31107: भुवो भावे¶
Padacheda: भुवः | S | 5 | 1 |
भावे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After the root भू ‘to be’, in construction with a case-inflected word as its उपपद and when used without a preposition, the affix क्यप् is used to denote condition - भाव।
Vasu English Translation¶
After the root भू ‘to be’, in construction with a case-inflected word as its उपपद and when used without a preposition, the affix क्यप् is used to denote condition - भाव। The words सुपि and अनुपसर्गे of previous sutras are understood in this. The anuvritti of यत् does not cover this aphorism. As ब्रह्मभुवं गतः = ब्रह्मत्वं गतः ‘gone to or arrived at *Brahma*hood’; देवभुवं = देवत्वं गतः ‘gone to divinity’.
The word bhava of this sutra governs the succeeding ones.
Why do we say ‘in construction with a case-inflected word’? Otherwise it will take यत्; as भू + यत् = भो + यत् = भव्यम् (VI.I.79).
Why do we say ‘not taking a preposition’? Observe प्रभव्यम् ।
Bhashya¶
भुवो भावे (724) (445 क्यप्प्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आ.8) (आक्षेपभाष्यम्) भावग्रहणं किमर्थम्?। (प्रयोजनभाष्यम्) कर्मणि मा भूदिति। (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। भवतिरकर्मकः। (प्रयोजनसाधकभाष्यम्) अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति। तेनानुभाव्यमामन्त्रणमित्यत्रापि प्राप्नोति॥ (प्रयोजनबाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। अनुपसर्गे इति वर्तते। (प्रयोजनभाष्यम्) उत्तरार्थं तर्हि भावग्रहणं कर्तव्यम्। हनस्त च भावे यथा स्यात् - -श्वहत्या वर्तते। इह मा भूत् श्वघात्यो वृषलः इति॥ भुवो भावे॥ 107 ॥
Kashika¶
सुप्यनुपसर्ग इत्यनुवर्तते। भवतेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत् तु नानुवर्तते। ब्रह्मभूयं गतः। ब्रह्मत्वं गतः। देवभूयं गतः, देवत्वं गतः। भावग्रहणमुत्तरार्थम्। सुपीत्येव — भव्यम्। अनुपसर्ग इत्येव — प्रभव्यम्॥
Siddhanta Kaumudi¶
क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥
Balamanorama¶
भुवो भावे - भुवो भावे । ब्राहृभूयमिति । कित्त्वान्न गुणः । क्लीबत्वं लोकात् । भव्यमिति । भाव इत्यर्थः । अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः,वान्तो यी॑त्यवादेशः । प्रभव्यमिति । प्रभाव इत्यर्थः ।
Padamanjari¶
भुवो भावे॥ यतु नानुवर्तत इति पूर्वसूत्रे चानुकृष्टत्वात्। ननु’तयोरेव कृत्यक्तखलर्थाः’ इति भावकर्मणोः कृत्या विधीयन्ते, ठनुपसर्गेऽ इति चानुवर्तते, अनुपसर्गश्च भवतिरकर्मक एव, अतः सामर्थ्याद्भाव एव भविष्यति? ननु च प्राप्त्यर्थः सकर्मक एव? सत्यम्; व्यक्तिनिर्द्देशात्, प्राथम्याच्च सतार्थस्यैव ग्रहणम्। न चच कालादिकर्मणि प्रसङ्गः अनभिधानात्, तत्किमर्थ भावग्रहणम्? इत्यत्राह - भावग्रहणमुतरार्थमिति।’हनस्त च’ इति सकर्मकादपि हनो भावे यथा स्याद् - ब्राह्महत्या वर्तत इति, कर्मणि मा भूत् - त्वया घात्यो वृषल इति॥
Nyaas¶
यत् तु नानुवर्तते इति। पूर्वसूत्रे चानुकृष्टत्वात्। ब्राहृभूयं गतः इति। ब्राहृत्वं प्राप्त इत्यर्थः। ननु च तयोरेव कृत्यक्तखलर्थाः (3.4.70) इति भावकर्मणोः कृत्वा विधीयन्ते, अनुपसर्ग इति चानुवर्तते, अनुपसर्गश्च भवतिरकर्मक इतिसामर्थ्याद्भाव एव भविष्यति, न कर्मणि, किं भावग्रहणेन? इत्याह - भावग्रहणेन? इतयाह - `भावग्रहणमुत्तरार्थम् इति। एतेन हनस्त च (3.1.108) इत्यत्रोपयोगमाह - तत्र भाव एव यथा स्यात्। भव्यम् इति। अचो यत्` (3.1.97) , धातोर्गुणः, धातोस्तन्निमित्तस्यैव (6.1.80) इत्यवादेशः॥
Prakriyasarvasvam¶
अनुपसर्गे सुबन्त उपपदे भूधातोर्भावेऽर्थे क्यप् स्यात् । गुणे प्राप्ते ।
Sutra Prayogas¶
ब्रह्मभूयम् (रघुवंशम्): भुवो भावे इति क्यप्।
दाशरथिभूयम् (शिशुपालवधम्): भुवो भावे इति क्यप् प्रत्ययः।
देवभूयं (शिशुपालवधम्): भुवो भावे इति क्यप् ।
भूयम् (भट्टिकाव्यम्): भुवो भावे इति क्यप्।
मित्र-भूयं (भट्टिकाव्यम्): भुवो भावे इति क्यप्।