31115: भिद्योद्ध्यौ नदे

Padacheda: भिद्य-उद्ध्यौ | S | 1 | 2 |

नदे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words भिद्य and उद्ध्यौ are irregularly formed by the affix क्यप् , when meaning ‘river’.

Vasu English Translation

The words भिद्य and उद्ध्यौ are irregularly formed by the affix क्यप् , when meaning ‘river’. Thus भिद् + क्यप् = भिद्यः ‘a river that breaks its banks by the rush of its water’, the name of the Bhidya river.

ऊज्झ् + क्यप् = उद्ध्य ‘a river whose waters overflow the banks’, name of the Uddhya river; the झ is changed into ध.

When not meaning or qualifying the river, the regular forms are used; thus भेत्ता and उज्झिता.

Kashika

भिदेरुज्झेश्च क्यब् निपात्यते नदेऽभिधेये। उज्झेर्धत्वं च। भिनत्ति कूलं भिद्यः। उज्झत्युदकम् उद्ध्यः। नद इति किम्? भेत्ता। उज्झिता॥

Siddhanta Kaumudi

भिदेरुज्झेश्च क्यप् । उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः । उज्झत्युदकमुद्ध्यः । नदे किम् । भेत्ता । उज्झिता ॥

Balamanorama

भिद्योद्ध्यौ नदे - भिद्योध्यौ नदे । क्यबिति ।नद विशेषे कर्तरि निपात्यते॑ इति शेषः ।

Tattvabodhini

भिद्योद्ध्यौ नदे - भिद्योद्भ्यौ । क्यबिति ।कर्तरी॑ति शेषः । उद्ध्य इति ।तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टित॑मिति रघुः ।

Nyaas

उज्झेश्च इति। उज्झ उत्सर्गे (धातुपाठः-1304)। कर्तरि क्यब् निपात्यते इति। तृजादेरपवादः॥

Prakriyasarvasvam

कूलं भिन्दन् भिद्यः । उदकमुज्झन्नुद्ध्यः ।

Sutra Prayogas

  • भिद्योद्ध्य-सन्निभान् (भट्टिकाव्यम्): भिद्योज्यौ इति पूर्ववत् निपात्तिम्।