31098: पोरदुपधात्

Padacheda: पोः | S | 5 | 1 |

अदुपधात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix यत् comes after a root which ends in a labial letter preceded by a short अ।

Vasu English Translation

The affix यत् comes after a root which ends in a labial letter preceded by a short अ। This debars ण्यत्; thus शप् + यत् =शप्यं ‘to be sworn’; लभ् + यत् = लभ्यम् ‘to be acquired’.

Why do we say ‘which ends in a labial’? Because if a root ends in any other consonant, though preceded by a short अ, the root will take ण्यत्; thus पच् + ण्यत् = पाक्यम् ‘what is to be cooked’; वाक्यम् ‘speech’.

Why do we say ‘when preceded by a short अ’? When preceded by any other vowel, it will take ण्यत्; thus कुप् + ण्यत् = कोप्यम् ‘to be angry’; so also गोप्यम् ‘to be concealed’.

The word अत् is used in the sutra in the original. The force of त् here is, by (1.1.70), that short अ having one matra or prosodial length is to be taken and not long आ. Therefore, after the root आप् ‘to obtain’, we have ण्यत् and not यत्; thus आप्यम् ‘to be reached’ i. e. ‘attainable’.

Kashika

पवर्गान्ताद् धातोरकारोपधाद् यत् प्रत्ययो भवति। ण्यतोऽपवादः। शप् — शप्यम्। लभ् — लभ्यम्। पोरिति किम्? पाक्यम्। वाक्यम्। अदुपधादिति किम्? कोप्यम्। गोप्यम्। तपरकरणं तत्कालार्थम्। आप्यम्॥

Siddhanta Kaumudi

पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम् । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ॥

Laghu Siddhanta Kaumudi

पवर्गान्ताददुपधाद्यत्स्यात्। ण्यतोऽपवादः। शप्यम्। लभ्यम्॥

Balamanorama

पोरदुपधात् - पोरदुपधात् । ननु शप्यं लभ्यमित्यत्रऋहलोण्र्य॑दिति कदाचिण्ण्यदपि स्यात्, यण्ण्यतोरसारूप्येण वाऽसरूप इत्यस्य प्रवृत्तेरित्यत आह — - नानुबन्धकृतमसारूप्यमिति । वाऽसरूपसूत्रे भाष्ये स्थिमिदम् । अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विविक्षितमित्यर्थः । प्रकृते च यण्ण्यतोरनुबन्दरहितयोः सारूप्याद्वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ ण्यदपवादो यदेवेति भावः ।

Tattvabodhini

पोरदुपधात् - पोः किम् । पाक्यम् । अदुपधात्किम् । कोप्यम् । तपरकरमं किम् । आप्लृ व्याप्तौ । आप्यम् । नानुबन्धेति । अनुबन्धानामनवयवत्वत्तत्कृतमसारूप्यं नाश्रीयते । एकान्तत्वपक्षेऽपिददातिदधात्योर्विभाषा॑ इति विभाषाग्रहणाल्लिङ्गन्नाश्रीयते । अन्यथा अनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन विभाषाग्रहणेन । ततश्च पक्षद्वयेऽपि शप्यमित्यादौ ण्यन्न भवतीति भावः । एतच्च ददातीत्यादिसूत्रे विभाषाग्रहणमनुबन्धानामेकान्तत्वपक्षे शविषये णस्याऽप्राप्तौ विभाषा, एकान्तत्वपक्षे तु प्राप्तविभाषेति पक्षद्वयसाधारणं विभाषाग्रहणं लिङ्गं मनोरमायामेकान्तत्वपक्ष एवोपन्यस्तमिति तदनुसारेणेहाप्युक्तम् । अनेकान्तत्वपक्षे त्वसाधारणं लिङ्गम्उदीचां माङः॑ इति सूत्रे माङो ग्रहणम् । मेङ इत्यत्र हि सत्यपि ङकारानुबन्धे तस्यानवयवत्वदेजन्तत्वमविहतमितिआदेच उपदेशे॑ इत्यात्वस्वीकारादिति दिक् । ण्यदेवेति । तेनतित्स्वरित॑मिति स्वरिते सति आलम्भ्य इत्यत्र समासान्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण स्वरितान्तत्वमिष्टं सिध्यति, यति तुयतोऽनावः॑ इत्याद्युदात्तत्वेनोत्तरपदाद्युदात्तत्वं प्रसज्येत, तच्चाऽनिष्टमिति भावः ।

Padamanjari

पोरदुपधात्॥ पाक्यं वाक्यमिति।’चजोः कु घिण्ण्यतोः’ इति कुत्वम्। कोप्यं गोप्यमिति।’कुप कोपने’ ,’गुप व्याकुलत्वे’ । आप्यमिति। ठाप्लृ व्याप्तोऽ एषु त्रिषु’यतो’ नावःऽ इत्याद्यौदातत्वं न भवति, तित्स्वरित एव तु भवति॥

Nyaas

प्राक्यम्। वाक्यम् इति। चजोः (7.3.52) इति कुत्वम्। कोप्यम्। गोप्यम् इति। कुप क्रोधे (धातुपाठः-1233), गुप {गोपने इत्येव-धातुपाठः-} गोपनकुत्सनयोः (धातुपाठः-970), गुप व्याकुलीकरणे (धातुपाठः-1234)। आप्यमिति। आप्लृ व्याप्तौ (धातुपाठः-1260)॥

Prakriyasarvasvam

पवर्गान्ताददुपधात् धातोर्यत् स्यात् । शप्यम् । लभ्यम् । नम्यम् ।

Sutra Prayogas

  • रम्यतां (किरातार्जुनीयम्): पोरदुपधात् इति यत्प्रत्ययः।

  • लभ्या (भट्टिकाव्यम्): पोरदुपधात् इति यत्।

  • उपलम्भ्याम-पश्यन्तः (भट्टिकाव्यम्): पोरदुपधात् इति यत्।

  • क्षम्यं (भट्टिकाव्यम्): पोरदुपधात् इति यत् ।