the proper forms are प्रतिगृह्यम् and अपिग्राह्यम्.

Bhashya

प्रत्यपिभ्यां ग्रहेः (765) (451 क्यप्प्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आ.14) (1962 परिसंख्यावार्तिकम्॥ 1 ॥) - प्रत्यपिभ्यां ग्रहेश्छन्दसि- (भाष्यम्) प्रत्यपिभ्यां ग्रहेः छन्दसीति वक्तव्यम्। मत्तस्य न प्रतिगृह्यम्। अनृतं हि मत्तो वदति तस्मान्नापि गृह्यम्॥ प्रतिग्राह्यमपि ग्राह्यमित्येवान्यत्र॥ प्रत्यपिभ्याम्॥ 118 ॥

Kashika

प्रति अपि इत्येवंपूर्वाद् ग्रहेः क्यप् प्रत्ययो भवति छन्दसि विषये। मत्तस्य न प्रतिगृह्यम् (काठ०सं० १४.५)। तस्मान् नापिगृह्यम् (काठ०सं० २७.३)। छन्दसीति किम्? प्रतिग्राह्यम्। अपिग्राह्यम्॥

Siddhanta Kaumudi

।<!छन्दसीति वक्तव्यम् !> (वार्तिकम्) ॥ प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ॥

Balamanorama

प्रत्यपिभ्यां ग्रहेश्छन्दसि - प्रत्यपिभ्यां ग्रहे । छन्दसीति । वार्तिकमिदम् । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । ननु छान्दसस्य किमर्थमिहोपन्यास इत्यत आह — लोके त्विति ।

Tattvabodhini

प्रत्यपिभ्यां ग्रहेश्छन्दसि - *छन्दसीति वक्तव्यम् । वक्तव्यमिति । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । क्यप उदाहरणं तुछन्दस्येव ।मत्तस्य न प्रतिगृह्रं तस्मान्नाऽपिगृह्रम् । लोके त्विति । ण्यदेवेति भावः ।

Nyaas

प्रतिगृह्रम् इति। ग्रहिज्या (6.1.16) इत्यादिना संप्रसारणम्। कुगतिप्रादयः (2.2.18) इति समासः॥

Prakriyasarvasvam

इति क्यप् । भाषायां वेति केचिदिति कौमुदी । आभ्यां परस्य ग्रहेः क्यप् स्यात् । प्रतिगृह्यम् । अपिगृह्यम् । छन्दसि हनेः क्यपः क्लीबत्वं स्त्रियां च वाच्यम् । सना देवदस्युहत्याय । अन्यै ब्रह्महत्यायै । कृष्ठपच्यस्य अन्तोदात्तत्वं वाच्यम् ।

Vartika

छन्दसीति वक्तव्यम् ।

Sutra Prayogas

  • प्रगृह्य-पद-वत्साध्वीं (भट्टिकाव्यम्): प्रत्यपिभ्यां ग्रहेः इत्यनुवृत्तौ प्रपूर्वाद्ग्रहेः पदेऽभिधेये क्यप्।