31108: हनस्त च¶
Padacheda: हनः | S | 6 | 1 |
त | S | | | 1
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
After the root हनु ‘to kill’ when in construction with a case-inflected word as its उपपद and when used without a preposition comes the affix क्यप् in denoting condition and the letter त is the substitute of its final.
Vasu English Translation¶
After the root हनु ‘to kill’ when in construction with a case-inflected word as its उपपद and when used without a preposition comes the affix क्यप् in denoting condition and the letter त is the substitute of its final. The phrases सुपि अनुपसर्गे and भावे are understood in this sutra.
As ब्रह्म + हन् + क्यप् = ब्रह्म + हत् + य = ब्रह्महत्य, (6.1.71) ब्रह्महत्या ‘Brahman- murder’. So also अश्वहत्या ‘killing a horse’.
When not in construction with a noun, the form is घातः ‘a blow’ (हन् + णिच् +घञ्). This verb does not take the affix ण्यत् in denoting condition, there being no example of such formation.
Why do we say ‘when not taking a preposition’? Observe प्रघातो वर्तते ‘there is a combat’.
Bhashya¶
हनस्त च (725) (446 क्यप्प्रत्ययविधिसूत्रम् ॥ 3 । 1 । 3 आ .9 ) (1948 वार्तिकम् ॥ 1 ॥) - हनस्तश्चित्स्त्रियां छन्दसि- (भाष्यम्) हनस्त चेत्यत्र चित्स्त्रियां छन्दसि इति वक्तव्यम्। तां भ्रूणहत्यां निगृह्यानुचरणम्। अस्यै त्वा भ्रूणहत्यायै चतुर्थं प्रतिगृह्यते। (आक्षेपभाष्यम्) स्त्रियामिति किमर्थम्?। (समाधानभाष्यम्) आघ्नते दस्युहत्याय। (आक्षेपभाष्यम्) छन्दसीति किमर्थम्?। (समाधानभाष्यम्) श्वहत्या दस्युहत्या वर्तते ॥ हनस्त च ॥ 108 ॥
Kashika¶
सुप्यनुपसर्ग इति वर्तते, भाव इति च। हन्तेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप् प्रत्ययो भवति, तकारश्चान्तादेशः। ब्रह्महत्या। अश्वहत्या। सुपीत्येव — घातः। ण्यत् तु भावे न भवत्यनभिधानात्। अनुपसर्ग इत्येव — प्राघातो वर्तते॥
Siddhanta Kaumudi¶
अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकाश्चान्तादेशः । ब्राह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ॥
Balamanorama¶
हनस्त च - हनस्त । अन्तादेश इति ।प्रकृते॑रिति शेषः । भावे किम् । घात्यो वृषलः । अनुपसर्गे किम् । प्रघातः । निरुपपदं हत्येति त्वसाध्वेव ।
Padamanjari¶
हनस्त च॥ ब्रहामहत्येति। स्वभावतः स्त्रीलिङ्गत्वमस्य क्यबन्तस्य, यथान्येषां भावे कृत्यानां नपुंसकत्वम्। च्छन्दसि तु क्यबन्तस्यापि नपुंसकत्वमिष्यते - सनादेव दस्युहत्याय जज्ञिषे। च्छन्दिस च स्त्रियां चिद्वक्तव्यः - अस्यै ब्रह्महत्यायै तृतीयं परिगृहाणेति। प्रघातो वर्तत इति। किं पुनः कारणं घञ् प्रत्युदाह्रियते, न ण्यदित्यत आह - ण्यतु भावे न भवतीति। कर्माविवक्षायामकर्मकत्वे सत्यपीति भावः। सकर्मकातु भावे ण्यतः प्राप्तिरेव नास्ति॥
Nyaas¶
ब्राहृहत्या इति। ब्राहृणो हननमित्यर्थः। धातः इति। पूर्ववत् तत्वकत्वे। किमर्थं पुनर्घञ् प्रत्युदाह्यियते, न ण्यदित्याह - ण्यत्तु इत्यादि। तत्रैव युक्तिमाह - अनभिधानात् इति।अबिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति, न च हन्तेर्विहितेन ण्यता भावः शक्यतेऽभिधातुम्। तथा हि धात्य इत्युक्ते कर्मैव प्रतीयते, न भावः॥
Prakriyasarvasvam¶
हनेरनुपसर्गे सुप्पुपपदे क्यप् स्यात्, तश्चान्तादेशः । ब्रह्मन् हत्या । अत्र ब्रह्मञ्छब्दस्य समासस्थसुब्लोपेऽपि, ‘प्रत्ययलोपे प्रत्ययलक्षणम् (१-१-६२) इति सुबन्तत्वेन पदत्वे ।
Sutra Prayogas¶
रिपु-हत्यां (भट्टिकाव्यम्): हनस्त च इति क्यप् तकारश्चान्तादेशः।