31092: तत्रोपपदं सप्तमीस्थम्¶
Padacheda: तत्र | S | 0 | 0 |
उपपदम् | S | 1 | 1 |
सप्तमीस्थम् | S | 1 | 1 |
Sutrartha¶
‘धातोः’ अस्मिन् अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्या निर्दिश्यते, तेन वाचितं पदम् ‘उपपद’संज्ञकं भवति ।
धातोः (3.1.91) इत्यनेन तृतीयाध्यायस्य प्रथमपादस्य द्वितीयः धात्वधिकारः प्रारभ्यते । अस्मिन् अधिकारे विद्यमानेषु सूत्रेषु यत् पदम् सप्तमीविभक्त्या निर्दिश्यते, तद्वाचकम् पदम् वर्तमानसूत्रेण ‘उपपद’संज्ञकं भवति । यथा - कर्मण्यण् (3.2.1) अस्मिन् सूत्रे ‘कर्मणि’ इति सप्तमीस्थं पदमस्ति, अतः कर्मण्यण् (3.2.1) अस्य सूत्रस्य प्रयोगे ‘कर्मणि’ इत्यनेन यस्य पदस्य निर्देशः भवति, तत् पदम् ‘उपपद’संज्ञां प्राप्नोति । यथा, ‘कुम्भं करोति सः’ अस्मिन् वाक्ये कर्मण्यण् (3.2.1) अनेन सूत्रेण अण्-प्रत्ययः विधीयते । अत्र ‘कर्मणि’ इति पदेन ‘कुम्भ’ इत्यस्य निर्देशः क्रियते, अतः अत्र ‘कुम्भ’शब्दस्य उपपदसंज्ञा भवति । अनया संज्ञया अत्र उपपदमतिङ् (2.2.19) इत्यनेन उपपदसमासं कृत्वा ‘कुम्भकार’ इति पदं सिद्ध्यति । प्रक्रिया इयम् - कुम्भम् करोति सः
= कुम्भ + कृ + अण् [कर्मण्यण् (3.2.1) इति अण् । तत्रोपदं सप्तमीस्थम् (3.1.93) इति ‘कुम्भ’ शब्दस्य उपपदसंज्ञा]
→ कुम्भ + कार् + अण् [अचो ञ्णिति (7.2.115) इति वृद्धिः । उरण् रपरः (1.1.51) इति रेफः] → कुम्भकार [उपपदमतिङ् (2.2.19) इति उपपदसमासः - अतिङन्तमुपपदम् समर्थेन सह समस्यते] ज्ञातव्यम् - अस्मिन् सूत्रे ‘सप्तमीस्थम्’ इति उच्यते । अत्र ‘स्थ’ ग्रहणस्य प्रयोजनम् काशिकाकारः वदति - ‘स्थग्रहणं सूत्रेषु सप्तमीनिर्देशप्रतिपत्त्यर्थम्’ । इत्युक्ते, सूत्रे निर्दिष्टः सप्तम्यन्तशब्दः (उत सूत्रेषु विद्यमानः ‘सप्तमी’ अयं शब्दः) ‘उपपदसंज्ञां’ न प्राप्नोति, अपितु सूत्रेषु विद्यमानः यः सप्तम्यन्तशब्दः, तेन निर्दिष्टः शब्दः उपपदसंज्ञां प्राप्नोति । यथा, कर्मण्यण् (3.2.1) इत्यत्र ‘कर्मणि’ शब्दस्य उपपदसंज्ञा न भवति, अपितु ‘कमर्णि’ शब्देन निर्दिष्टं यत् पदम् (यथा - कुम्भम्), तस्य उपपदसंज्ञा भवति ।
Sutrartha (English)¶
The words referenced by the सप्तमीस्थ words of the sutras in this धात्वधिकार get the term ‘उपपद’.
Vasu English Summary¶
In the Third Chapter of Grammar, referring to verbal roots, the word implied in a term exhibited in the Locative -7th-case, is called उपपद or dependant word.
Vasu English Translation¶
In the Third Chapter of Grammar, referring to verbal roots, the word implied in a term exhibited in the Locative -7th-case, is called उपपद or dependant word. Thus in sutra (III.2.) कर्म्मण्यन् the word कर्म्मणि is exhibited in the 7th case; therefore the word implied by the word कर्म्मणि, namely, the word having the accusative case, will be called उपपद. Thus कुम्भम् + कृ + अण् = कुम्भकारः ‘a potter’; here the word कुम्भम् is an upapada.
Bhashya¶
तत्रोपपदं सप्तमीस्थम् (709) (435 उपपदसंज्ञाधिकरसूत्रम् ॥ 3 । 1 । 5 आ. 5 ) (स्थग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) स्थग्रहणं किमर्थम्। (समाधानभाष्यम्) तत्रोपपदं सप्तमी इतीयत्युच्यमाने यत्रैव सप्तमी श्रूयते तत्रैव स्यात् - स्तम्बेरमः। कर्णेजपः। यत्र वैतेन शब्देन निर्देशः क्रियते सप्तम्यां जनेर्ड इति। इह न स्यात् - कुम्भकारो नगरकारः ॥ स्थग्रहणे पुनः क्रियमाणे यत्र सप्तमी श्रूयते, यत्र (चसप्तमी) न श्रूयते यत्र वैतेन शब्देन निर्देशः क्रियते, यत्र वान्येन शब्देन, सप्तमीस्थमात्रे सिद्धं भवति ॥ (तत्र ग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ तत्रग्रहणं किमर्थम्। (1918 समाधानवार्तिकम् ॥ 1 ॥) - तत्रग्रहणं विषयार्थम्- (भाष्यम्) (तत्रग्रहणं क्रियते। किमर्थम्?। विषयार्थम्) विषयः प्रतिनिर्दिश्यते। तत्रैतस्मिन्धात्वधिकारे सप्तमीनिर्दिष्टमुपपदसंज्ञं भवतीत्युपपदसंज्ञा सिद्धा भवति ॥ (सार्मथ्यविचाराधिकरणम्) (1919 समर्थग्रहणवार्तिकम् ॥ 2 ॥) - उपपदसंज्ञायां समर्थवचनम्- (भाष्यम्) उपपदसंज्ञायां समर्थग्रहणं कर्तव्यम्। समर्थमुपपदं प्रत्ययस्येति वक्तव्यम्। इह मा भूत् आहर कुम्भम्, करोति कटम् इति ॥ (आक्षेपभाष्यम्) अथ क्रियमाणे चापि समर्थग्रहणे महान्तं कुम्भं करोतीत्यत्रापि प्राप्नोति ॥ (काक्वा प्रत्याक्षेपभाष्यम्) न वा भवितव्यं महाकुम्भकार इति ॥ (प्रत्याक्षेपसमाधानभाष्यम्) भवितव्यं यदैतद्वाक्यं भवति - महान्कुम्भो महाकुम्भः महाकुम्भं करोतीति महाकुम्भकारः। यदा त्वेतद्वाक्यं भवति - महान्तं कुम्भं करोतीति तदा न भवितव्यम्। यदा च प्राप्नोति तदा मा भूदिति ॥ (समर्थग्रहणवैर्यथ्यभाष्यम्) यत्तावदुच्यते - समर्थग्रहणं कर्तव्यमिति ॥ न कर्तव्यम्। धातोरिति वर्तते। धातोः कर्मण्यण् भवति। तत्र संबन्धादेतद्गन्तव्यं यस्य धातोर्यत्कर्मेति ॥ (आक्षेपवारणभाष्यम्) यदप्युच्यते - क्रियमाणे चापि समर्थग्रहणे महान्तं कुम्भं क्रियते। संज्ञा च नाम यतो न लघीयः। कुत एतत्?। लघ्वर्थं हि संज्ञाकरणम्। तत्र महत्याः संज्ञायाः करणे एतत्प्रयोजनम् - अन्वर्थसंज्ञा यथा विज्ञायेत उपोच्चारितं पदमुपपदमिति। यच्चात्रोपोच्चारितं न तत्पदम्, यच्च पदं न तदुपोच्चारितम् ॥ (भाष्यम्) यावता चेदानीं पदगन्धोस्ति पदविधिरयं भवति। पदविधिश्च समर्थानां भवति। तत्रासार्मथ्यान्न भविष्यति ॥ (च्व्यन्तोपपदे प्रत्ययोत्पत्तिविचाराधिकरणम्) (आक्षेपभाष्यम्) अथ च्व्यन्त उपपदे किमणा भवितव्यमकुम्भं कुम्भं करोति कुम्भीकरोति मृदमिति ॥ (समाधानभाष्यम्) न भवितव्यम्। किं कारणम्?। प्रकृतिविवक्षितत्वात्। प्रकृतिविवक्षायां च्विर्विधीयते। तत्सापेक्षम्। सापेक्षं चासमर्थं भवति ॥ (प्रश्नभाष्यम्) न तर्हि इदानीमिदं भवति - इच्छाम्यहं काशकटीकारमिति ॥ (समाधानभाष्यम्) इष्टमेवैतद्गोनर्दीयस्य ॥ (1921 वार्तिकम् ॥ 3 ॥) - निमित्तोपादानं च - (भाष्यम्) निमित्तोपादानं च कर्तव्यम्। निमित्तमुपपदं प्रत्ययस्येति वक्तव्यम् ॥ (1922 हेतुवार्तिकम् ॥ 4 ॥) - अनुपादाने ह्यनुपपदे प्रत्ययप्रसङ्गः- (भाष्यम्) अक्रियमाणे हि निमित्तोपादाने अनुपपदेऽपि प्रत्ययः प्रसज्यते ॥ (आक्षेपभाष्यम्) निर्देश इदानीं किमर्थः स्यात्?। (1923 वार्तिकम् ॥ 5 ॥) - निर्देशः संज्ञाकरणार्थः- (भाष्यम्) (ठकर्मणि इत्यादीनां निर्देशः क्रियते। किमर्थः? संज्ञाकरणार्थः। प्रत्ययसंनियोगेन संज्ञा यथा क्रियेत - ) यदा उपपदे प्रत्ययस्तदोपपदसंज्ञां वक्ष्यामीति ॥ (आक्षेपभाष्यम्) तत्तर्हि निमित्तोपादानं कर्तव्यम्?। (सिद्धान्तिभाष्यम्) न कर्तव्यम् ॥ (1924 निमित्तोपादानवैर्यथ्यवार्तिकम् ॥ 6 ॥) - तत्र वचनमुपपदसंनियोगार्थम्- (भाष्यम्) तत्र वचनं क्रियते तदुपपदसंज्ञासंनियोगार्थं भविष्यति। कर्मण्यण्विधीयते तत्र च प्रत्ययो भवतीति ॥ (आक्षेपभाष्यम्) ननु चान्यत्तत्रग्रहणस्य प्रयोजनमुक्तम्। किम्। तत्रग्रहणं विषयार्थमिति ॥ (समाधानभाष्यम्) अधिकारादप्येतत्सिद्धम् ॥ तत्रोपपदम् ॥ 92 ॥) (कृत्प्रकरणम्)
Kashika¶
तत्रैतस्मिन् धात्वधिकारे तृतीये यत् सप्तम्या निर्दिष्टं तदुपपदसंज्ञं भवति। वक्ष्यति — कर्मण्यण्**(३.२.१) — कुम्भकारः। स्थग्रहणं सूत्रेषु सप्तमीनिर्देशप्रतिपत्त्यर्थम्। इतरथा हि सप्तमी श्रूयते यत्र, तत्रैव स्यात्। स्तम्बेरमः कर्णेजप इति। यत्र वा सप्तमीश्रुतिरस्ति **सप्तम्यां जनेर्डः (३.२.९७) इति। उपसरजः, मन्दुरज इति। स्थग्रहणात्तु सर्वत्र भवति। गुरुसंज्ञाकरणमन्वर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारार्थम्। पश्य कुम्भम्, करोति कटमिति प्रत्ययो न भवति। उपपदप्रदेशाः — उपपदमतिङ् (२.२.१९) इत्येवमादयः॥
Siddhanta Kaumudi¶
सप्तम्यन्ते पदे कर्मणि - (SK2913) इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः ॥
Laghu Siddhanta Kaumudi¶
सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्॥
Balamanorama¶
तत्रोपपदं सप्तमीस्थम् - अथोपपदसमासं वक्ष्यन्नुपपदसंज्ञामाह — तत्रोपपदं सप्तमीस्थम् । अधिकाऽयम् ।सप्तमी॑ति तदन्तग्रहणम् । सप्तम्यन्ते पदे वाच्यवाचकभावसंबन्धेन तिष्ठतीति सप्तमीस्थम् । सप्तम्यन्तवाच्यमिति यावत् । धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम् । ततश्च तदधिकारान्तर्गतेषुकर्मण्य॑णित्यादिसूत्रेषु यत्सप्तम्यन्तमुच्चारितं तदेव इह विवक्षितम् । एवंच तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भादीति पर्यवसन्नम् । कुम्भादेश्च उपपदसंज्ञायां प्रयोजनाऽभावात्तद्वाचकपदेषु विश्राम्यति । तथाच धातोरित्यधिकारान्तर्गते कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तंकर्मणी॑त्यादि, तद्वाच्यं यत्कुम्भादि, तद्वाचकं पदमुपपदसंज्ञं स्यादित्यधिकृत वेदितव्यमित्यर्थः फलितः । तदाह — सप्तम्यन्ते पद इत्यादिना । तत्रधातोः कर्मणः समानकर्तृकात् इति, ‘धातोरेकाचो हलादेः’ इति,धातो॑रिति च क्रमेण त्रयो धात्वधिकाराः । तत्र प्रत्यासत्त्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणात् ‘धातोरेकाचः’ इत्याधिकारेच्लि लुङी॑त्यत्र सप्तम्यन्तं न गृह्रते । अन्यथा कर्मणीत्यादाविव लुङन्ते अभूदित्यादावुपपदो धातोः च्लिरित्यर्थः स्यात् । ननु तत्रेति व्यर्थं, तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसंभवादित्याशङ्क्या — तस्मश्च सत्येवेति । अयमाशयः — तत्रेति भिन्नं वाक्यं क्रमव्यत्यासेन योज्यम् । सप्तमीस्थमुपपदसंज्ञं स्यात्,तत्र॑=तस्मिन्सतीति चाधिकृतं वेदितव्यमिति । तथाचोपपदे सति वक्ष्यमाणः प्रत्ययः स्यादितितत्रे॑त्यस्यार्थः फलति । तथाचकर्मण्य णित्यत्र इदं सूत्रमुपस्थितम् । कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते । सप्तमीनिर्देशस्तु उपपदसंज्ञाप्रवृत्त्यर्थः ।धातोरण्स्यात्कर्तर्यर्थे, कर्मवाचकं तु कुम्भादिपदमुपपदसंज्ञं प्रत्येतव्यम्, तस्मिन्नपपदे सत्यव अण्स्या॑दिति फलति ।तस्मिन्सत्येवाऽण्स्या॑दित्यभावे तु कारेत्येवं केवलादपि धातोः कर्तर्यर्थे अण्प्रत्ययः स्यात् । कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसंज्ञां प्रापय्य॒उपपदमति॑ङिति नित्यसमाससंपादनेन कुम्बे त्यस्य कारेत्यस्य च साधुत्वप्रापणार्थतया चरितार्थः ।तस्मिन्नुपपदे सत्येवाण्स्या॑दित्युक्ते तु कुम्भाद्युपपदस्य अम्प्रत्ययोत्पत्तौ निमित्तत्वावगमान्न केवलादण्प्रत्ययः, उपपदसंज्ञायाः प्रत्ययविधिसंनियोगशिष्टत्वलाभात् । ‘धः कर्मणि ष्ट्रन्’ ‘भुवो भावे’ इत्यादौ सप्तम्यन्तमर्थनिर्देशपरमेव, व्याख्यानादिति भाष्यकैयटादिषु स्पष्टम् ।
Tattvabodhini¶
तत्रोपपदं सप्तमीस्थम् - तत्रोपपदम् ।सप्तमीस्थ॑मित्येतव्द्याचष्टे — सप्तम्यन्त इत्यादिना । तद्वाचकं पदमिति । एतच्चोपपदमित्यन्वर्थसंज्ञाबलाल्लभ्यते । अतएव संज्ञाविधवपि सप्तमीग्रहणेन सप्तम्यन्तं गृह्रते ।धातोः॑इति पृथगधिकारबलात्संनिहिते धात्वधिकारे॑इति लभ्यते । तेनच्लि लुङी॑त्यस्य लुङन्तेऽभूदित्यादावुपपदे धातोश्चिलरित्यर्थो न भवतितत्र ग्रहणं व्याचष्टे -तस्मिन् सत्येवेति । उपपदे सत्येवेत्यर्थः । तत्रग्रहणाऽभावे तुधः कर्मणि ष्ट्र॑न्नित्यादाविवकर्मण्य॑णित्यादावपि कर्मण्यभिधेयेऽणित्याद्यर्थः स्यात् । किंच सप्तम्यन्तनिर्देशस्योपपदसंज्ञार्थतया चरितार्थत्वात्केवलादपि धातोः कर्तर्यण्प्रत्ययः संभाब्येत । कृते तुतत्र॑ग्रहणे कुम्बाद्युपपदस्य प्रत्ययोत्पत्तौ निमित्तत्व प्रतीत्या केवलादण्प्रत्ययशङ्कैव नास्ति । एवं स्थितेःधः कर्मणी॑त्यादौ क्वचिदर्थग्रहणं व्याख्यानादित्याहुः । अन्ये तुतत्रोपपद॑मित्यस्यकर्मण्य॑ णित्यादेश्चैकवाक्यतया प्रवृत्तावुपपदसंज्ञाया निपर्विषयत्वापत्तेस्तत्रग्रहणं विनापष्ट सिद्द्यत्येवेत्याहुः ।
Padamanjari¶
तत्रोपपदं सप्तमीस्थम्॥’सप्तमोस्थम्’ इत्यस्यार्थमाह - सप्तम्या निर्दिष्टमिति। सप्तम्या विभक्त्योच्चारितमित्यर्थः। सप्तम्यन्तेन पदेन प्रिपादितमिति वा। अस्मिन्पक्षे सूत्रे सप्तमोशब्देन सप्तम्यन्तमुच्यते। सप्तम्यन्तेपदे कर्मणीत्यादौ प्रतिपाद्यत्वेन स्थितं कुम्भादिकमित्यर्थः। प्रथमे तु पक्षे कमणीत्यादेर्यः सप्तम्या निर्देशः, स एव कुम्भमित्यादेरपि प्रयोगगतस्य सप्तम्या निर्देशः, यथा -‘तस्यापत्यम्’ इत्यादौ तस्येति सामान्यं विशेषापलक्षणार्थमिति तदोयमेव प्राथम्यं विशेषाणामपि भवति, तद्वदत्रपि। कुम्भकार इति अत्रोपपदत्वात्समासः, कृदुतरपदप्रकृतिस्वरत्वं च भवति। स्थग्रहणमित्यादि। सूत्रेषु यः सप्तम्या विभक्त्या निर्देश उच्चारणं सप्तम्यन्तेन वा पदेन प्रतिपादनं तदेव संज्ञाङ्गमिति प्रतिपत्यर्थमित्यर्थः। ननु सप्तमीशब्देन साहचर्यात्सूत्रादिषु सप्तम्या निर्दिष्ट्ंअ ग्रहीष्यते, नार्थ एतदर्थेन ग्रहणेन? तत्राह - अन्यथा हीति। मुख्यार्थसम्भवे गौणस्याग्रहणात् सप्तम्या एव संज्ञास्यात्; संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात्। न चासतस्संज्ञिनः संज्ञाशक्या विधातुमिति यत्र सप्तमी श्रूयते तत्रैव स्यादित्यर्थः। स्तम्बेरम इति।’स्तम्बकर्णयोरमिजपोः’ इत्यच्,’तत्पुरुषे कृति बहुलम्’ इत्यलुक्। यत्र वेति। यत्र सूत्रे सप्तमीश्रुतिः, सप्तमीशब्दस्य श्रवणमित्यर्थः। अशब्दसंज्ञेति स्वरूपग्रहणप्रतिषेधादभ्युपगम्यवादोऽयम्, सर्वथेष्ट्ंअ सिध्यतीत्यत्र तात्पर्यम्। स्थग्रहणात्विति। स्थग्रहणे सति सौत्रसप्तम्युपलक्षितस्य संज्ञाविधानात्सर्वत्र सिध्यतीत्यर्थः। ननु च लघ्वर्थ संज्ञाकरणम्, तत्किमर्थ गुर्वी संज्ञा क्रियत इत्यत आह - गुरुसंज्ञाकरणमिति। ठुपोच्चारितं पदमुपपदम्ऽ - इत्येवमर्थानुगता संज्ञा अन्वर्थसंज्ञा। समर्थपरिभाषाव्यापारार्थमिति। इह यदा स्वार्थद्रव्यलिङ्गात्मकस्त्रिकः। प्रातिपदिकार्तः, तदा नान्तरेण विभक्रिं कर्माधिकरणाद्यौपपदमुपपद्यत इत्यवश्यमुत्पाद्या विभक्तिरिति पदविधित्वादेव सिद्धः परिभाषाव्यापारः, पञ्चकपक्षेऽपि तु प्रातिपदिकस्यैव कर्माद्यभिधायित्वेन पदविधित्वाभावात्परिभाषाव्यापारो न स्यादित्यन्वर्थया संज्ञया बलात्प्रवर्त्यते? नैतदस्ति; पञ्चकपक्षेऽपि विभक्युत्पत्या पदत्वे सत्येव प्रत्यय इति प्रतिपादनात्। ननु’गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेः’ इति वचनात्कथमुपपदस्य मुबन्तत्वम् - सामि स्मर्ता भवान्? ठुपपदमदिङ्ऽ इत्यत्र हि सुपेति तृतीयान्तमेव निवृतम्, सुबिति प्रथमान्तमनुवर्तत इत्यवोचाम, कथमपरथा चर्मकारादौ नलोपादि स्यात्! पश्य कुम्भं करोति कटमिति। धातोरिति वर्तते, कर्मादिशब्दाश्च सम्बन्धिशब्दाः, तत एवं विज्ञास्यामः - यस्य धातोर्यत्कर्मेति। एवमपि महान्तं कुम्भं करोतीत्यत्र प्राप्नोति? न वा भवति; धातोर्यत्कर्मेति। एवमपि महान्तं कुम्भं करोतीत्यत्र प्राप्नोति? न वा भवति; महाकुम्भकार इति भवति, यदेतद्वाक्यम् - महान् कुम्भो महाकुस्भः महाकुम्भं करोतीति। यदा त्वेतद्वाक्यम् - -महान्तं कुम्भं करोतीति, तदा नेष्यते। किं च स्याद् यद्यत्र स्यात्? कुम्भशब्दस्य कारशब्देन समासे कृते तदर्थ एकार्थीभावात् महच्चब्देन समासो न स्याद्, अन्वर्थत्वादेव संज्ञायाः सप्तमीनिर्दिष्टत्वेऽपि प्रकृत्यर्थविशेणातद्विशेषणानां च उपोच्चारितपदत्वाभावादुपपदसंज्ञा न भवति। अथ तत्र - ग्रहणं किमर्थम्? धात्वधिकारः प्रतिनिर्दिश्यते - तत्रैतस्मिंस्तृतीये धात्वधिकार इति। नैतदस्ति प्रयोजनम्, अधिकारादप्येतत्सिद्धम्? इदं तर्हि प्रयोजनम् - सप्तमीस्थस्य प्रत्ययोत्पतिं प्रति निमितत्वं यथा स्यादिति, कथम्? प्रत्यय इति वर्तते - सप्तमीस्थमुपपदसंज्ञं भवति, तत्र चोपपदे सत्येव प्रत्यय इति। अथ कर्मणीत्यादिका सत्सप्तमी, तत्कुतोऽसत्युपपदे प्रत्ययप्रसङ्गः? न; कर्मणीत्यादिका सौत्री स्पतम्यर्थापेक्षा, तथा हि सत्यण्प्रत्ययस्याभिधेयं कर्म स्यात् - यथा -‘धः कर्मणि ष्ट्रन्’ इति, तथा चोपपदत्वं न प्रतीयेत, अतो यथेत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायते तथार्थनिरपेक्षा केवलमुपपदसंज्ञाया लिङ्गं सप्तमी, तथा न छातोरण् भवति कर्म चोपपदमित्येतावानर्थः स्यात्। कर्मणः प्रत्ययोत्पतिं प्रति निमितत्वं न प्रतीयेत, तस्मातदर्थं तत्र - ग्रहणम्, किमिदानीं हेय एवायं ग्रन्थस्तत्रैतस्मिन्धात्वधिकार इति? न ब्रूमो हेय इति, सोपस्कारस्तु भवति एतस्मिन्धात्वधिकारे यत्सप्तम्या निर्दिष्ट्ंअ तदुपपदसंज्ञं भवति, तत्र च सति प्रत्यय इति॥
Prakriyasarvasvam¶
अस्मिन् धात्वधिकारे सप्तम्योक्तम् उपपदाख्यम् ।