31099: शकिसहोश्च

Padacheda: शकि-सहोः | S | 6 | 2 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix यत् comes after roots शकॢ ‘to be able’ and सह ‘to bear’.

Vasu English Translation

The affix यत् comes after roots शकॢ ‘to be able’ and सह ‘to bear’. Thus शक्यम् ‘possible’; सह्यम् ‘endurable’.

Kashika

शक्ऌ शक्तौ,**षह मर्षणे** अनयोर्धात्वोर्यत् प्रत्ययो भवति। शक्यम्। सह्यम्॥

Siddhanta Kaumudi

शक्यम् । सह्यम् ॥

Balamanorama

शकिसहोश्च - शकिसहोश्च । पञ्चम्यर्थे षष्ठी । आभ्यां यदित्यर्थः । ण्यतोऽपवादः ।

Padamanjari

शकिसहोश्च॥ शक्लृ शक्ताविति। उपलक्षणमेतत्,’शक विभाषितो मर्षणे’ इत्यस्यापि ग्रहणम्। षह मर्षण इति। ननु’षह शक्यर्थे’ इत्यस्यैव परस्मैपदिनोऽननुबन्धकस्य ग्रहणं प्राप्तम्, नैष दोषः; प्रत्ययविधिविषयत्वादननुबन्धकपरिभाषायाः, तस्माद् द्वयोरपि ग्रहणम्। अन्ये तु’कृत्यल्युटो बहुलम्’ इति वृत्तिकारोक्तयोरेव ग्रहणमिच्छन्ति॥

Prakriyasarvasvam

अनयोर्यत् । शक्यः । पङ् मर्षेणे ।

Sutra Prayogas

  • शक्यम् (कुमारसम्भवम्): शकिसहोश्च इति कर्मणि यत्प्रत्ययः।

  • अ-सह्यं (भट्टिकाव्यम्): शकि-सहोश्च इति यत् ।

  • सह्यः (भट्टिकाव्यम्): शकि-सहोश्च इति यत्।