31095: कृत्याः

Padacheda: कृत्याः | S | 1 | 3 |

Sutrartha


Vasu English Summary

From this sūtra up to ण्वुल्तृचौ (3.1.133) all the affixes treated will get the name कृत्य।

Vasu English Translation

From this sūtra up to ण्वुल्तृचौ (3.1.133) all the affixes treated will get the name कृत्य। This defines the class of affixes known as kritya, a subdivision of krit affixes. These are certain affixes like तव्य, अनीय &c, which may be treated as declinable verbal terminations. (3.4.70). The following 38 sutras treat of these affixes. These verbal adjectives correspond in meaning to the Latin participles in udus conveying the idea that the action expressed by the verbs ought to be done or will be done. The word formed by them may be called Passive Potential Participles or Future Passive Participles. The illustrations will be given hereafter under each affix as taught. The word kritya occurs in sutras (2.1.33), (2.3.71) &c.

Bhashya

कृत्यसंज्ञायां प्राङ्ण्वुल्वचनम् । कृत्यसंज्ञायां प्राङ्ण्वुल इति वक्तव्यम् । किं प्रयोजनम् ? ण्वुलः कृत्यसंज्ञा माभूदिति । अर्हे कृत्यतृज्वचनं तु ज्ञापकं प्राङ्ण्वुल्वचनानर्थक्यस्य । यदयमर्हे कृत्यतृचश्चेति तृज्ग्रहणं तज्ञापयत्याचार्यः - ‘प्राङ्ण्वुलः कृत्यसंज्ञा भवती’ति। एवमेव ण्वुलः कृत्यसंज्ञा प्राप्नोति । योगापेक्षं ज्ञापकम् ॥ कृत्याः ॥95॥

Kashika

ण्वुल्तृचौ (३.१.१३३) इति वक्ष्यति। प्रागेतस्माण् ण्वुल्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, कृत्यसंज्ञकास्ते वेदितव्याः। तत्रैवोदाहरिष्यामः। कृत्यप्रदेशाः — कृत्यैरधिकार्थवचने (२.१.३३),**कृत्यानां कर्तरि वा** (२.३.७१) इत्येवमादयः॥

Siddhanta Kaumudi

अधिकारोऽयं ण्वुलः प्राक् ॥

Laghu Siddhanta Kaumudi

ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः॥

Balamanorama

कृत्याः (प्राङ् ण्वुलः) - कृत्याः । कृत्यसंज्ञका इत्यर्थः । ततश्चप्रैषातिसर्गप्राप्तकालेषु कृत्याश्च॑,॒अर्हे कृत्यतृचश्च॑,शकि लिङ् चे॑त्यादिषु प्रवर्तते । ण्वुलः प्रागिति । ‘ण्वुल्तृचौ’ इत्यतः प्रागित्यर्थः । एतच्च भाष्ये स्पष्टम् ।

Tattvabodhini

कृत्याः (प्राङ् ण्वुलः) - कृत्याः । अत्रप्रत्ययः॑ इत्यादिवत्कृत्य इत्यधिकारेणापीष्टसिद्देर्बहुवचनमनुक्तप्रत्ययसमुच्चायार्थं, तेन केलिमरादयो ज्ञापकसिद्धा इति नोपसह्ख्येया इत्याहुः । ण्वुलः प्रागिति ।ण्वुलतृचौ॑ इत्यतः प्रागित्यर्थः ।रोगाख्यायां ण्वुल् बहुल॑मिति नावधिः, प्रत्यासत्तिन्यायात् । अवदिविशेषे ज्ञापकं तुअर्हे कृत्यतृचश्चे॑त्यत्र कृत्यात्पृथक्तृचो ग्रहणमेव । न चैवं तृचोऽकृत्यत्वेऽपि ण्वुलः कृत्यत्वं दुर्वारं स्यात्, इष्टापत्तौ तुतयोरेवे॑ति भावकर्मणोरेव ण्वुल् प्रग्ण्वुल इतिप्रचिक्षेप ।

Padamanjari

कृत्याः प्राङ् ण्वुलः॥ ण्वुलतृचाविति वक्ष्यतीति। रोगाख्यायां ण्वुल् बहुलम्ऽ मित्ययं त्ववधिर्न भवति; ठर्हे कृत्यतृचश्चऽ इति पृथक् तृचो ग्रहणात्। यद्येवम्,’प्राङ् ण्वुलः’ इति न वक्तव्यम्,’कृत्याः’ इत्येवास्तु, तृज्ग्रहणादेव ज्ञापकात्परतोऽनुवृत्तिर्न भविष्यति, योगापेक्षं च ज्ञापकम्’ण्वुल्तृचौ’ इत्यस्माद्योगात्प्राक् कृत्यसञ्ज्ञाधिकार इति? सत्यम्;’कृत्याः’ इत्येतावदेव पठितं सूत्रकारेण। वृत्तिकारस्तु, भाष्ये पूर्वपक्षरूपेण पठितं सूत्रे प्रचिक्षेप। विचित्रा हि वृतेः कृतिर्वृत्तिकारेण!’कृत्याः’ इति बहुवचनमनुक्तसमुच्चयार्थम्, तेन’केलिमर उपसङ्ख्यानम्’ इत्यादि नोपसंख्येयं भवति॥

Nyaas

कृत्याः इति बहुवचनेन निर्देशो बहुत्वात् संज्ञिनाम्। अथ वा - अनुक्तकृत्प्रत्ययसंग्रहार्थं बहुवचनम्। तेन केलिमर उपसंख्यानम् (वा।121) इत्येतत् कर्तव्यं न भवति। ण्वुल्तृचाविति वक्ष्यति इति। अथ रोगाख्यायां ण्वुल् बहुलम्` (3.3.108) इत्यस्य ण्वुलोऽवधित्वं कस्मान्न विज्ञायते? ज्ञापकात्। यदयम् अर्हे कृत्यतृचश्च (3.3.169) इति कृत्यग्रहणं कृत्वा तृज्ग्रहणं करोति, ततो ज्ञायते - नास्यावधित्वमिति; अन्यथा तृचोऽपि कृत्यत्वाद्भदेनोपादानमनर्थकं स्यात्। यद्येवम्; प्राग्वचनमनर्थकं स्यात्, अत एव ज्ञापकात् तृच इयं संज्ञा न भविष्यति? नैतदस्ति; असति ह्रेतस्मिन्, ज्ञापकात् तृच एव न स्यात्। ण्वुलस्तु स्यादेव। स्यादेतत् - योगापेक्षं ज्ञापकम्, एतस्मिन् योगे कृत्यसंज्ञा भवति - एषोऽर्थस्तृज्ग्रहणेन ज्ञाप्यते, तेन ण्वुलोऽपि न भविष्यतीति? एवमन्येषामजादीनां स्यात्, प्रतिपत्तिगौरवञ्च स्यात्, योगापेक्षस्य ज्ञापकस्य दुर्विज्ञानत्वात्॥

Prakriyasarvasvam

ण्वुलः प्रागु²क्तास्तव्यदादयः षट् कृतः कृत्यसंज्ञाः ।