31097: अचो यत्¶
Padacheda: अचः | S | 5 | 1 |
यत् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix यत् comes after a root that ends in a vowel.
Vasu English Translation¶
The affix यत् comes after a root that ends in a vowel. The letter त् of this affix is indicatory showing that the udatta accent falls on the first vowel (6.1.213); thus गा + यत् = गेय, noun sing. गेयम् ‘what is to be sung’; so also पेयम् ‘what is to be drunk’; जेयम् ‘what is to be conquered’. The आ of गा and पा is changed into ए by (6.4.65). Why do we say ‘that ends in a vowel’? By sutra 124 of this chapter, a root ending in a consonant takes ण्यत् affix instead of यत्; reading these two aphorisms together, the conclusion to be drawn is that the affix यत् comes after roots which primarily end in a vowel, though in the course of development they may end in a consonant by the application of other rules. Thus from दो ‘to cut’, we have the desiderative root दित्स, which ends in a vowel अ. This अ is elided before ardhadhatuka affixes and thus the root becomes दित्स्, which ends in a consonant; nevertheless we shall have the affix यत् and not ण्यत्. Thus दित्स्यम् ‘what is wished to be cut’; धित्स्यम् ‘what is wished to be placed’. Similarly लु before ardhadhatuka affixes becomes लो, the ओ is changed into अव् before य (6.1.79) and the form then is लव्. The root लव् however takes यत् and not ण्यत्; as लव्यो, पव्यम्, &c.
Vart:- The verbs तक् ‘to fly’, शच् ‘to leap’, चत् ‘to ask’, यत् ‘to attempt’ and जन् ‘to be born’, should be enumerated in addition; that is to say, these verbs, though ending in a consonant, take यत् and not ण्यत्; as तक्यम्, शस्यम्, चत्यम्, यत्यम्, and जन्यम्.
Vart:-Ånd of the verb हन् ‘to kill’ वध is the substitute when it optionally takes the affix यत्. Thus we have वध्यम् or घात्यम्. The latter form is evolved by sutras (VII.3.32 and 54). The affix यत् comes only after the वध् substitute; after हन् the affix ण्यत् comes which changes the ह into घ, and न into त and causes vriddhi.
Bhashya¶
अचो यत् (714) (440 यत्प्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आ.4) (अज्ग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अज्ग्रहणं किमर्थम्?। (प्रयोजनभाष्यम्) अजन्ताद्यथा स्याद्, हलन्तान्मा भूदिति॥ (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। हलन्ताण्ण्यद्विधीयते, स बाधको भविष्यति॥ (प्रयोजनसाधकभाष्यम्) यथैव तर्हि ण्यद्यतं बाधते। एवं तव्यदादीनपि बाधेत। अज्ग्रहणे पुनः क्रियमाणे अजन्ताद्यद्धिधीयते, हलन्ताण्ण्यद्विधीयते। एतावन्तश्च धातवो यदुताजन्ता हलन्ताश्च। उच्यन्ते च तव्यदादयः। ते वचनाद्भविष्यन्ति॥ (प्रयोजनबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। वासरूपेण तव्यदादयो भविष्यन्ति॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम्। अजन्तभूतपूर्वमात्रादपि यथा स्यात् - लव्यम्, पव्यम्। आर्द्धधातुकसामान्ये गुणे कृतेपि प्रत्ययसामान्येपि च वान्तादेशे कृते हलन्तादितिण्यत् प्राप्नोति॥ तथा दित्स्यं धित्स्यम्। आर्द्धधातुकसामान्ये अकारलोपे कृते हलन्तादिति ण्यत् प्राप्नोति। अज्ग्रहणसार्मथ्याद्यदेव भवति। (1941 यत्प्रत्ययवार्तिकम्॥ 1 ॥) - यति जनेरुपसंख्यानम्- (भाष्यम्) यति जनेरुपसंख्यानं कर्तव्यम्। जन्य वत्सेन॥ अत्यल्पमिदमुच्यते( - जनेः इति।) (1942 वार्तिकन्यासान्तरम्॥ 2 ॥) - तकिशसिचतियतिजनीनामुपसंख्यानमिति वक्तव्यम्- (भाष्यम्) तकि - तक्यम्। शसि - शस्यम्। चतिचत्यम्। यति - -यत्यम्। जनि - जन्यम्॥ (1942 कृत्ययत्प्रत्ययवार्तिकम्॥ 2 ॥) - हनो वा वध च- (भाष्यम्) हन्तेर्वा यद्वक्तव्यः। वध इत्ययं चादेशः। वध्यः। घात्यः॥ (1943 तद्धितानुपपत्तिभाष्यम्) यदि तद्धितः, समासो न प्राप्नोति - -असिवध्यो मुसलध्य इति। यति पुनः सति साधनं कृतेति वा पादहारकाद्यर्थम् इति समासः सिद्धो भवति॥ (तद्धितोपपत्तिभाष्यम्) यति पुनरसिवधशब्दादेवोत्पत्तिः स्याद्। असिवधमर्हतीति॥ (तद्धितानुपपत्तिभाष्यम्) नैवं शक्यं वक्तुम्। स्वरे हि दोषः स्यात् - असिवध्यः एवं स्वरः प्रसज्येत। असिवध्य इति चेष्यते॥ अचो॥ 97 ॥
Kashika¶
अजन्ताद् धातोर्यत् प्रत्ययो भवति। तकारो यतोऽनावः (६.१.२१३) इति स्वरार्थः। गेयम्। पेयम्। चेयम्। जेयम्। अज्ग्रहणं किं यावता हलन्ताण् ण्यतं वक्ष्यति? अजन्तभूतपूर्वादपि यथा स्यात्। दित्स्यम्। धित्स्यम्॥ तकिशसिचतियतिजनीनामुपसंख्यानम्॥ तकि — तक्यम्। शसि — शस्यम्। चति — चत्यम्। यति — यत्यम्। जनि — जन्यम्॥ हनो वा वध च॥ वध्यम्। घात्यम्॥
Siddhanta Kaumudi¶
अजन्ताद्धातोर्यत्स्यात् । चेयम् । जेयम् । अज्ग्रहणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तव्यादिष्वेव यतोऽपि सुपठत्वात् ॥
Laghu Siddhanta Kaumudi¶
अजन्ताद्धातोर्यत् स्यात्। चेयम्॥
Balamanorama¶
अचो यत् - अचो यत् । शक्यमकर्तुमिति ।ऋहलोण्र्य॑दिति ऋहलन्ताद्विशिष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्ययस्याऽप्रवृत्तिरित्यर्थः । वासरूपविधिस्तु सरूपत्वान्न भवति । योगविभागोऽप्येवमिति । कर्तुमशक्य इत्यर्थः । कुत इत्यत आह — तव्यदादिष्वेवेति ।तव्यत्तव्यानीयर्यतः इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः ।
Tattvabodhini¶
अचो यत् - अचो यत् । धातोरिति वर्तते । अज्ग्रहणं च धातोर्विशेषणं, विशेषणेन तदन्तविधिस्तदाह — अजन्तादिति । शक्यमकर्तुमिति । अत्र केचिदज्ग्रहणमजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थपेक्षितम् । तेन दित्स्यं धित्स्यमित्त्र यति कृतेयतोऽनावः॑ इत्याद्युदात्तत्वं सिध्यति, ण्यति कृतेतुतित्स्वरितम् इति प्रसज्येत । न च दित्स्यं धित्स्यमित्यत्रऋहलोः॑ इति ण्यतः प्रसक्तिरेव नास्तीति वाच्यम्, आर्धधातुकविवक्षायामेव अतो लोपे कृते हलन्तत्वेन तत्संभवादित्याहुस्तदापाततः । आर्धधातुके विवक्षिते यद्यतो लोपः स्यात्तदा हीदं संभवेत् । लोपस्तु आर्धधातुके पर एवोचितः । अन्यथा परनिमित्तत्वाऽभावेन स्थानवत्त्वाऽभावे गणयतीत्यादावुपधावृद्धिप्रसङ्गादिति भावः । सुपठत्वादिति । द्वये धातवोऽजन्ता हलन्ताश्च । तत्र हलन्ताण्ण्यन्तं वक्ष्यतीति परिशेषादज्तादेव यद्भविष्यतीति भावः । तकिशसीति । तक हसने । शसु हिंसायाम् । चते याचने । यत्तु केचिच्छंसीति सानुस्वारं पठन्ति तदुपेक्ष्यम्,ईडवन्दवृशंसदुहां ण्यत॑ इति सूत्राऽविरोधेन शंसेण्र्यत एव स्वीकर्तव्यत्वात् ।
Padamanjari¶
अचो यत्॥ अज्ग्रहणं किमिति। पूर्वसूत्र एव यद्ग्रहणं कर्तव्यमिति प्रश्नः। यावतेत्यादि। द्वये हि धातवः - अजन्ताः, हलन्ताश्च। तत्र हलन्ताद् ण्यतं वक्ष्यति, अतः पारिशेष्यादजन्तादेव यद्भविष्यतीत्यभिप्रायः। अजन्तभूतपूर्वादपीति। पूर्व भूतो भूतपूर्वः सुप् सुपाऽ इति समासः, अजन्तश्चासौ भूतपूर्वश्च अजन्तभूतपूर्वः। दित्स्यं धित्स्यमिति। दाञो धाञश्च सन्, द्विर्वचनम्,’सनिमीमाघु’ इत्यादिना इस,’सः स्यार्द्धधातुके’ इति तत्वम्, ठत्र लोपोऽभ्यासम्यऽ दित्स धित्स इति स्थिते, अनुत्पन्न एवार्द्धधातुके बुद्धिस्थे एवातो लोपे कृते सम्प्रत्ययं कृते सम्प्रत्ययं हलन्त हि ण्यत् स्याद्; अज्ग्रहणातु भूतपूर्वमजन्तत्वमाश्रित्य यद्भवति। तेन’यतो’ नावःऽ इत्याद्यौदातत्वम्, ण्यति तु तित्स्वरितं स्यात्। चिकीर्ष्यमित्यादौ तु ण्यद्यतोर्विशेषाभावः।’यतो’ नावःऽ इत्यत्र हि’द्व्यचः’ इति वर्तते। यदा त्वाद्धंधातुके परतो लोपः, तदैतदज्ग्रहणं न कर्तव्यमेव। तकिशसीत्यादि।’तकि हसने’ ‘शसु हिसायाम्’ ‘चते चदे याचने’ ‘यती प्रयत्ने’ ‘जनी प्रादुर्भावे’ ‘यतो’ नावःऽ इति स्वरार्थ जनेर्यद्विधानं जन्यमिति रूपम्, न तु ण्यतापि सिद्धम्;’जनिवध्योश्च’ इति वृद्धिप्रतिषेधात्। शसिमपि केचित्पठन्ति - -तद्वा नाराशंस्यं राद्व्यं च। हनो वा वध चेति। हन्तेर्वा यत्प्रत्ययो भवति, तत्सन्नियोगेन च वधादेशः। वध्यमिति। तद्धितान्तो वा पुनरेष भविष्यति - वधमर्हतीति वध्यः,’दण्डादिभ्यः’ इति यत्।यदि तद्धितः, समासो न प्राप्नोति - असिवध्यः, मुसलवध्य इति, कृति पुनः सति’कॄतृकरणे कृता बहुलम्’ इति समासः सिद्धो भवति। घात्यमिति।’हनस्तोचिण्णलोः’ इति तत्वम्,’हो हन्तेर्ञ्णिन्नेषु’ इति कुत्वम्॥
Nyaas¶
तकारः `यतोऽनावः इति {स्वरार्थः - काशिका} विशेषणार्थः` इति। आद्युदात्तार्थः। गेयम् इति। कै गै शब्दे (धातुपाठः-916,917), आदेच उपदेशेऽशिति (6.1.45) इत्यात्त्वम्, ईद्यति (6.4.65) इतीत्त्वम्, गुणः।यावता इत्यादि। इह द्विविधा धातवः - हलन्ता अजन्ताश्च; तत्र ऋहलोण्र्यत् (3.1.124) इति ण्यतं हलन्तादिच्छति।अतः परिशेष्यादेवाज्ग्रहणमन्तरेणाप्यजन्तादेव यद्भविष्यतीत्यतोऽज्ग्रहणमपार्थकमित्यभिप्रायः। अजन्तभूतपूर्वात् इति। अजन्तश्चासौ भूतपूर्वश्चेति कर्मधारयः। यः प्रागजन्त आसीत् संप्रति तु हलन्तः, ततोऽपि यथा स्यादित्येवमर्थमज्ग्रहणम्। दित्स्यम्। धित्स्यम्। दाञो धाञश्च सन्, द्विर्वचनम्। सनि मीमा (7.4.54) इतीस्। अत्र लोपोऽभ्यासस्य (7.4.58) इत्यभ्यासलोपः। सः स्यार्धधातुके (7.4.49) इति तत्त्वम्। अनुत्पन्न एवार्धधातुके विषयभावेन विवक्षिते अतो लोपः (6.4.48) इत्यकारलोपः। अस्यामवस्थायामसत्यज्गर्हणे न स्यात्; अनजन्तत्वात्। तस्मस्तु सति भूतपूर्वमजन्तत्वमाश्रित्य भवति। पाक्षिकञ्चैतत् प्रयोजनं वेदितव्यम्। क्व तस्मिन्पक्षे? यदार्धधातुके विषयभावन विवक्षिते अतो लोपः (6.4.48) विधीयते। यदाऽऽर्धधातुकः, तदा नेदं प्रयोजनम्। विस्पष्टार्थं त्वज्ग्रहणं वेदितव्यम्।तकिशसि इत्यादि। तक { सहने इति मुद्रितः पाठः} हसने(धातुपाठः-117), `शसु हिंसायाम् (धातुपाठः-727), चते चदे याचने (धातुपाठः-865,866) , यती प्रयत्ने (धातुपाठः-30), जनी प्रादुर्भावे (धातुपाठः-1149) - एषां यत्प्रत्ययस्योपसंख्यानम् = प्रतिपादनं कर्तव्यम्। प्रतिपादनं तु बहुलग्रहणमाश्रित्य कर्तव्यम्।हनो वा वध च इति। हन्तेर्धातोर्यत्प्रत्ययो भवति, ण्यतोऽपवादः। वावचनात् पपक्षे ण्यद्भवत्येव। यत्प्रत्ययस्तु तत एव बहुलवचनाल्लभ्यते। यदा यद्भवति तदा हन्तेर्बधादेशः। सोऽपि हनो वध लिङि (2.4.42) इत्यत्र बहुलं छन्दसि (7.4.78) इत्यतो बहुलग्रहणानुवृत्तेर्लभ्यते। घात्य इति। हनस्तः (7.3.32) इति तत्वम्, हो हन्तेः (7.3.54) इति कुत्वम्॥
Prakriyasarvasvam¶
अजन्ताद् धातोर्यत् स्यात् । गुणः । चेयम् । जेयम् । णीञ् प्रापणे ।
Vartika¶
तकिशसिचतियतिजनिभ्यो यद्वाच्यः ।
Sutra Prayogas¶
येयायेयाययाययः (किरातार्जुनीयम्): अचो यत् इति यत्प्रत्ययः।
निराकरिष्णुस् (भट्टिकाव्यम्): वीरेः स्वार्थिकण्यन्तात् अचो यत् तस्य निराकरिष्णुः निराकरणशीलः ।
नेयः (भट्टिकाव्यम्): अचो यत् इति कर्मकरोपमः भृतकतुल्यः।
वर्यो (भट्टिकाव्यम्): अचो यत् इति चौरादिकात्स्वार्थिकण्यन्तात् यत्।
कीटोपजनः (भट्टिकाव्यम्): अचो यत् इति उपजननमुपजनः।