31086: लिङ्याशिष्यङ्

Padacheda: लिङि | S | 7 | 1 |

आशिषि | S | 7 | 1 |

अङ् | S | 1 | 1 |

Sutrartha

वेदानाम् विषये - आशीर्लिङ्गलकारस्य सार्वधातुकेषु रूपेषु शप्-विकरणस्य अपवादरूपेण अङ्-प्रत्ययः अपि दृश्यते ।

वस्तुतः आशीर्लिङ्-लकारस्य आदेशभूताः तिङ्-प्रत्ययाः लिङाशिषि (3.4.116) इत्यनेन आर्धधातुकसंज्ञकाः सन्ति । परन्तु वेदानां विषये छन्दस्युभयथा (3.4.117) इत्यनेन ते सार्वधातुकाः अपि भवितुमर्हन्ति । अस्यामवस्थायाम् कर्तरि शप् (3.1.68) इत्यनेन शप्-विकरणे प्राप्ते वेदेषु तस्य अपवादरूपेण ‘अङ्’इति प्रत्ययः अपि आगच्छति । स्था, गा, गम्, वच्, विद्, शक्, रुह् - एतेषां षधातुनाम् विषये अयं प्रत्ययः प्रयुक्तः दृश्यते । यथा - 1. वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि (ऋग्वेदः 10.40.11) - अत्र प्रयुक्तः ‘गमेम’ शब्दः ‘गम् + अङ् + इम’ अनेन प्रकारेण निर्मितः अस्ति । 2. मन्त्रम् वोचेम आग्नये (ऋग्वेदः 10.74.1) - अत्र प्रयुक्तः ‘वोचेम’ अयं शब्दः ‘वच् + अङ् + इम’ अनेन प्रकारेण निर्मितः अस्ति । अत्र एकम् वार्त्तिकमस्ति - <!दृशेरग्वक्तव्यः !> । दृश्-धातोः वेदेषु आशीर्लिङ्लकारस्य सार्वधातुके प्रत्यये परे अक्-विकरणप्रत्ययः भवति इत्यर्थः । कित्वात् क्ङिति च (1.1.5) इति गुणनिषेधः विधीयते । यथा - ‘दृशेयं मातरं च’ (ऋग्वेदः 1.24.1) - अत्र ‘दृशेयम्’ एतत् रूपम् ‘दृश् + अक् + इयम्’ इति निर्मितमस्ति ।

Sutrartha (English)

In the context of वेदाः - The सार्वधातुक forms of आशीर्लिङ्गलकार can also use अङ् as गणविकरणप्रत्यय.

Vasu English Summary

The affix अङ् is used in the छन्दस् (Vedas) when the affixes of the आशीर्लिङ् (Benedictive) follow.

Vasu English Translation

The affix अङ् is used in the छन्दस् (Vedas) when the affixes of the आशीर्लिङ् (Benedictive) follow. This debars शप्. The affixes of the Benedictive are ardhadhatuka by (3.4.116); but in the Vedas they are sarvadhatuka as well; see Rule (3.4.117). The scope of the present rule is confined to the Benedictive of the verbs स्था, गा, गम्, वच्, वद्, शक् and रुह्; as उपस्थेयम्; सत्यमुपगेयम्; गमेम जानतो गृहान्, मन्त्र वोचेमाग्नये, विदेयमेनां मनसि प्रविष्ठां; व्रतम् चरिष्यामि तच्छकेयम्; स्वर्गं लोकमारुहेयम्.

The affix अक् is employed in the Chhandas after the verb दृश् in the Benedictive. Had there been अङ्, it would have caused guna by rule (7.4.16); to prevent this, अक् is ordained; as पितरञ्च दृशेयं मातरञ्च ‘May I see the father and the mother’.

Bhashya

लिङ्याशिष्यङ् (703) (439 अङ्विधिसूत्रम्॥ 3.1.4 आ. 18) (आक्षेपभाष्यम्) अयमाशिषि अङ्विधीयते। तस्य किं प्रयोजनम्?। (1874 प्रयोजनवार्तिकम्॥ 1 ॥) - आशिष्यङः प्रयोजनं स्थागागमिवचिविदयः- (भाष्यम्) स्था - उपस्थेयं वृषभं तुग्रियाणाम् स्था॥ गा - -अञ्जसा सत्यमुपगेयम्। गा॥ गमि - -यज्ञेन प्रतिष्ठां गमेयम्। गमि॥ वचि - मन्त्रं वोचे माग्नये। वचि॥ विदि - विदेयमेनां मनसि प्रविष्टाम्। विदि॥ (1875 अङि्वधानवार्तिकम्॥ 2 ॥) - शकिरुह्योश्च- (भाष्यम्) शकिरुह्योश्चेति वक्तव्यम्। शकेम त्वा समिधं (साधया धियः)। अस्रवन्ती मारुहेमास्वस्तये। (1876 अग्विधिवार्तिकम्॥ 3 ॥) - दृशेरक् पितरं च दृशेयं मातरं च दृशेयम्- (भाष्यम्) दृशेरग्वक्तव्यः। पितरं च दृशेयं मातरं च दृशेयमित्येवमर्थम्॥ (आडागमविध्याक्षेपभाष्यम्) इह उपश्थेयामेत्यत्र आडपि वक्तव्यः। न ह्यङैव सिध्यति॥ (समाधानभाष्यम्) न वक्तव्यः। सार्वधातुकत्वात् सलोपः, आर्धधाकत्वादेत्वम्। तत्रोभयलिङ्गत्वात् सिद्धम्॥ लिङ्याशिष्यङ्॥ 86 ॥ इति श्रीमद्भगवत्पतञ्जलीविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्॥

Kashika

आशिषि विषये यो लिङ्, तस्मिन् परतश्छन्दसि विषयेऽङ् प्रत्ययो भवति। शपोऽपवादः। छन्दस्युभयथा (३.४.११७) इति लिङः सार्वधातुकसंज्ञाप्यस्ति। स्थागागमिवचिविदिशकिरुहयः प्रयोजनम्। स्था — उपस्थेयं वृषभं तुग्रियाणाम्। गा — स॒त्यमुप॑गेषम् (तै०सं० १.२.१०.२) गमि — गृ॒हं ग॑मेम (ऋ० १०.४०.११)। वचि — मन्त्रं॑ वोचेमा॒ग्नये॑ (ऋ० १.७४.१)। विदि — विदे॑यमेनां॒ मन॑सि॒ प्रवि॑ष्टाम् (शौ०सं० १९.४.२)। शकि — व्रतं चरिष्यामि तच्छकेयम् (आश्व०श्रौ० ८.१४.६)। रुहि — स्वर्गं लोकमारुहेयम्॥ दृशेरग् वक्तव्यः॥ पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च (ऋ० १.२४.१)॥

Siddhanta Kaumudi

आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम् - (SK2454) । मन्त्रं वोचेमाग्नये (मन्त्रं॑ वोचेमा॒ग्नये॑) ।<!दृशेरग्वक्तव्यः !> (वार्तिकम्) ॥ पितरं च दृशेयं मातरं च (पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च) । अङि तु ऋदृशोऽङि - (SK2406) इति गुणः स्यात् ॥

Padamanjari

लिङ्याशिष्यङ्॥ शषोऽपवाद इति। लिङशिषीत्यार्द्धिधातुकत्वात्कथमत्र शपःप्राप्तिरित्यत आह - च्छन्दस्युभयथेति। शब्ग्रहणं चोपलक्षणम्। शकेः श्नोरपवादः, स्थादिष्वेवायमङ् प्रायेण द्दश्यत इत्याह - स्थागागमीत्यादि। उपस्थेयमिति। उपपूर्वातिष्ठतेराशिषि लिङ्, मिपोम्भावः, यासुटस्सार्वधातुकत्वात्’लिङ्ः स्सलोपो’ नन्त्यस्यऽ, अङ् ठातो लोपि इटि चऽ, ठतो येयःऽ,ठाद्गुणःऽ। एवमुपगेयमिति। गमेमेति। मस्। वोचेमेति। अङ्,’वच उम्’ , यासुट्, इयादेशः,वलि लोपः। द्दशेरग्वक्तव्य इति। अङ् इहि सति ठृद्दशोऽङ्ऽ ईति गुणस्स्यात्॥

Nyaas

शपोऽपवादः इति। ननु चाशिषि यो लिङ विहितस्तस्य लिङाशिषि (3.4.116) इत्यार्थधातुकसंज्ञा, सार्वधातुके च शब्विहितः, तत्कथं शपोऽपवाद इत्याह - छन्दस्युभयथा इत्यादि।स्थादिभ्य एवात्र दृश्यते,नान्येभ्य इत्यभिप्रायेणाह - स्थागागमि इत्यादि। उपस्थेयम् इति।उपपूर्वात्तिष्ठतेराशिषि लिङ, मिप्, तस्य तस्थस् (3.4.101) इत्यादिनाऽमादेशः, यासुट्, उभयसंज्ञात्वेन सार्वधातुकत्वात् लिङ सलोपोऽनन्त्यस्य (7.2.79) इति सलोपः। क्वचित् उपस्थेषम् इति पाठः। तत्रार्धधातुकत्वात् सलोपाभावः, वलि यलोपः। उपगेयम् इति। गै शब्दे (धातुपाठः-917) आदेच उपदेशेऽशिति (6.1.45) इत्यात्त्वम्। शेषं पूर्ववत्। गमेम इति। गमेः परस्य लिङो मस्, नित्यं ङितः (3.4.99) इति सलोपः। यासुडादि सर्व पूर्ववत्। वोचेयम् इति। वच भाषणे (धातुपाठः-1842)। सिप्, तस्याम्, अङ, अङि परतः वच उम् (7.4.20) , या इत्यस्य इय्, उभयत्र आद्गुणः (6.1.87) । विदेयम् इति। विद ज्ञाने (धातुपाठः-1064)। शकेयम् इति। शक्लृ शक्तौ (धातुपाठः-1261)। आरुहेयम् इति। रुह {बीजजन्मणि प्रादुर्भावे - धातुपाठः-} जन्मनि (ध।पा।859) इयादेशादि सर्व पूर्ववत्।`दृशेरग्वक्तव्यः इति। अङि हि सति ऋदृशोऽङि गुणः (7.4.16) इति गुणः स्यात्। तथा च दृशेयमिति न सिध्येत्। अकि तु सति कित्त्वाद्गुणाभावो भवति। तस्मादग्वक्तव्यः = व्याख्येयः। व्याख्यानं तु बहुलग्रहणानुवृत्तेर्वक्तव्यम्॥

Prakriyasarvasvam

आशीर्लिङि परे अङ् वा स्यात् । मन्त्रं वोचेमाग्नये । यासुटः ‘अतो येयः’ । ‘छन्दस्युभयथा’ । इत्याशीर्लिङः सार्वधातुकत्वाल्लिङः । सलोपः ।<!दृशेरग्वाच्यः!> (वा. ३–१–८६) अङि ‘ऋदृशः’— (७–४–१६) इति गुणः स्यादित्यगुक्तिः । पितरं च दृशेयं मातरं च । *आ⁷र्यशब्दस्य स्वामिन्यन्तोदात्तत्वं वाच्यम् ।

Vartika

द्दशेरग्वक्तव्यः ।