31093: कृदतिङ्¶
Padacheda: कृत् | S | 1 | 1 |
अतिङ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In this portion of the sūtras in which there is a reference to verbal roots, any affix except तिङ् - tense affixes, is called कृत् ।
Vasu English Translation¶
In this portion of the sūtras in which there is a reference to verbal roots, any affix except तिङ् - tense affixes, is called कृत् । Thus the affixes तव्यम् &c. are कृत्. All affixes up to the end of this Book belong to this class. These are affixes by which substantives are formed from verbal roots; and they have, therefore, most aptly been termed primary affixes. Words formed by these affixes will be Pratipadikas or crude forms or nominal bases (1.2.46). Thus कृ + तव्यं = कर्तव्यं. Why do we say ‘except तिङ् affixes’? Observe चीयात् ‘may he collect’, स्तुयात् ‘may he praise’ which form verbs and not nouns.
Bhashya¶
कृदतिङ् (710) (436 कृत्संज्ञाधिकरसूत्रम्॥ 3 । 1 । 5 आ 6) (आतिङ्ग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अतिङिति किमर्थम्?। (समाधानभाष्यम) पचति पठति॥ (अतिङ्ग्रहणवैर्यथ्यभाष्यम्) अतिङिति शक्यमकर्तुम्॥ (आक्षेपभाष्यम्) कस्मान्न भवति - -पचति पठतीति॥ (समाधानभाष्यम्) धातोः परस्य कृत्संज्ञा। प्राक् च लादेशाद्धात्वधिकारः॥ (आक्षेपभाष्यम्) एवमपि स्थानिवद्भावात्प्राप्नोति॥ (प्रतिबन्दीभाष्यम्) अथातिङित्युच्यमाने यावता स्थानिवद्भावः। कथमिवैतत्सिध्यति॥ (समाधानभाष्यम्) प्रतिषेधवचनसार्मथ्यात्॥ (समाधानान्तरभाष्यम्) अथ वा तिङ्भाविनो लकारस्य कृत्संज्ञाप्रतिषेधः॥ (आक्षेपभाष्यम्) किं च स्यात्। यद्यत्र कृत्संज्ञा स्यात्?॥ (समाधानभाष्यम्) कृत्प्रातिपदिकमिति प्रातिपदिकसंज्ञा स्यात्। प्रातिपदिकात् इति स्वाद्युत्पत्तिः प्रसज्येत॥ (दूषणोद्धारभाष्यम्) नैष दोषः। एकत्वादिषु अर्थेषु स्वादयो विधीयन्ते। ते चात्र तिङोक्ता एकत्वादय इति कृत्वा उक्तार्थत्वान्न भविष्यन्ति॥ (प्रयोजनभाष्यम्) टाबादयस्तर्हि तिङन्ताद् मा भूवन्निति॥ (प्रयोजननिराकरणभाष्यम्) स्त्रियां टाबादयो विधीयन्ते। न च तिङन्तस्य स्त्रीत्वेन योगोस्ति॥ (प्रयोजनभाष्यम्) अणादयस्तर्हि तिङन्तान्मा भूवन्निति॥ (प्रयोजननिराकरणभाष्यम्) अपत्यादिष्वणादयो विधीयन्ते। न च तिङन्तस्यापत्यादिभिर्योगोस्ति॥ अथापि कथंचिद्योगः स्यात्। एवमपि न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति न तिङन्तादणादयो भवन्तीति। यदयं क्वचित्तद्धितविधौ तिङ्ग्रहणं करोति - -अतिशायने तमबिष्ठनौ। तिङश्च ॥ (प्रयोजनभाष्यम्) इह तर्हि पचति पठतीति ह्रस्वस्य पिति कृति तुग्भवती ति तुक् प्राप्नोति॥ (प्रयोजननिराकणभाष्यम्) धातोरि ति वर्तते॥ (प्रयोजनभाष्यम्) एवमपि चिकीर्षतीत्यत्रापि प्राप्नोति॥ (प्रयोजननिराकरणभाष्यम्) अत्रापि शपा व्यवधानात्। (प्रयोजनसाधकभाष्यम्) एकादेशे कृते नास्ति व्यवधानम्। (प्रयोजननिराकरणभाष्यम्) एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेवेति॥ कृदतिङ्॥ 93 ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य प्रथमे पादेपञ्चममाह्निकम्॥
Kashika¶
अस्मिन् धात्वधिकारे तिङ्वर्जितः प्रत्ययः कृत्संज्ञको भवति। कर्तव्यम्। करणीयम्। अतिङिति किम्? चीयात्। स्तूयात्। कृत्प्रदेशाः — कृत्तद्धितसमासाश्च (१.२.४६) इत्येवमादयः॥
Siddhanta Kaumudi¶
संनिहिते धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥
Laghu Siddhanta Kaumudi¶
अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥
Balamanorama¶
कृदतिङ् - अथ क्विन्नन्तस्यकृत्तद्धिते॑ति प्रातिपदिकत्वं वक्तुं क्विनः कृत्संज्ञां दर्शयति — कदतिङ् ।धातो॑रित्यधिकृतं, ‘प्रत्यय’ इति च ।धातो॑रिति च विहितविशेषणम् । तेन धातोर्विहितः प्रत्यय इत्यर्थो लभ्यते ।धातो॑रित्यधिकृत्य विहित इति यावत् । तदाह — संनिहिते इति । तेन णिजादिनिरासः । युज् व् इति स्थिते ।
Tattvabodhini¶
कृदतिङ् - संनिहित इति । प्राचा तुतृतीये धात्वधिकारे॑इत्युक्तं, तदसत्,धातोः कर्मणः॑इति सन्बिधौ धातुग्रहणस्योत्तरत्रानुवृत्तेरभावेनाधिकारत्रयाऽभावात् ।
Padamanjari¶
कृदतिङ्॥ तिङ्वर्जित इति। तिङ्त्वेन त्यक्तस्तिङ्त्वेन रहितः, तिङेऽन्य इति यावत्। अतिङिति किमिति। इह क्रियमाणोऽप्ययं प्रतिषेधः स्वाश्रयामेव तिङ्ः कृत्सञ्ज्ञं बाधीतुं प्रभवति, न तु लकारस्य कृत्वात्स्थानिवद्भावेन प्राप्ताम्; ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति वचनादिति मत्वा प्रश्नः। तिङ्भाविनो लकारस्यैव कृतसञ्ज्ञा प्रतिषिद्ध्यते, प्रतिषेधसामर्थ्याद्वा स्थानिवद्भावो न भविष्यतीत्युतरम्। चीयात्स्तूयादिति। ननु च ज्ञापकादेतत्सिद्धम्, यदयम् ठकृत्सार्वधातुकयोःऽ इति पृथक् सार्वधातुके प्रतिषेधं शास्ति, तद् ज्ञापयति - अकृदिति प्रतिषेधो न तिङ्क्षु भवतीति। यदि स्यात्; चिनुयात्, सुनुयादित्यादौ सार्वधातुकेऽपि कृत्प्रतिषेधादेव दीर्धो न भविष्यति, किं पृथक् सार्वधातुकपर्युदासेन! इह तर्हि पचति, पठति -‘ह्रस्वस्य पिति कृति तुक्’ इति तुङ् मा भूदिति? तुग्विधौ धात्वादेरित्यतो धातुग्रहणमनुवर्तिष्यते। एवमपि - चिकीर्षति, जिहीर्षतीत्यत्र प्राप्नोति? शपा व्यवधानान्न भविष्यति। एकादेशे कृते नास्ति व्यवधानम्? ठेकादेशः पूर्वविधौ स्थानिवद्भवतिऽ इति व्यवधानमेव। नात्र स्थानिवद्भावः प्राप्नोति; परत्वादन्तवद्भावेन बाद्ध्यते। तस्माच्चिकीर्षतीत्यादौ तुङ्मा भूदित्यतिङिति प्रतिषेधः कर्त्तव्यः। किञ्च, तिङ्न्तस्य कृदन्तं प्रातिपदिकमिति प्रातिपदिकसंज्ञायां पचेरन् - नलोपः प्राप्नोति, पपाच ब्राह्मणी - -टाप्प्राप्नोति, सर्वत्र च स्वद्यौत्पतिः प्रसज्येत, तदेतदस्मादन्यार्थादतिङिति प्रतिषेधादेव सिद्धे चीयादित्यादौ ज्ञापकं नाश्रयितव्यमिति वृत्तिकारो मन्यते स्म॥
Nyaas¶
कर्तव्यम् इति। कृत्संज्ञायां सत्यां कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा। चीयात् इति। आशिषि लिङ,**लिङाशिषि** (3.4.116) इत्यार्धधातुकसंज्ञा। अतिङिति यदि नोच्येत, तिङोऽपि कृत्संज्ञा स्यात्; ततश्च अकृत्सार्वधातुकयोः (7.4.25) इति दीर्घत्वं न भवेत्। अतिङिति तु सत्यकृद्यकारत्वाद्भवति॥
Praudhamanorama¶
सन्निहिते इति। यत्तु प्राञ्चस्तृतीये धात्वधिकारे इति; तन्न, सन्विधौ धातुग्रहणस्य उत्तरत्रानुवृत्तेरभावेनाधिकारत्रयाभावात्।
Prakriyasarvasvam¶
अस्मिन् धात्वधिकारे तिङ्वर्जिताः प्रत्ययाः कृत्संज्ञाः ।
Sudha¶
कृदतिङिति । अत्र **धातोः**(3.1.91) इत्यधिकृतम्, प्रत्यय इति च ।