31111: ई च खनः

Padacheda: ई | S | | | 1

च | S | 0 | 0 |

खनः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix क्यप् is used after the root खन ‘to dig’ and long ई is substituted for the final of the root.

Vasu English Translation

The affix क्यप् is used after the root खन ‘to dig’ and long ई is substituted for the final of the root. Thus खन् + क्यप् = ख + ई + य = खेयम् ‘to be dug’. The long ई is used in the sutra for the sake of euphony. The same purpose would have been served by using short इ, thus ‘इ च खनः’. But the long ई indicates that the rule (6.4.43) does not apply here. By that rule the अ of खन् would have been lengthened into आ before the affix क्यप्.

Bhashya

इर्च खनः (728) (448 क्यप्प्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आ. 11) (आक्षेपभाष्यम्) दीर्घोच्चारणं किमर्थम्। न इ च खनः इत्येवोच्येत॥ (प्रत्याक्षेपभाष्यम्) का रूपसिद्धिः - खेयम्?। (प्रत्याक्षेपसमाधानभाष्यम्) आद्गुणेन सिद्धम्॥ (आक्षेपबाधकभाष्यम्) न सिध्यति। षत्वतुकोरसिद्धः इति एकादेशस्यासिद्धत्वात्तुक् प्रसज्येत॥ (आक्षेपसाधकभाष्यम्) नैतदस्ति। पदान्तपदाद्योरेकादेशोऽसिद्धः। नैष पदान्तपदाद्योरेकादेशः तस्माद् इ च खनः इत्येव वक्तव्यम्॥ इर्च खनः॥ 111 ॥

Kashika

खनेर्धातोः क्यप् प्रत्ययो भवति, ईकारश्चान्तादेशः। खेयम्। दीर्घनिर्देशः प्रश्लेषार्थः। तत्र द्वितीय इकारो ये विभाषा (६.४.४३) इत्यात्वबाधनार्थः॥

Siddhanta Kaumudi

चात्क्यप् । आद्गुणः (SK69) । खेयम् । इ चेति ह्रस्वः सुपठः ॥

Balamanorama

ई च खनः - ई च खनः । चात्क्यविति । खनेः क्यप् स्यात्प्रकृतेरीकारोऽन्तादेशश्चेत्यर्थः । ह्रस्व सुपठ इति । ह्रस्वस्य इकारस्य आद्गुणेनखेय॑मिति सिद्धेरिति भावः ।

Tattvabodhini

ई च खनः - ह्रस्वः सुपठ इति । दीर्घं पठतः सूत्रकृतस्त्वयमाशयः- दीर्घनिर्देशः इ-इ इति प्रश्लेषार्थस्तत्र द्वितीय इकारोये विभाषा॑ इत्यात्वबाधनार्थः । अन्यथाये विभाषा॑ इत्यस्यावकाशः — खायते खन्यते । इत्वस्यावकाशो यस्मिन्पक्षे आत्वंनास्ति । आत्वपक्षे तु उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात् ।ये विभाषा॑ इत्यत्र हि ये इति विषयसप्तमी । तथा च यकारादौ बुद्धिस्थे एव प्राप्तमात्वमन्तरङ्गम् । इकारस्तु क्यपा सह विधानाद्बहिरङ्गः । तथा चान्तरङ्गस्यात्वस्य बाधनाय प्रश्लेषेण द्वितीय इकारविधिरावश्यक इति ई चेति दीर्घोच्चारणं कृतमिति । आत्वं तु बहिरङ्गं , ये इति परसप्तम्याश्रयात् । एवं च इत्वेनाऽऽत्वबाधो न्याय्य एवेति दीर्घो न पठनीयः । ह्रस्वपाठे मात्रालघवमस्तीति तदनुरोदेन ये इतिपरसप्तम्याश्रयणमपि युक्तमिति । स्यादेतत् — इ चेति ह्रस्वादेशाभ्युपगमे तस्यादेशस्य पूर्वेण सह आद्गुणे तस्याऽसिद्धतयाह्रस्वस्य पितीति तुक् स्यात्,षत्वतुकोरसिद्धः॑ इति षत्वे तुकि चकर्तव्ये एकादेशशास्त्रस्याऽसिद्धत्वस्वीकारात् । अतो दीर्घ एव विधेय इति चेत् । मैवम् ।पदान्तपदाद्योरादेशोऽसिद्धो न त्वन्योऽपी॑ति सिद्धान्तात् । अन्यथा व#ऋक्षे छत्रमित्यत्र ङावाद्गुणस्याऽसिद्धतया छे चेति ह्रस्वाश्रयो नित्यस्तुक् स्यात् । इष्यते तु दीर्घात्पदान्ताद्वेति वैकल्पिक इति दिक् ।भृञोऽसंज्ञाया॑मित्यसंज्ञाग्रहणसामथ्र्याद्भार्येत्यत्र सूत्रान्तरेणापि क्यब्न भविष्यतीत्यत आह - पुंसि चरितार्थ इति । भार्या नाम क्षत्रिया इत्यत्रेत्यर्थः । तदनुबन्धेति । डुभृञ् इत्यनेकानुबन्धत्वाद्बिभर्तेः क्यपोऽप्रसङ्ग इति भावः ।

Padamanjari

ई च खनः॥ दीर्घोच्चारणं किमर्थम्, न ठि च खनःऽ इत्येवोच्येत, दीर्घस्य ह्रस्वस्य वा आद्गुणे नास्ति विशेषः, ह्रस्वादेशे’षत्वतुकोरसिद्धः’ इत्येकादेशस्यासिद्धत्वाद् ध्रस्वाश्रयस्तुक् स्यादिति चेत्? न; पदान्तपदाद्योरेकादेशस्तुग्विधावसिद्धः, अन्यथा वृक्षेच्छत्रमिति ङवाद्गुणस्यासिद्धत्वाद्’छे च’ इति ह्रस्वाश्रयो नित्यस्तुक् स्यादित्यत आह - दीर्घनिर्द्देश इत्यादि। एतेन ह्रस्वद्वयमत्र विधीयते, न दीर्घ इति दर्शयति। पूर्व तु यथाश्रुताश्रयणेनोक्तमीकारश्चान्तादेश इति। तत्रेति। प्रश्लेषे सति। ये विभाषेत्यात्वबाधनार्थ इति। अन्यथा’ये विभाषा’ इत्यस्यावकाशः - खायते, खन्यते; अस्य त्ववकाशः - यस्मिन्पक्षे आत्वं नास्ति; आत्वपक्षे उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात्। एतच्च’ये विभाषा’ इति विषयसप्तमीपक्ष उच्यते। तदा हि यकारादौ बुद्धिस्थ एव भवदात्वमन्तरङ्गम्, अयं त्विकारः क्यपा सह विधानाद्बहिरङ्गः। परसप्तमीपक्षे त्विदमेवेत्वमन्तरङ्गम्, परनिमितमनपेक्ष्य विधानात्॥

Nyaas

खेयम् इति। खनु अवदारणे (धातुपाठः-878), नकारस्य ईकारः, आद्गुणः (6.1.87) । अथ किमर्थं दीर्घ आदिश्यते, यावता ह्रस्वेऽपि कृते आद्गुणेन भवितव्यम्। न च ह्रस्वस्याद्गुणे कृते कश्चिद्विशेषः? स्यादेतत् - एकादेशस्तु तुग्विधावसिद्धो वक्तव्यः, तत्र यदि ह्रस्व आदिश्यते तदा ह्रस्व्सयाद्गुणे कृते तुग्विधावसिद्धत्वाद् ह्रस्वाश्रयस्तुक् स्यात्; दीर्घादेशे तु न भवति, अतो दीर्घादेशो वक्तव्य इति? एतच्च नास्ति; यस्मात् पदान्तपदाद्योयं एवादेशः स तुग्विधावसिद्धो वक्तव्यः, न सर्वत्रेत्याह - दीर्घनिर्देशः। किमर्थं पुनर्द्वितीय सवर्णदीर्घत्वेन (6.1.97) द्व्योरिवर्णयोः प्रश्लेषो यथा स्यादित्येवमर्थो दीर्घनिर्देशः। किमर्थं पुनिर्द्वितीय इवर्णः, यावतैकेनैव खेयमिति रूपं सिध्यतीत्यत आह - ` तत्र ` इत्यादि। द्वयोरिकारयोः प्रश्लेषनिर्देशः। तत्र यो द्वितीय इवर्णः सः `ये च (6.4.109) इत्यात्त्वबाधा यथा स्यादित्येवमर्थः। ये विभाषा (6.4.43) इत्यस्यावकाशः - खायते, खन्यते, इसि, अस्यादेशस्यावकाशो यस्मिन् पक्ष आत्त्वं नास्ति; आत्तवपक्षे तूभयं प्राप्नोति। उभयप्राप्तावसतीकारे पर्तवादन्तरङ्गत्वाच्चात्त्वं स्यात्, अस्मश्च सत्यात्त्वं बाधित्वेकार एव भवति। अन्तरङ्गत्वं पुनरात्त्वस्य यकारसामान्यमाश्रित्य विधानात्। इत्त्वस्य बहिरङ्गत्वम्; क्यब्विशेषमाश्रित्य विधानात्॥

Prakriyasarvasvam

खनेः क्यब् ई चान्तादेशः । आद्गुणः । खेयम् ।

Sutra Prayogas

  • नाऽखेयः (भट्टिकाव्यम्): ईच खनः इति क्यबी - -कारौ।