31094: वाऽसरूपोऽस्त्रियाम्

Padacheda: वा | S | 0 | 0 |

असरूपः | S | 1 | 1 |

अस्त्रियाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

In this portion of the sūtras, in which there is reference to verbal roots, an affix which is calculated to debar a general one, not being of the same form, optionally debars it; but not so in the case of feminine affixes – स्त्रियां क्तिन् (3.3.94).

Vasu English Translation

In this portion of the sūtras, in which there is reference to verbal roots, an affix which is calculated to debar a general one, not being of the same form, optionally debars it; but not so in the case of feminine affixes – स्त्रियां क्तिन् (3.3.94). Thus the affixes ण्वुल् and तृच् (III.I.I33) are general affixes applicable to all roots in forming nouns of agency; and the sutra (III.I.I33) which ordains these affixes, is an utsarga or a general rule; while the sutra (III.I.I35) ordaining the affix क्र after verbs having a penultimate इक् vowel, and the roots ज्ञा, प्री and कृ is an apavada or a special aphorism. In the latter case, therefore, optionally we may have the affixes ण्वुल् and तृच् also. Thus क्षिप् is a root that has a penultimate इ belonging to the pratyahara इक्; and therefore, in forming the noun of agency from it, the affix क will have to be applied by rule 135 of this chapter already mentioned; thus विक्षिप् + क = विक्षिप् + अ =विक्षिपः; but this special rule however does not debar the operation of the general rule, and we have optionally विक्षिप् + ण्वुल् =विक्षेपकः; an विक्षिप् + तृ =विक्षेप्तृ nom. sing. विक्षेप्ता.

Why do we say ‘not being of the same form’? Because if two affixes have the same form, the present rule will not apply; and in the case of such affixes, the special affix will debar the general affix. Thus the affixes अण् and क are, when stripped of their indicatory letters, affixes having the same form i.e. अ; and therefore the sutra (III.2. I.) ordaining अण् as a general rule, will be always debarred by sutra (3.2.3) ordaining क, as the latter is a special sutra applicable only to those roots which end in long आ, or which are simple roots not compounded with any preposition. Thus गो + दा + क = गोदः ‘giver of cows’. So also कम्बलदः ‘blanket-giver’. In these cases we cannot have the affix अण्.

It follows from this sutra as a necessary corollary, that the addition of indicatory letters does not make two or more affixes dissimilar in form (असरूप) when their essential effective element is the same. Thus the affixes क, अण्, अच्, ण् &c. are similar.

Why do we say ‘but not so in the case of feminine affixes’? Because in the case of feminine affixes, a special affix will debar a general affix, though they may be dissimilar in form. Thus sutra (3.3.94) ordaining क्तिन् in forming feminine nouns from roots is a general or utsarga rule, while sutra (3.3.102) ordaining अ after roots that have already taken some affix is a special or apavada rule, and though अ and ति are dissimilar in form, they being feminine affixes, the former will always debar the latter. Thus the compound desiderative roots चिकीर्ष and जिहीर्ष will form feminine nouns in आ and not by क्तिन्. Thus चिकीर्षा and जिहीर्षा and not चिकीर्षति &c.

Bhashya

वाऽसरूपोऽस्त्रियाम् (711) (437 सूत्रम्॥ 3 । 1 । 6 आ. 1 ) (आक्षेपभाष्यम्) कथमिदं विज्ञायते - स्त्रियामभिधेयायां वाऽसरूपो न भवतीति। आहोस्वित् स्त्रीप्रत्ययेष्वि ति?॥ किं चातः?। (अभिधेयपरत्वदूषणभाष्यम्) यदि विज्ञायते - -स्त्रियामभिधेयायाम् इति - लव्या लवितव्या अत्र वाऽसरूपो न प्राप्नोति॥ (स्त्रीप्रत्ययपरत्वदूषणभाष्यम्) अथ विज्ञायते - स्त्रीप्रत्ययेषु इति, व्यावक्रोशी व्यावक्रुष्टिरिति न सिध्यति॥ (सिद्धान्तभाष्यम्) एवं तर्हि नैवं विज्ञायते - स्त्रियामभिधेयायाम्, नापि स्त्रीप्रत्ययेष्विति। कथं तर्हि? स्त्रीग्रहणं स्वरयिष्यते॥ तत्र स्वरितेनाधिकारगतिर्भवतीति स्त्रियाम् इत्यधिकृत्य ये प्रत्यया विहितास्तेषां प्रतिषेधो विज्ञास्यते॥ (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं पुनरिदमुच्यते?॥ (1925 समाधानवार्तिकम्॥ 1 ॥) - असरूपस्य वावचनमुत्सर्गस्य बाधकविषयेऽनिवृत्त्यर्थम्- (भाष्यम्) असरूपस्य वावचनं क्रियते। उत्सर्गस्य बाधकविषयेऽनिवृत्तिर्यथा स्यात्। तव्यत्तव्यानीयर उत्सर्गाः तेषामजन्ताद्यदपवादः - -चेयम् चेतव्यमित्यपि यथा स्यात्॥ (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। अजन्ताद्यद्विधीयते। हलन्तात् ण्यद्विधीयते। एतावन्तश्च धातवो यदुताजन्ता हलन्ताश्च। उच्यन्ते च तव्यदादयस्ते वचनाद्भविष्यन्ति॥ (प्रयोजनभाष्यम्) एवं तर्हि ण्वुल्तृचावुत्सर्गौ, पचादिभ्योऽजपवादः - पचतीति पचः। पक्ता पाचक इत्यपि यथा स्यात्॥ (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् - -अजपि सर्वधातुभ्यो वक्तव्य इति॥ (प्रयोजनभाष्यम्) एवं तर्हि ण्वुल्तृजच उत्सर्गाः। तेषामिगुपधात्कोपवादः - विक्षिपः विलिखः । विक्षेप्ता विक्षेपक इत्यपि यथा स्यात्॥ अस्ति प्रयोजनमेतत्। किं तर्हीति। (1926 आक्षेपवार्तिकम्॥ 2 ॥) - तत्रोत्पत्तिवाप्रसङ्गो यथा तद्धिते- (भाष्यम्) तत्रोत्पत्तिर्विभाषा प्राप्नोति यथा तद्धिते॥ (आक्षेपबाधकभाष्यम्) अस्तु, यदा विक्षिपो विलिख इत्येतन्न, तदा विक्षेप्ता विक्षेपक इत्येतद्भविष्यति॥ (आक्षेपसाधकभाष्यम्) यद्येतल्लभ्येत कृतं स्यात्। तत्तु न लभ्यम्। किं कारणम्?। यथा तद्धित इत्युच्यते॥ तद्धितेषु च सर्वमेवोत्सर्गापवादं विभाषा, उत्पद्यते वा न वा॥ (1927 समाधानवार्तिकम्॥ 3 ॥) - सिद्धं त्वसरूपस्य बाधकस्य वावचनात्- (भाष्यम्) सिद्धमेतत्। कथम्?। असरूपस्य बाधकस्य वावचनात् असरूपो वा बाधको भवतीतीति वक्तव्यम्॥ (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते॥ (समाधानभाष्यम्) यथान्यासमेवास्तु॥ (दूषणस्मारणभाष्यम्) ननु चोक्तम् - - तत्रोत्पत्तिवाप्रसङ्गो यथा तद्धिते इति॥ (दूषणपरिहारभाष्यम्) नैष दोषः। अस्ति कारणं येन तद्धितेषु विभाषोत्पत्तिर्भवति। किं कारणम्?। प्रकृतिस्तत्र प्रकृत्यर्थे वर्तते, अन्येन च शब्देन प्रत्ययार्थोभिधीयते। इह पुनर्न केवला प्रकृतिः प्रकृत्यर्थे वर्तते। नचान्यः शब्दोस्ति यस्तमर्थमभिदधीतेति कृत्वा तेनानुत्पत्तिर्न भविष्यति॥ अथ वा समयः - कृतः - न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति। एतस्मात्समयादनुत्पत्तिर्न भविष्यति॥ (आक्षेपभाष्यम्) ननु च य एव तस्य समयस्य कर्ता स एवेदमप्याह। यद्यसौ तत्र प्रमाणम्, इहापि प्रमाणं भवितुमर्हति॥ (समाधानभाष्यम्) प्रमाणमसौ तत्र चेह च। सार्मथ्यं त्विह द्रष्टव्यं शब्दानां प्रयोगे। न चानुत्पत्तौ सार्मथ्यमस्ति। ततोनुत्पत्तिर्न भविष्यति॥ (आक्षेपभाष्यम्) कथं तर्हि तद्धितेष्वनुत्पत्तौ सार्मथ्यं भवति?॥ (समाधानभाष्यम्) अन्येन प्रत्ययेन सार्मथ्यम्। केन?। षष्ठ्या॥ अथ वा रूपवत्तामाश्रित्य वाविधिरुच्यते। न चानुत्पत्ती रूपवती। तेनानुत्पत्तिर्न भविष्यति॥ (आक्षेपभाष्यम्) एवमपि कुत एतत् - अपवादो विभाषा भविष्यति, न पुनरुत्सर्ग इति॥ (समाधानभाष्यम्) न चैवास्ति विशेषो यदपवादो विभाषा स्याद्, उत्सर्गो वा॥ अपि च सापेक्षोयं निर्देशः क्रियते वाऽसरूप इति। न चोत्सर्गवेलायां किंचिदपेक्ष्यमस्ति। अपवादवेलायां पुनरुत्सर्गोपेक्ष्यते। तेन यो रूपवानन्यपूर्वो बाधकः प्राप्नोति, स वा बाधको भविष्यति॥ कः पुनरसौ?। अपवादः॥ (आक्षेपभाष्यम्) यदि यो रूपवानन्यपूर्वो बाधकः प्रप्नोति स वा बाधको भवतीत्युच्यते। क्विबादिषु समावेशो न प्राप्नोति - ग्रामणीः ग्रामनाय इति। न ह्येते रूपवन्तः॥ (समाधानभाष्यम्) एतेपि रूपवन्तः। कस्यामवस्थायाम्?। उपदेशावस्थायाम्॥ (वार्तिकशेषभाष्यम्) यद्येवम्। (1928 आक्षेपवार्तिकम्॥ 4 ॥) - अनुबन्धविभिन्नेषु विभाषाप्रसङ्गः- (भाष्यम्) अनुबन्धविभिन्नेषु विभाषा प्राप्नोति - -कर्मण्यण् आतोनुपसर्गे क इति कविषयेऽणपि प्राप्नोति। (1929 समाधानवार्तिकम्॥ 5 ॥) - सिद्धमनुबन्धस्यानेकान्तत्वात्- (भाष्यम्) सिद्धमेतत्। कथम्?। अनुबन्धस्यानेकान्तत्वात्। अनेकान्ता अनुबन्धाः॥ (समाधानान्तरभाष्यम्) अथ वा प्रयोगेऽसरूपाणां वाविधिर्न्याय्यः॥ (1930 दूषणवार्तिकम्॥ 4 ॥) - प्रयोगे लादेशेषु प्रतिषेधः- (भाष्यम्) प्रयोगे चेल्लादेशेषु प्रतिषेधो वक्तव्यः। ह्योऽपचत् इत्यत्र लुङपि प्राप्नोति। श्वः पक्तेत्यत्र लृडपि प्राप्नोति॥ (दूषणपरिहारभाष्यम्) नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति - न लादेशेषु वासरूपो भवतीति। यदयं हशश्वतोर्लङ् च इत्याह॥ (समाधानान्तरभाष्यम्) अथ वा प्रयोगेऽसरूपाणां वाविधौ न सर्वमिष्टं संगृहीतमिति कृत्वा द्वितीयः प्रयोग उपास्यते॥ कोसौ?। उपदेशो नाम॥ उपदेशे चैतेऽसरूपाः॥ (दूषणस्मारणभाष्यम्) ननु चोक्तम् - - अनुबन्धविभिन्नेषु विभाषाप्रसङ्ग इति॥ (दूषणपरिहारस्मारणभाष्यम्) परिहृतमेतत् - - सिद्धमनुबन्धस्यानेकान्तत्वाद् इति॥ (दूषणभाष्यम्) अथैकान्तेषु दोष एव॥ (दूषणपरिहारभाष्यम्) एकान्तेषु च न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति - नानुबन्धकृतमसारूप्यं भवतीति। यदयं ददातिदधात्योर्विभाषां शास्ति॥ (परिहारान्तरभाष्यम्) अथवाऽसरूपो वा बाधको भवतीत्युच्यते। अपवादश्च नाम अनुबन्धभिन्नो वा भवति रूपान्यत्वेन वा। तेनानेनावश्यं किंचित्त्याज्यं किंचिच्च संगृहीतव्यम्। तद्यदनुबन्धकृतमसारूप्यम्, तन्नाश्रयिष्यामः, यत्तु रूपान्यत्वेनासारूप्यम्, तदाश्रयिष्यामः॥ (परिहारान्तरभाष्यम्) अथवा - असरूपो वा बाधको भवती त्युच्यते। सर्वश्चासरूपः तत्र प्रकर्षगतिर्विज्ञास्यते - साधीयो योसरूपः इति॥ कश्च साधीयान्?। यः प्रयोगे, प्राक् च प्रयोगात्॥ (परिहारान्तरभाष्यम्) अथवा - असरूपो वा बाधको भवतीत्युच्यते। न चैवं सति कश्चिदपि सरूपः। त एवं विज्ञास्यामः - क्वचिद्येऽसरूपाः इति। अनुबन्धभिन्नाश्च प्रयोगे सरूपाः॥ (आक्षेपभाष्यम्) अथ कथमिदं विज्ञायते अस्त्रियामिति - किं स्त्रियां न भवतीति, आहोस्वित् प्राक् स्त्रिया भवतीति। कश्चात्र विशेषः?। (1939 दूषणवार्तिकम्॥ 5 ॥) - स्त्रियां प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः- (भाष्यम्) स्त्रियां प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति॥ क्त - -हसितं छात्रस्य शोभनम्। घञ्ञपि प्राप्नोति॥ ल्युट् - -हसनं छात्रस्य शोभनम्। घञ्ञपि प्राप्नोति॥ तुमुन् - इच्छति भोक्तुम्। लिङ्लोटावपि प्राप्नुतः॥ खलर्थः - -इर्षत्पानः सोमो भवता। खलपि प्राप्नोति॥ (स्त्रियाः प्राग् इति पक्षाङ्गीकारभाष्यम्) एवं तर्हि स्त्रियाः प्रागिति वक्ष्यामि। (1932 दूषणवार्तिकम्॥6 ॥) - स्त्रियाः प्रागिति चेत् क्त्वायां वावचनम्- (भाष्यम्) स्त्रियाः प्रागिति चेत्क्त्वायां वावचनं कर्तव्यम्। आसित्वा भुङ्क्ते। आस्यते भोक्तुमित्यपि यथा स्यात्। (1933 दूषणवार्तिकम्॥ 7 ॥) - कालादिषु तुमुन्विधाने वावचनम्- (भाष्यम्) कालादिषु तुमुन्विधाने वावचनं कर्तव्यम्। कालो भोजनस्येत्यपि यथा स्यात्॥ (1934 वार्तिकम्।. 8 ॥) - अर्हे तृज्विधानम्- (भाष्यम्) अर्हे तृज् विधेयः। इमे अर्हे कृत्या विधीयन्ते ते विशेषविहिताः सामान्यविहितं तृचं बाधेरन्॥ (दूषणोद्धारभाष्यम्) नैष दोषः । भावकर्मणोः कृत्या विधीयन्ते कर्तरितृच्। कः प्रसङ्गो यद्भावकर्मणोः कृत्याः कर्तरि तृचं बाधेरन्। (1935 वार्तिकन्यासान्तरम्॥ 9 ॥) - अर्हे कृत्यतृज्विधानम्- (भाष्यम्) अर्हे कृत्यतृचो विधेयाः॥ अयमर्हे लिङ् विधीयते। स विशेषविहितः सामान्यविहितान् कृत्यतृचो वा बाधेत॥ वासरूपोस्त्रियाम्॥ 94 ॥ (अथ कृत्प्रकरणे कृत्यप्रकरणम्)

Kashika

अस्मिन् धात्वधिकारेऽसमानरूपोऽपवादप्रत्ययो वा बाधको भवति स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वा। ण्वुल्तृचौ (३.१.१३३) इत्युत्सर्गौ, इगुपधज्ञाप्रीकिरःकः (३.१.१३५) इत्यपवादः, तद्विषये ण्वुल्तृचौ (३.१.१३३) अपि भवतः। विक्षेपकः। विक्षेप्ता। विक्षिपः। असरूप इति किम्? कर्मण्यण् (३.२.१) इत्युत्सर्गः, आतोऽनुपसर्गे कः (३.२.३) इत्यपवादः, स नित्यं बाधको भवति। गोदः। कम्बलदः। नानुबन्धकृतमसारूप्यम्। अस्त्रियामिति किम्? स्त्रियां क्ति न् (३.३.९४) इत्युत्सर्गः, अ प्रत्ययात् (३.३.१०२) इत्यपवादः, स बाधक एव भवति। चिकीर्षा। जिहीर्षा॥

Siddhanta Kaumudi

परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥

Laghu Siddhanta Kaumudi

अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना॥

Balamanorama

वाऽसरूपोऽस्त्रियाम् - वाऽसरूपोऽरिउआयाम् ।असरूप॑इति छेदः । परिभाषेयमिति । अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः । असरूप इति लिङ्गनिर्देशः । यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते ।वे॑त्यतः प्राक् ‘बाधक’ इति शेषः । असरूपो वा बाधको भवतीति यावत् । कस्य बाधको वेतयाकाङ्क्षायामुत्सर्गस्येत्यर्थाल्लभ्यते । फलितमाह — अस्मिन् धात्वधिकारे इत्यादिना । स्त्रीशब्दः स्वर्यते । तदाह — स्त्र्यधिकारोक्तं विनेति ।स्त्रियां क्तिन् इति वक्ष्यमाणस्त्र्यधिकारस्थमपवादं विनेत्यर्थः । स्त्र्यधिकारस्थस्तु असरूपः प्रत्यय उत्सर्गस्य नित्यमेव बाधक इतिभावः । ‘ण्वुल्तृचौ’ इत्युपसर्गः ।इगुपधज्ञाप्रीकिरः कः॑ इत्यपवादः । तद्विषये ण्वुल्तृचवावपि भवतः । विक्षिपः । विक्षेपकः । विक्षेप्ता । असरूप इति किम् । ‘कर्मण्यण्’ इत्युत्सर्गः । ‘आतोऽनुपसर्गे कः’ इत्यपवादः । स तु सरूपत्वान्नित्यं बाधक एव । गोदः । कम्बलदः ।नानुबन्धकृतमसारूप्य॑मिति वचनादनुबन्धो न सारूप्यप्रतिबन्धकः । अस्त्रियां किम् । ‘स्त्रियां क्तिन्’ इत्युत्सर्गः ।अ प्रत्यया॑दिति प्रत्ययान्तद्विहितोऽकारप्रत्ययः, तस्याऽपवादो बाधक एव भवति । चिकीर्षा । व्यावक्रोशी व्याक्रुष्टिरित्यत्र तुकर्म व्यतिहारे णच् स्त्रिया॑मिति णच् क्तिनो बाधको वा भवत्येव ।अस्त्रिया॑मिति निषेधस्तु नास्ति,तस्यणचः स्त्रिया॑मित्यधिकारोक्तत्वाऽभावात् ।

Tattvabodhini

वाऽसरूपोऽस्त्रियाम् - वासरूपो [ऽस्त्रियाम्] । अपवादेन नित्यं बाधे प्राप्ते क्वचिदुपसर्गस्यापि प्रवृत्त्यर्थमिदं सूत्रम् । अतएवअचो यत् ,ऋहलोण्र्यत् इत्याद्यपवादविषयेतव्यदादयोऽपि प्रयुज्यन्ते — भव्यम्, भवितव्यम् । कार्यं, कर्तव्यं,करणीयम् । वाच्यम्, वक्तव्यमित्यादि । परिभाषेति । अधिकारसूत्रमिति । स्वीकृते तु स्त्र्यधिकारेण विच्छेदाद्वासरूपसूत्राऽप्रवृत्त्याआसित्वा भुङ्क्ते॑आस्यते भोक्तु॑मित्यादिरूपाणि न सिध्यन्ति । इह हि भोजनार्थत्वादासनस्य पूर्वकालता गम्यते, क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे भवति, लकारोऽपि तत्रैवेति समानविषयत्वादुभयोर्बाध्यबाधकभावः स्यात् । किंच वर्णात्कार इत्युत्सर्गः, सचरादिफः॑ इत्यनेन बाध्येत । न चेष्टापत्तिः ।रकारादीनि नामानि शृण्वतो मम पार्वति॑ इत्यादिप्रयोगविरोधात् । अमुमेवार्थं मनसि निधाय हरदत्तादिभिः परिभाषेयमित्युक्तम् । एतेनशकि लिह् चे॑ति ज्ञापकाद्वासरूपविधेरनित्यत्वेन स्त्र्यधिकारादुत्तरेषु क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति सिद्धान्तः सङ्गच्छत इति दिक् ।वासरूपे॑ त्यत्राऽसरूप इति च्छेदः । अन्यथा लाघवेविशेषाऽभावेनाऽसंदेहायसरूपो वे॑ति ब्राऊयादित्याशयेनाह — असरूपैति । असरूप इति किम् ।कर्मण्यण् इत्युसर्गः ।आतोऽनुपसर्गे कः॑ इत्यपवादः । स तूत्सर्गस्य नित्यं बाधको यथा स्यात् । गोदः । कम्बलदः । न च कृतेऽप्यसरूपग्रहणे अण्कयोरप्यसरूपत्वान्नेष्टसिद्धिरिति वाच्यं,नाऽनुबन्धकृतमसारूप्य॑मिति सिद्धान्तात् ।अस्त्रिया॑मित्यत्र स्त्रीशब्दः स्वर्यते । स्वरितेन चाधिकारावगतिरित्याशयेनाह — स्त्र्यदिकारोक्तं विनेति । तेनस्त्रियां क्तिन् इत्युत्सर्गमप्रत्यया॑ दित्यपवादो नित्यं बाधते । चिकीर्षा । जिहीर्षा । नन्वस्त्रियामित्यत्र स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञाय स्वरितेनाऽधिकारावगतिरित्यादिव्याख्यां विहाय स्त्रियामभिधेयायां वासरूपविधिर्नेति, स्त्रियामित्येवं शब्दमुच्चार्य विहिते वासरूपविधिर्नेति वा व्याख्यायतामितिचेत् । अत्राहुः — स्त्रियां वाच्याया॑मिति पक्षे लव्या लवितव्येति यतो विषये तव्यो न स्यात्, द्वयोरपि इह स्त्रीवाचकत्वात् ।स्त्रिया॑मिति शब्दोच्चारणपक्षे तु व्यावक्रोशी व्यावक्रुष्टिरिति कर्मव्यतिहारे णचो विषये क्तिन् स्यात् । द्वयोरपि स्त्रियामित्युच्चार्य विधानात् । ततश्चस्त्र्यधिकारोक्तं विने॑ति व्याख्यैव ज्यासीति दिक् ।

Padamanjari

वाऽसरूपोऽस्त्रियाम्॥ ठसरूपःऽ इति पदच्छेदः, अन्यथा लाधवे विशेषाभावलादसन्देहर्थ’सरूपो’ स्त्रियां वाऽ इति ब्रूयात्। अपवादविषयेऽपि केषाञ्चित्कृतां प्रवृत्तिर्यथा स्यादित्येवमर्थमिदं वचनम्। यथोक्तम् - -असरूपस्य वावचनमुत्सर्गस्य बाधकविषये निवृत्यर्थमिति। परिभाषा चेयम्, अस्मिन्धात्वधिकारे स्त्र्यधिकारव्यतिरेकेण यान्यसरूपस्यापवादस्य विधायकानि शास्त्राणि तच्छेषभूता, तत्र तत्र वचने क्रियमाणे गौरवं स्यादिति साधारणरूपेण परिभाष्यते। तत्र च ठसरूपःऽ इति व्यर्थ कृण्मात्रस्य विकल्पने सर्वस्यैवासरूपत्वाद्यत्किञ्चित्कृदपेक्षया; असरूपपदं चैतत्सापेक्षं प्रतियोगिनि यतोऽत्र भिन्नरूपत्वमसरूपत्वमित्यते। केनचिद्धि किञ्चित्सरूपमसरूपं वा भवति, तत्र केनासरूप इत्यपेक्षायां स्वविधानवेलायां यः स्वस्मिन्विषये प्राप्तः स एव बुद्धिस्थः प्रतियोगी गम्यते, अपवादविधानसमये चोत्सर्गः, तमपि विषयमवागाऋढुअमुढौकमान उपारूढो बुद्धौ भवतीति तदपेक्षया भिन्नरूपोऽपवाद एवात्रासरूपो विवक्षित इत्याह - असरूपोऽपवादप्रत्यय इति। एवं स्थिते यद्ययमुत्पत्तिविकल्पस्स्याद्, अपवादप्रत्ययो वा भवतीति, ततः स्वविषये कामं विकल्पस्तस्य लभ्यते, न तूत्सर्गः प्रवर्तेत। तत्रातद्विषयो ह्यसौ, उत्सर्गापवादशास्त्रयोर्हि प्रमितिव्यापारे पर्यवसिते पश्चादियमत्रैव प्रदेशेस्थिताऽपवादस्य पक्षे प्रवॄति प्रतिबध्नाति। अपवादशास्त्रेण यः स्वीकृतो विषयस्तद्व्यतिरिक्तविषया सामान्यशास्त्रस्य प्रमितिरित्यपवादस्याप्रवृतावपि नैवोत्सर्गस्य तस्मिन्विषये प्रमितिः प्रवृत्तिर्वोपपद्यते, तद्धितवत्; तद्यथा - दक्षस्यापत्यमत इञि विकल्पिते पक्षेऽण् न भवति, अपि तु वाक्यमेव भवति, तत्कस्य हेतोः?’समर्थानां प्रथमाद्वा’ इति तटस्थेन पक्षे प्रवृत्तिर्निरुद्ध्यते, न पुनरेकवाक्यतया प्राप्तिरेव विकल्परूषितेति, तथेहापीति। अपवादाभावपक्षे प्रकृतिरेव कर्त्राद्यभिधानायानुज्ञाता स्याद्, यथाग्निचिदित्यादौ क्विबादिलोपे, तदाह - तत्रोत्पतिर्वा प्रसङ्गो यथा तद्धित इति। तमिममुत्पत्तिविकल्पपक्षे दोषं द्दष्ट्वा बाधकत्वं विकल्प्यत इत्याह - वाबाधको भवतीति। उक्तं च’सिद्धं त्वसरूपबाधकस्य वावचनात्’ इति, असरूपो वा बाधको भवतीति वक्तव्यमित्यर्थः। ननु तत्रतत्रोच्यते - यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपर इति, ततश्चासरूपो वेत्युक्ते भवतीत्येवाध्याहारो युक्तः, न पुनर्वा बाधक इति? उच्यते - उत्पत्तिविकल्पस्य प्रयोजनं केवलायाः प्रकृतेः प्रयोगः, केवला च प्रकृतिः स्वार्थमात्रमभिधातुमसमर्था, किं पुनः कर्त्रादिकमभिधास्यति! प्रकृतिप्रत्ययसमुदाये हि प्रयुज्यमानेऽन्वयव्यतिरेकाभ्यामयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति व्यवस्थाप्यते; अनुत्पन्नप्रत्यया तु प्रकृतिर्न कञ्चिदप्यर्थ गमयति। प्रयोगोऽपि हि तस्या दुर्लभः; परश्चेति नियमात्। तद्धिते त्वनुत्पत्तिपक्षेऽप्युत्सर्गप्रवृत्तिव्यतिरेकेण प्रत्ययान्तरमस्ति षष्ठी, इह तु न तथेति सामर्थ्याद्बहिरङ्गमपि बाधकत्वमपि कल्प्यते। ननु चच शास्त्रं शास्त्रेण बाद्ध्यते, न पुनः कार्य कार्येण, निदानोच्छेदेनैव हि निदानिन उच्छेदः शक्यते कर्तुम्, न हि प्रदीपेऽनुच्छिन्ने तत्प्रकाश उच्छिद्यते, तत्किमुच्यते - अपवादप्रत्यय इति, एवं तु वक्तव्यम् - अपवादशास्त्रमिति? उच्यते - सर्वस्यैवापवादशास्त्रस्य स्वगतमसारूप्यमव्यभिचारीति प्रत्ययद्वारकं तदाश्रयणीयमित्यपवादप्रत्यय इत्युक्तम्। एवम्भूतस्य प्रत्ययस्य विधायकं शास्त्रमित्यर्थः। यद्वा - प्रत्ययस्य बाधकत्वविकल्पसामार्थ्याच्छास्त्रमपि पक्षे बाधकं भविष्यति। अथ वा वृतौ वस्तुमात्रं दर्शितम्; यथा त्वयमर्थ उपपद्यते तथा सूत्रं व्याख्येयम्। तत्रेदं व्याख्यानम् - परिभाषेयमित्युक्तम्, तत्रेक्परिभाषावदियमपि पदमुपस्थापयति - अस्मिन्धात्वधिकारे यत्रासरूपोऽपवादप्रत्ययो विधीयते तत्र वेत्युपतिष्ठते, स्त्र्यधिकारे तु नेति। किं कृतं भवति?’ददातिदधात्योर्विभाषा’ इत्यादिवत् प्रमितिरेव विकल्परूषिता भवति, ततस्तद्वदेवोत्सर्गस्य प्रवृत्तिसिद्विरिति। अथ ठसरूप उत्सर्गप्रत्ययोऽपवादविषये वा भवतिऽ इति विज्ञायमाने को दोषः? न खलु कश्चिद्दोषः; अपवादविकल्पे प्राप्ते विभाषा, उत्सर्गविकल्पे त्वप्राप्तविभाषेति, किन्तु प्रतियोग्यपेक्षमसरूपपदमप्यपवादमेव गोचरयतीत्युक्तम्। ठस्त्रियाम्ऽ इत्यत्र पक्षत्रयं सम्भवति - अभिधेयसप्तमी वा स्यात् - स्त्रियामभिधेयायां वासरूपो न भवतीति, स्त्रियामित्येव वा विहितस्यासरूपस्य निषेधः स्यात् - स्त्रियामित्युच्चार्य ये विधीयन्ते ते नेति, स्त्रीग्रहणं वा स्वर्यते स्वरितेनाधिकारावगतिर्भवतीति - स्त्रियां क्तनिन्नित्यस्मिन्नधिकारे नेति। तत्राद्ये पक्षे विक्षिपा, विक्षोपिका, विक्षेप्तेति कविषये ण्वुल्तृचौ न स्याताम्। द्वितीये तु’कर्मव्यतिहारे णच् स्त्रियाम्’ व्यावक्रोशी, व्यावक्रुष्टिरिति णयो विषये क्तिन् न स्यात्, द्वयोरपि स्त्रियामित्युच्चार्य विधानादिति, ममाद्ययोः पक्षयोर्दोषं द्दष्ट्वा तृतीयं पक्षमाश्रित्याह - स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वेति। केचिदाहुः - अपवादप्रत्ययं वर्जियित्वेति वक्तव्ये प्रत्ययं वर्जयित्वेति वचनं प्रत्ययमात्रपरिग्रहार्थम्, तेनोत्सर्गापवादयोर्द्वयोरपि स्त्र्यधिकारनिवेशिनोरयं प्रतिपेधः। किं सिद्धं भवति? आसना, आस्या - -स्त्र्यधिकारविहितेनापि युचापवादेन ऋहलोर्ण्यतः समा वेशः सिद्धो भवति। घञस्तु क्तिन्नादिभिरनभिधानादसमावेश इति। अन्ये तु - अपवादो वा बाधको भवतीति प्रकृतत्वात्स एवात्र प्रत्यय इति व्याचक्षते, तेन घञः क्तिन्नादिभिरसमावेशः। आस्येत्यत्र कृत्यल्युटो बहुलमिति ण्यदिति। ण्वुल्तृचावुत्सर्गाविति। चावुत्सर्गाविति। धातुमात्रे विधानात्। इगुपघज्ञाप्रीकिरः क इत्यपवाद इति। धातुविशेषे विधानात्। किं पुनः प्रयोगगतमसारूप्यम्? आहोश्विदुपदेशगतम्? किं चातः? प्रयोगे लादेशेषु प्रतिषेधः - ह्यएऽपचदित्यत्र लुङपि प्राप्नोति, प्रयोगे ह्यसरूपत्वात्, लङ्यनच्कस्तकारः प्रत्ययः लुङ् इपाक्षीदितीच्छब्दः; श्वः कर्तेत्यत्र लृडपि प्राप्नोति? ज्ञापकात्सिद्धम्, यदयम्’हशश्वतोर्लङ् च’ इति लिड्विषये लण्ंó शास्ति, तज् ज्ञापयति - न लादेशेषु वासरूपविधिरिति। एवमपि ग्रामणीः, ग्रामनाय इति क्विबादिविषयेऽणादयो न स्युः, न हि क्विबादयः प्रयोगे रूपवन्तः, लोपविधानातेषाम्। तस्मादुपदेशगतमसारूप्यम्। यद्येवम्, अनुबन्धभिन्नेषु विभाषाप्रसङ्गः, काणोरपि ह्युपदेशे भिन्नं रूपम्, प्रयोगे तु समानम्, तत्राह - नानुबन्धकृतमिति। अनुबन्धानामनेकान्तत्वातत्कृतमसारूप्यं नाश्रीयते, तथा च ठुदीयां माङ्ःऽ इति श्रूयमाणेऽपि ङ्कारे तस्यानेकान्तत्वादव्याहतमेजन्तत्वमित्यात्वं प्रयुक्तम्।’ददातिदधात्योर्विभाषा’ इति विभाषाग्रहणं च लिङ्गमस्यार्थस्य; अन्यथाऽनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन! इह क्तल्युट्तुमुन्खलर्थेषु वासरूपवधिः प्राप्नोति। हसितं छात्रस्य शोभनं हसनं छात्रस्य, अत्र क्तल्युडविषये घञपि प्राप्नोति। तुमुन - इच्छति भोक्तुम्, अत्र ठिच्छार्थेषु लिङ्लोटौऽ इति लोट् प्राप्नोति, तुमुना च बाध इष्यते, लिङ् तु’लिङ् च’ इति वचनाद्भवात्येव। यद्येवम्, अस्मादेव नियमाल्लोडपि न भविष्यति। कलर्थ - आतो युच्ऽ ईषत्पानः, अत्र खलपि प्राप्नोति। ननु स्त्र्यधिकारे तावदस्त्रियामिति प्रतिषेधादस्याप्रवृत्तिः परस्तादपि विच्छिन्नत्वादेव न भविष्यति? स्यादेतदेवम्, यद्ययमधिकारः स्यात्, परिभाषा त्वेषेत्युक्तम्। इष्यते च स्त्र्यधिकारादूर्ध्वमपि वासरूपविधिः - -आसित्वा भुङ्क्ते,आस्यते भोक्तुमित्यपि यथा स्याद्; अन्यथा भोजनार्थत्वादासनस्य पौर्वकाल्यमवगम्यते तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययस्तत्रैव च लकार इति समानविषयत्वाद्वाध्यबाधकभावः स्यात्। तथा कालो भोक्तुम्, कालो भोजनस्य - मुमुना ल्युटो बाधः स्यात्। तस्मात् स्त्र्यधिकारस्य परस्तादपि वासरूपविधिरेषितव्यः, ठर्हे कृत्यतृचश्चऽ इत्यत्र कृत्यतृज्ग्रहणं ज्ञापकम् - स्त्र्यधिकारस्य परस्तादनित्यैषा परिभाषेति। तस्मात् क्तल्युट्तुमुन्खलर्थेषु प्रतिषेधो।वक्तव्य एव॥

Nyaas

अपवादविषयमुत्सर्गो नाबिनिविशत इत्येष उत्सर्गधर्मः, कृताञ्च केषाञ्चिदुत्सर्गाणामपवादविषये प्रवृत्तिरिष्यते, सा च वचनमन्तरेण न सिद्ध्यतीति तदर्थमिदम्। ननु चारभ्यमाणेऽप्येतस्मिन् नैवायमर्थः सम्पद्यते, तथा हि - अस्योत्सर्गेण वा सम्बन्धः स्यात्, अपवादेन वा, उभाभ्यां वा? तत्र यदि पूर्वकल्प आश्रीयेत तदा वाशब्देन विकल्पार्थेनोपस्थापितयोर्भावाभावयोरस्यायमर्थः स्यात् - उत्सर्गोऽसरूपोऽस्त्रियां पक्षे भवतीति, पक्षे न भवतीति। तथा चापवादस्य स्वस्मिन् विषये नित्याप्राप्तिः स्यात्। न ह्रनेनापवादस्य किञ्चित्कृतम्; तेन सहास्यासम्बन्धात्। न च बाधकेऽपवादेऽविकल्पां प्रवृत्तिमनुभवति सति तत्रोत्सर्गः प्रवर्तितुमुत्सहत इति स्वविषय एव विकल्पः प्रवर्तेत। अथ द्वितीयः, तदायमर्थः स्यात् - असरूपोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादविषयं परिहति, तदापवादस्य बाधकत्वात्। तच्च बाधकत्वमस्मिन्नपि पक्षे तदवस्थमेव, न ह्रनेन तदपनीतम्, किं तर्हि? स्वस्मिन् विषये तस्य भावाभावौ प्रतिपादितौ - पक्षे भवति,पक्षे न भवति। न चान्यद्वचनमस्ति; यतोऽपवादविषयमुत्सर्गोऽव्यास्ते। अपवादस्याभावपक्षे प्रापकवचनमन्तरेणापि उत्सर्गो भविष्यति। प्रतिबन्धाभावादिति चेत्? सत्यमेतत् कार्यबाधायाम्; शास्त्रबाधायान्तु यत् कार्यस्य विधायकं तदपवादेन बाध्यमानं तद्विषपरीहारेणैव प्रवर्तेत, तस्मिन् प्रवृत्ते पश्चापदवादे विकल्पेन प्रवृत्तिमनुबव्तयपि तद्विषय उत्सर्गप्रवृत्तिर्न सम्भवति, सामान्यशास्त्र्सयातद्विषयत्वात्।अस्तु कार्यवधापक्ष इति चेत्? न; अयुक्तत्वात्। न ह्रबाधिते विधायके शास्त्रे तत्कार्यबाधा युज्यते। निदानोच्छेदेन हि निदानिन उच्छेदः शक्यते कर्त्तुम्, नान्यथा। न हि प्रदीपेऽनुच्छिन्ने तत्प्रभोच्छिद्यते। तस्मादपवादः शास्त्रमेव बाधते,तस्मिश्च बाधिते सत्यपवादाभावपक्षेऽपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिः स्यात्। अथ तृतीयः पक्षः, तदायमर्थः स्यात् - उत्सर्गोऽसरूपोऽस्त्रियां वा भवति, अपवादोऽपीति। एवमपि तयोः स्वस्मिन् विषये विकल्पेन प्रवृत्तिः स्यात्, न तूत्सर्गस्यापवादविषये; पूर्वोक्तादेव हेतोः। तस्मात् क्रियमाणेऽप्येतस्मिन् नैवाभिमतोऽर्थः सम्पद्यत इति देशयेत्, तं प्रत्याह - असरूपोऽपवादप्रत्ययो वा बाधको भवति इति। एतेनापवादस्यानेन सम्बन्धः, न तु भावाभावौ विकल्प्येते, किं तर्हि? पक्षे बाधकत्वमिति दर्शयति। एवञ्च यस्मिन् पक्षेऽपवादो बाधको न भवति, तस्मिन् विषये प्रतिबन्धाभावादुत्सर्गः प्रवर्तत इति सिध्यति समावेशः। स्त्र्यधिकारविहितं प्रत्ययं वर्जत्वा इति।कथं पुनः अस्त्रियाम् इति वचनादेषोऽर्थो लभ्यते? एवं मन्यते - स्त्रीग्रहणमिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति; तेन स्त्रयधिकारविहितमाश्रित्य यावुत्सर्गापवादौ विहितौ तद्वि,ये प्रतिषेधो विज्ञायते इति। अथैवं कस्मान्न विज्ञायते - स्त्रियामभिधेयायामसरूपोऽपवादो बाधको वा न भवतीति? एवमशक्यं विज्ञातुम्; एवं हि विज्ञायमाने लव्या लवितव्येति यद्विषये तव्यो न स्यात्। एवं तर्हि कस्मान्न विज्ञायते - स्तिरयामित्येवं स्त्रीशब्दसंशब्दनेन यः प्रत्ययो विहितः स इह स्त्रीशब्देनोक्तः, तत्र स्त्रियामित्येवं विहितेऽसरूपोऽपवादो बाधको वा न भवतीति? एवमशक्शं विज्ञातुम्; एवं हि विज्ञायमाने व्यावक्रोशी, व्यावक्रुष्टिरिति णचो विषये क्तिनः प्रवृत्तिर्न स्यात्,; यस्मात् कर्मव्यतीहारे णच् स्त्रियाम् (3.3.43) इति णज्विहितः, स्त्रियां क्तिन्नपि; तस्मात् पूर्वोक्त एवार्थः। यद्येवम्, क्तल्युट्तुमुन्खलर्थेषु (पु।प।वृ।76) इति परिभाषा न प्राप्नोतिच तेषामस्त्र्यधिकारविहितत्वात्? नपुंसके भावे क्तः (3.3.114) , ल्युट् च (3.3.115) - हसितम्, हसनम्, तयोर्विषये भावे (3.3.18) इति घञपि प्राप्नोति। समानकर्त्तृकेषु तुमुन् (3.3.158) - इच्छति भोक्तुम्,तस्य विषये इच्छार्थेषु लिङलोटौ (3.3.157) अपि प्राप्नुतः? आतो युच् (3.3.128) - ईषत्पानम्, तस्य विषये ईषव्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (3.3.126) इति खलपि प्राप्नोति? वावचनस्य व्यवस्थितविभाषात्वान्न भवतीत्यदोषः। ण्वुल्तृचावित्युत्सर्गा इति। सामान्यविहितत्वात्। इगुपधापीकिरः कः इत्यपवादः इति। विशेषविहित्वात्। कर्मण्यण् (3.2.1) इत्युत्सर्गः, आतश्चोपसर्गे (3.3.106) इति कप्रत्ययोऽपवादः। ननु चानुबन्धकृतेनासारूप्येण सोऽप्यसरूप इत्याह - नानुबन्धकृतम् इत्यादि। अत्र ददातिदधात्योर्विभाषा (3.1.139) इति विभाषाग्रहणं ज्ञापकम्। यदि ह्रनुबन्धकृतमसारूप्यं स्याद्विभाषाग्रहणमनर्थकं स्यात्। अनुबन्धकृतादसारूप्यादेव हि श्याऽऽद्व्यध (3.1.141) इत्यादिसूत्रेण पक्षे णो भविष्यति॥

Prakriyasarvasvam

भिन्नरूपाः कृतो विकल्पेन स्युः ‘स्त्रियां क्तिन् (३-३-९४) इत्यादीन् वर्जयित्वा । तेन हर्तव्यं हरणीयमित्याद्यपि । वक्ष्यमाणयोः यत्क्यपोस्तु ण्यत सह सरूपत्वात् तेऽन्योन्यं बाधका एव ।

Sutra Prayogas

  • शोभा (भट्टिकाव्यम्): वाऽसरूपोऽस्त्रियाम् इति विकल्पितत्वात् ल्युर्न भवति।

  • दृष्ट-कृत्स्नाऽऽमिषादः (भट्टिकाव्यम्): वा सरूपोऽस्त्रियाम् इति वचनात् अण्प्रत्ययः।