31110: ऋदुपधाच्चाकॢपिचृतेः¶
Padacheda: ऋदुपधात् | S | 5 | 1 |
च | S | 0 | 0 |
अकॢपिचृतेः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verbs having the penultimate short ऋ , the affix क्यप् is used, with the exception of the verbs कॢप् ‘to be able’ and वृत् ‘to hurt’.
Vasu English Translation¶
After the verbs having the penultimate short ऋ , the affix क्यप् is used, with the exception of the verbs कॢप् ‘to be able’ and वृत् ‘to hurt’. Thus वृत् + क्यप् = वृत्यम्; so also वृध्यम्. But क्लृप् and चृत् will form कल्प्यम्, and चर्त्यम्.
Why have we used the letter त् in ऋत् ? It is to indicate that short ऋ is meant and not long ॠ (1.1.70). Therefore the root कॄत् will take ण्यत् and form कीर्त्यम्.
Vart:- The root सृज् takes the affix ण्यत् when compounded with the word पाणि. Thus पाणिसर्ग्या रज्जुः ‘a rope’.
Vart:- The root सृज् when preceded by both सम् and अव takes ण्यत् as समवसर्ग्या.
Kashika¶
ऋकारोपधाच्च धातोः क्यप् प्रत्ययो भवति क्ऌपिचृती वर्जयित्वा। वृतु — वृत्यम्। वृधु — वृध्यम्। अक्ऌपिचृतेरिति किम्? कल्प्यम्। चर्त्यम्। तपरकरणं किम्? कृत संशब्दने । ण्यदेव भवति। कीर्त्यम्॥ पाणौ सृजेर्ण्यद् वक्तव्यः॥ पाणिसर्ग्या रज्जुः॥ समवपूर्वाच्च॥ समवसर्ग्या॥
Siddhanta Kaumudi¶
वृत् । वृत्यम् । वृध् । वृध्यम् । कॢपिचृत्योस्तु । कल्प्यम् । चर्त्यम् । तपरकरणं किम् । कॄत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥
Balamanorama¶
ऋदुपधाच्चाकॢपिचृतेः - ऋदुपधाच्चा । कॢप्चृती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः । ननु तपरकरममिह व्यर्थमित्यत आह — अनित्यण्यन्ता इति । णिजन्तात्तु यदेवेति ।अचो य॑दित्यनेनेति भावः ।
Tattvabodhini¶
ऋदुपधाच्चाकॢपिचृतेः - कॢपिचृत्योस्त्विति । कृपू सामर्थ्ये । चृती हिंसाग्रन्थनयोः । कल्प्यमिति । कृपेर्लत्वस्याऽसिद्धत्वात्, ऋऌवर्णयोः सावण्र्यविधानाच्च ऋदुपधत्वम् ।
Padamanjari¶
ऋदुपधाच्चाकॢपिचृतेः॥ कॢपिचृती वर्जयित्वेति।’कॢपू सामर्थ्ये’ ‘चृती हिंसाग्रन्थनयोः’ कृपेर्लत्वस्यासिद्धत्वाद्दकारऌकारयोस्सवर्णसंज्ञाविधानाच्च ऋदुपधात्वम्। कृत संशब्दने ण्यदेव भवतीति। ठनित्यण्यन्ताश्चुरादयऽ इति णिजभावपक्ष इति भावः। इदमेव च तपरकरणं लिङ्गम् - अनित्यण्यन्ताश्चुरादय इति। णिजन्तातु णिलोपे कृते चाकृते च दित्स्यं धित्स्यमितिवद्यदेव भवति। पाणिसर्ग्येति। पाणिभ्यां सृज्यत इत्युपपदसमासः, पूर्ववत्कुत्वम्। एवं समवसर्ग्येत्यत्रापि॥
Nyaas¶
कॢपिचृतौ वर्जयित्वा इति। कृपू सामर्थ्ये (धातुपाठः-762), चृती {हिंसाश्रन्थनयोः धातुपाठः-} हिंसाग्रन्थनयोः` (धातुपाठः-1324) इत्येतौ त्यक्त्वा। कृपेर्लत्वस्यासिद्धत्वादृदुपधत्वम्। कल्प्यम् इति। लत्वस्यामिद्ध्तवादृकारस्यैवाकारो गुणः। ण्यदेव भवति - कीर्त्त्यम् इति। आर्धधातुकविवक्षायां चुरादिणिचः णेरनिटि (6.4.51) इति णिलोपे कृ-ते हलन्ततोपजायत इति कृत्वा ऋहलोण्र्यत् (3.1.124) इति ण्यदेव भवति। हलि च (8.2.77) इति दीर्घः। ननु च अचो यत् (3.1.97) इत्यत्राज्ग्रहणस्य प्रयोजनमुक्तम् - अजन्तभूतपूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यमिति;एवञ्चेहापि णिचि यतैव भवितव्यम्? एवं तह्र्रनित्यण्यन्ताश्चुरादय इत्यण्यन्तादेवात्र ण्यद्भवतीत्यदोषः। वक्तव्यः इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्ववत्।पाणिभ्यां रुआष्टव्या पाणिसग्र्या रज्जुः। उपपदमतिङ्ट (2.2.19) इति समासः। `समवपूर्वाच्च इति। सृजेण्र्यद्भवतीति सम्बध्यते। चकारः समुच्चये।न केवलं पाणावुपपदे ण्यद्वक्तव्यः; अपि तु समवपूर्वाच्च॥
Prakriyasarvasvam¶
क्लृपिचृतिवर्जितादृदुपधाद् धातोः क्यप् स्यात् । कृष्यम् दृश्यम् । क्लृपिचृ- त्योस्तु ण्यत् । कल्प्यम् । ‘चृती’ हिंसाग्रन्थनमोचनेषु । चर्यम् । ऋचेः ऋदुपधत्वेऽपि ण्यति कुत्वनिषेधाद् ण्यदेव ज्ञापितः ।<!पाणौ सृजेर्ण्यद्वाच्यः!> (वा० ३-१-१२४) पाणिना कार्या पाणिसर्ग्या रज्जुः । समवपूर्वाच्च (वा० ३-१-१२४) समवसर्ग्यः । अन्यत्र सृज्यम् ।
Sutra Prayogas¶
कृष्यां (रघुवंशम्): ऋदुपधाञ्चाक्लृपि चृतेः इति क्यप्।
अविमृष्यम् (किरातार्जुनीयम्): ऋदुपधाच्चाक्लृपिचृतेः इति क्यप्।
वृत्येन (भट्टिकाव्यम्): ऋदुपधात् इति क्यप्।