31110: ऋदुपधाच्चाकॢपिचृतेः ========================== **Padacheda:** ऋदुपधात् | S | 5 | 1 | च | S | 0 | 0 | अकॢपिचृतेः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verbs having the penultimate short ऋ , the affix क्यप् is used, with the exception of the verbs कॢप् 'to be able' and वृत् 'to hurt'. Vasu English Translation ------------------------ After the verbs having the penultimate short ऋ , the affix क्यप् is used, with the exception of the verbs कॢप् 'to be able' and वृत् 'to hurt'. Thus वृत् + क्यप् = वृत्यम्; so also वृध्यम्. But क्लृप् and चृत् will form कल्प्यम्, and चर्त्यम्. Why have we used the letter त् in ऋत् ? It is to indicate that short ऋ is meant and not long ॠ (1.1.70). Therefore the root कॄत् will take ण्यत् and form कीर्त्यम्. Vart:- The root सृज् takes the affix ण्यत् when compounded with the word पाणि. Thus पाणिसर्ग्या रज्जुः 'a rope'. Vart:- The root सृज् when preceded by both सम् and अव takes ण्यत् as समवसर्ग्या. Kashika ------- ऋकारोपधाच्च धातोः क्यप् प्रत्ययो भवति क्ऌपिचृती वर्जयित्वा। वृतु — वृत्यम्। वृधु — वृध्यम्। अक्ऌपिचृतेरिति किम्? कल्प्यम्। चर्त्यम्। तपरकरणं किम्? **कृत संशब्दने** । ण्यदेव भवति। कीर्त्यम्॥ पाणौ सृजेर्ण्यद् वक्तव्यः॥ पाणिसर्ग्या रज्जुः॥ समवपूर्वाच्च॥ समवसर्ग्या॥ Siddhanta Kaumudi ----------------- वृत् । वृत्यम् । वृध् । वृध्यम् । कॢपिचृत्योस्तु । कल्प्यम् । चर्त्यम् । तपरकरणं किम् । कॄत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥ Balamanorama ------------ **ऋदुपधाच्चाकॢपिचृतेः** - ऋदुपधाच्चा । कॢप्चृती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः । ननु तपरकरममिह व्यर्थमित्यत आह — अनित्यण्यन्ता इति । णिजन्तात्तु यदेवेति ।अचो य॑दित्यनेनेति भावः । Tattvabodhini ------------- **ऋदुपधाच्चाकॢपिचृतेः** - कॢपिचृत्योस्त्विति । कृपू सामर्थ्ये । चृती हिंसाग्रन्थनयोः । कल्प्यमिति । कृपेर्लत्वस्याऽसिद्धत्वात्, ऋऌवर्णयोः सावण्र्यविधानाच्च ऋदुपधत्वम् । Padamanjari ----------- ऋदुपधाच्चाकॢपिचृतेः॥ कॢपिचृती वर्जयित्वेति।'कॢपू सामर्थ्ये' 'चृती हिंसाग्रन्थनयोः' कृपेर्लत्वस्यासिद्धत्वाद्दकारऌकारयोस्सवर्णसंज्ञाविधानाच्च ऋदुपधात्वम्। कृत संशब्दने ण्यदेव भवतीति। ठनित्यण्यन्ताश्चुरादयऽ इति णिजभावपक्ष इति भावः। इदमेव च तपरकरणं लिङ्गम् - अनित्यण्यन्ताश्चुरादय इति। णिजन्तातु णिलोपे कृते चाकृते च दित्स्यं धित्स्यमितिवद्यदेव भवति। पाणिसर्ग्येति। पाणिभ्यां सृज्यत इत्युपपदसमासः, पूर्ववत्कुत्वम्। एवं समवसर्ग्येत्यत्रापि॥ Nyaas ----- `कॢपिचृतौ वर्जयित्वा` इति। `कृपू सामर्थ्ये` (धातुपाठः-762), `चृती {हिंसाश्रन्थनयोः` धातुपाठः-} हिंसाग्रन्थनयोः` (धातुपाठः-1324) इत्येतौ त्यक्त्वा। कृपेर्लत्वस्यासिद्धत्वादृदुपधत्वम्। `कल्प्यम्` इति। लत्वस्यामिद्ध्तवादृकारस्यैवाकारो गुणः। `ण्यदेव भवति - कीर्त्त्यम्` इति। आर्धधातुकविवक्षायां चुरादिणिचः **णेरनिटि** (6.4.51) इति णिलोपे कृ-ते हलन्ततोपजायत इति कृत्वा `ऋहलोण्र्यत्` (3.1.124) इति ण्यदेव भवति। `हलि च` (8.2.77) इति दीर्घः। ननु च `अचो यत्` (3.1.97) इत्यत्राज्ग्रहणस्य प्रयोजनमुक्तम् - अजन्तभूतपूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यमिति;एवञ्चेहापि णिचि यतैव भवितव्यम्? एवं तह्र्रनित्यण्यन्ताश्चुरादय इत्यण्यन्तादेवात्र ण्यद्भवतीत्यदोषः। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्ववत्।पाणिभ्यां रुआष्टव्या `पाणिसग्र्या रज्जुः`। `उपपदमतिङ्ट (2.2.19) इति समासः। `समवपूर्वाच्च` इति। सृजेण्र्यद्भवतीति सम्बध्यते। चकारः समुच्चये।न केवलं पाणावुपपदे ण्यद्वक्तव्यः; अपि तु समवपूर्वाच्च॥ Prakriyasarvasvam ----------------- क्लृपिचृतिवर्जितादृदुपधाद् धातोः क्यप् स्यात् । कृष्यम् दृश्यम् । क्लृपिचृ- त्योस्तु ण्यत् । कल्प्यम् । 'चृती' हिंसाग्रन्थनमोचनेषु । चर्यम् । ऋचेः ऋदुपधत्वेऽपि ण्यति कुत्वनिषेधाद् ण्यदेव ज्ञापितः । (वा० ३-१-१२४) पाणिना कार्या पाणिसर्ग्या रज्जुः । समवपूर्वाच्च (वा० ३-१-१२४) समवसर्ग्यः । अन्यत्र सृज्यम् । Sutra Prayogas -------------- * **कृष्यां** (रघुवंशम्): `ऋदुपधाञ्चाक्लृपि चृतेः` इति क्यप्। * **अविमृष्यम्** (किरातार्जुनीयम्): `ऋदुपधाच्चाक्लृपिचृतेः` इति क्यप्। * **वृत्येन** (भट्टिकाव्यम्): `ऋदुपधात्` इति क्यप्।