31086: लिङ्याशिष्यङ् ==================== **Padacheda:** लिङि | S | 7 | 1 | आशिषि | S | 7 | 1 | अङ् | S | 1 | 1 | Sutrartha --------- **वेदानाम् विषये - आशीर्लिङ्गलकारस्य सार्वधातुकेषु रूपेषु शप्-विकरणस्य अपवादरूपेण अङ्-प्रत्ययः अपि दृश्यते ।** वस्तुतः आशीर्लिङ्-लकारस्य आदेशभूताः तिङ्-प्रत्ययाः **लिङाशिषि** (3.4.116) इत्यनेन आर्धधातुकसंज्ञकाः सन्ति । परन्तु वेदानां विषये **छन्दस्युभयथा** (3.4.117) इत्यनेन ते सार्वधातुकाः अपि भवितुमर्हन्ति । अस्यामवस्थायाम् **कर्तरि शप्** (3.1.68) इत्यनेन शप्-विकरणे प्राप्ते वेदेषु तस्य अपवादरूपेण 'अङ्'इति प्रत्ययः अपि आगच्छति । स्था, गा, गम्, वच्, विद्, शक्, रुह् - एतेषां षधातुनाम् विषये अयं प्रत्ययः प्रयुक्तः दृश्यते । यथा - 1. वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि (ऋग्वेदः 10.40.11) - अत्र प्रयुक्तः 'गमेम' शब्दः 'गम् + अङ् + इम' अनेन प्रकारेण निर्मितः अस्ति । 2. मन्त्रम् वोचेम आग्नये (ऋग्वेदः 10.74.1) - अत्र प्रयुक्तः 'वोचेम' अयं शब्दः 'वच् + अङ् + इम' अनेन प्रकारेण निर्मितः अस्ति । अत्र एकम् वार्त्तिकमस्ति - । दृश्-धातोः वेदेषु आशीर्लिङ्लकारस्य सार्वधातुके प्रत्यये परे अक्-विकरणप्रत्ययः भवति इत्यर्थः । कित्वात् **क्ङिति च** (1.1.5) इति गुणनिषेधः विधीयते । यथा - 'दृशेयं मातरं च' (ऋग्वेदः 1.24.1) - अत्र 'दृशेयम्' एतत् रूपम् 'दृश् + अक् + इयम्' इति निर्मितमस्ति । Sutrartha (English) ------------------- In the context of वेदाः - The सार्वधातुक forms of आशीर्लिङ्गलकार can also use अङ् as गणविकरणप्रत्यय. Vasu English Summary -------------------- The affix अङ् is used in the छन्दस् (Vedas) when the affixes of the आशीर्लिङ् (Benedictive) follow. Vasu English Translation ------------------------ The affix अङ् is used in the छन्दस् (Vedas) when the affixes of the आशीर्लिङ् (Benedictive) follow. This debars शप्. The affixes of the Benedictive are *ardhadhatuka* by (3.4.116); but in the *Vedas* they are *sarvadhatuka* as well; see Rule (3.4.117). The scope of the present rule is confined to the Benedictive of the verbs स्था, गा, गम्, वच्, वद्, शक् and रुह्; as उपस्थेयम्; सत्यमुपगेयम्; गमेम जानतो गृहान्, मन्त्र वोचेमाग्नये, विदेयमेनां मनसि प्रविष्ठां; व्रतम् चरिष्यामि तच्छकेयम्; स्वर्गं लोकमारुहेयम्. The affix अक् is employed in the *Chhandas* after the verb दृश् in the Benedictive. Had there been अङ्, it would have caused *guna* by rule (7.4.16); to prevent this, अक् is ordained; as पितरञ्च दृशेयं मातरञ्च 'May I see the father and the mother'. Bhashya ------- लिङ्याशिष्यङ् (703) (439 अङ्विधिसूत्रम्॥ 3.1.4 आ. 18) (आक्षेपभाष्यम्) अयमाशिषि अङ्विधीयते। तस्य किं प्रयोजनम्?। (1874 प्रयोजनवार्तिकम्॥ 1 ॥) - आशिष्यङः प्रयोजनं स्थागागमिवचिविदयः- (भाष्यम्) स्था - उपस्थेयं वृषभं तुग्रियाणाम् स्था॥ गा - -अञ्जसा सत्यमुपगेयम्। गा॥ गमि - -यज्ञेन प्रतिष्ठां गमेयम्। गमि॥ वचि - मन्त्रं वोचे माग्नये। वचि॥ विदि - विदेयमेनां मनसि प्रविष्टाम्। विदि॥ (1875 अङि्वधानवार्तिकम्॥ 2 ॥) - शकिरुह्योश्च- (भाष्यम्) शकिरुह्योश्चेति वक्तव्यम्। शकेम त्वा समिधं (साधया धियः)। अस्रवन्ती मारुहेमास्वस्तये। (1876 अग्विधिवार्तिकम्॥ 3 ॥) - दृशेरक् पितरं च दृशेयं मातरं च दृशेयम्- (भाष्यम्) दृशेरग्वक्तव्यः। पितरं च दृशेयं मातरं च दृशेयमित्येवमर्थम्॥ (आडागमविध्याक्षेपभाष्यम्) इह उपश्थेयामेत्यत्र आडपि वक्तव्यः। न ह्यङैव सिध्यति॥ (समाधानभाष्यम्) न वक्तव्यः। सार्वधातुकत्वात् सलोपः, आर्धधाकत्वादेत्वम्। तत्रोभयलिङ्गत्वात् सिद्धम्॥ लिङ्याशिष्यङ्॥ 86 ॥ इति श्रीमद्भगवत्पतञ्जलीविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्॥ Kashika ------- आशिषि विषये यो लिङ्, तस्मिन् परतश्छन्दसि विषयेऽङ् प्रत्ययो भवति। शपोऽपवादः। **छन्दस्युभयथा** (३.४.११७) इति लिङः सार्वधातुकसंज्ञाप्यस्ति। स्थागागमिवचिविदिशकिरुहयः प्रयोजनम्। स्था — उपस्थेयं वृषभं तुग्रियाणाम्। गा — स॒त्यमुप॑गेषम् (तै०सं० १.२.१०.२) गमि — गृ॒हं ग॑मेम (ऋ० १०.४०.११)। वचि — मन्त्रं॑ वोचेमा॒ग्नये॑ (ऋ० १.७४.१)। विदि — विदे॑यमेनां॒ मन॑सि॒ प्रवि॑ष्टाम् (शौ०सं० १९.४.२)। शकि — व्रतं चरिष्यामि तच्छकेयम् (आश्व०श्रौ० ८.१४.६)। रुहि — स्वर्गं लोकमारुहेयम्॥ दृशेरग् वक्तव्यः॥ पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च (ऋ० १.२४.१)॥ Siddhanta Kaumudi ----------------- आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम् - (SK2454) । मन्त्रं वोचेमाग्नये (मन्त्रं॑ वोचेमा॒ग्नये॑) । (वार्तिकम्) ॥ पितरं च दृशेयं मातरं च (पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च) । अङि तु ऋदृशोऽङि - (SK2406) इति गुणः स्यात् ॥ Padamanjari ----------- लिङ्याशिष्यङ्॥ शषोऽपवाद इति। लिङशिषीत्यार्द्धिधातुकत्वात्कथमत्र शपःप्राप्तिरित्यत आह - च्छन्दस्युभयथेति। शब्ग्रहणं चोपलक्षणम्। शकेः श्नोरपवादः, स्थादिष्वेवायमङ् प्रायेण द्दश्यत इत्याह - स्थागागमीत्यादि। उपस्थेयमिति। उपपूर्वातिष्ठतेराशिषि लिङ्, मिपोम्भावः, यासुटस्सार्वधातुकत्वात्'लिङ्ः स्सलोपो' नन्त्यस्यऽ, अङ् ठातो लोपि इटि चऽ, ठतो येयःऽ,ठाद्गुणःऽ। एवमुपगेयमिति। गमेमेति। मस्। वोचेमेति। अङ्,'वच उम्' , यासुट्, इयादेशः,वलि लोपः। द्दशेरग्वक्तव्य इति। अङ् इहि सति ठृद्दशोऽङ्ऽ ईति गुणस्स्यात्॥ Nyaas ----- `शपोऽपवादः` इति। ननु चाशिषि यो लिङ विहितस्तस्य **लिङाशिषि** (3.4.116) इत्यार्थधातुकसंज्ञा, सार्वधातुके च शब्विहितः, तत्कथं शपोऽपवाद इत्याह - `छन्दस्युभयथा` इत्यादि।स्थादिभ्य एवात्र दृश्यते,नान्येभ्य इत्यभिप्रायेणाह - `स्थागागमि` इत्यादि। `उपस्थेयम्` इति।उपपूर्वात्तिष्ठतेराशिषि लिङ, मिप्, तस्य `तस्थस्` (3.4.101) इत्यादिनाऽमादेशः, यासुट्, उभयसंज्ञात्वेन सार्वधातुकत्वात् `लिङ सलोपोऽनन्त्यस्य` (7.2.79) इति सलोपः। क्वचित् `उपस्थेषम्` इति पाठः। तत्रार्धधातुकत्वात् सलोपाभावः, वलि यलोपः। `उपगेयम्` इति। `गै शब्दे` (धातुपाठः-917) **आदेच उपदेशेऽशिति** (6.1.45) इत्यात्त्वम्। शेषं पूर्ववत्। `गमेम` इति। गमेः परस्य लिङो मस्, **नित्यं ङितः** (3.4.99) इति सलोपः। यासुडादि सर्व पूर्ववत्। `वोचेयम्` इति। `वच भाषणे` (धातुपाठः-1842)। सिप्, तस्याम्, अङ, अङि परतः `वच उम्` (7.4.20) , `या` इत्यस्य इय्, उभयत्र **आद्गुणः** (6.1.87) । `विदेयम्` इति। `विद ज्ञाने` (धातुपाठः-1064)। `शकेयम्` इति। `शक्लृ शक्तौ` (धातुपाठः-1261)। `आरुहेयम्` इति। `रुह {बीजजन्मणि प्रादुर्भावे - धातुपाठः-} जन्मनि (ध।पा।859) इयादेशादि सर्व पूर्ववत्।`दृशेरग्वक्तव्यः` इति। अङि हि सति **ऋदृशोऽङि गुणः** (7.4.16) इति गुणः स्यात्। तथा च दृशेयमिति न सिध्येत्। अकि तु सति कित्त्वाद्गुणाभावो भवति। तस्मादग्वक्तव्यः = व्याख्येयः। व्याख्यानं तु बहुलग्रहणानुवृत्तेर्वक्तव्यम्॥ Prakriyasarvasvam ----------------- आशीर्लिङि परे अङ् वा स्यात् । मन्त्रं वोचेमाग्नये । यासुटः 'अतो येयः' । 'छन्दस्युभयथा' । इत्याशीर्लिङः सार्वधातुकत्वाल्लिङः । सलोपः । (वा. ३–१–८६) अङि 'ऋदृशः'— (७–४–१६) इति गुणः स्यादित्यगुक्तिः । पितरं च दृशेयं मातरं च । *आ⁷र्यशब्दस्य स्वामिन्यन्तोदात्तत्वं वाच्यम् । Vartika ------- द्दशेरग्वक्तव्यः ।