31085: व्यत्ययो बहुलम्

Padacheda: व्यत्ययः | S | 1 | 1 |

बहुलम् | S | 1 | 1 |

Sutrartha

वेदानां विषये - गणविकरणस्य प्रयोगे बहुलं व्यत्ययः भवति ।

व्यत्ययः इत्युक्यते व्यतिहारः / विषयान्तरे विधानम् । वेदानां विषये अत्र प्रोक्ताः गणविकरणप्रत्ययाः भिन्नरूपेण भवितुमर्हन्ति - इति अस्य सूत्रस्य अर्थः । भिन्नरूपेण इत्युक्ते किम्? केषुचन स्थलेषु अन्यगणस्य विकरणम् प्रयुक्तं दृश्यते, केषुचन स्थलेषु द्वौ विकरणप्रत्ययौ प्रयुज्येते, केषुचन स्थलेषु च त्रयः विकरणप्रत्ययाः प्रयुज्यन्ते - आदयः । यथा - ‘आण्डा शुष्कस्य भेदति’ (ऋग्वेदः 8.40.11) - अत्र भिद्-इति रुधादिगणस्य धातोः शप्-विकरणम् कृतमस्ति । अस्य सूत्रस्य विषये महाभाष्ये आचार्यः वदति - अत्र ‘व्यत्ययः’ शब्दस्य योगविभागः करणीयः (इत्युक्ते ‘व्यत्ययः’ इति एकशब्दस्य एकम् नूतनं सूत्रम् करणीयम् । अनेन वेदानां विषये अन्येषां प्रत्ययानाम् - यथा सुप्/तिङ्/लकार - आदीनामपि व्यत्ययः (= विषयान्तरे विधानम्) भवितुं शक्यते इति अर्थः जायते । एतत् स्पष्टीकर्तुमाचार्यः एकाम् कारिकामपि वदति - सुप्-तिङ्-उपग्रह-लिङ्ग-नराणाम् काल-हल्-अच्-स्वर-कर्तृ-यङाम् च । व्यत्ययम् इच्छति शास्त्रकृत् एषाम् सोऽपि च सिद्ध्यति बाहुलकेन । सुप्-तिङ्-वर्ण-लिङ्-काल-पुरुष-पदनिर्णय-आदीनाम् सर्वेषां विषये वेदेषु व्यत्ययं द्रष्टुम् शक्यते इत्याशयः । ज्ञातव्यम् - व्याकरणशास्त्रे ‘बहुलम्’ इत्यस्य व्याख्या अनया कारिकया दीयते - क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ इत्युक्ते, यादृशस्य सूत्रस्य ‘बहुलम्’ इत्यनेन विधानं कृतमस्ति, तादृशस्य सूत्रस्य केषुचन स्थलेषु सूत्रस्य प्रवृत्तिः दृश्यते, केषुचन स्थलेषु न दृश्यते, केषुचन स्थलेषु विकल्पेन दृश्यते, केषुचन स्थलेषु भिन्नप्रकारेण अपि दृश्यते - इत्यर्थः ।

Sutrartha (English)

In the context of वेदाः - Some kind of irregularity might be seen with reference to application of विकरणप्रत्ययाः

Vasu English Summary

In the छन्दस् (Vedas) there is diversely an interchange of the various विकरण-as शप् etc. which have been previously ordained under special circumstances.

Vasu English Translation

In the छन्दस् (Vedas) there is diversely an interchange of the various विकरण-as शप् etc. which have been previously ordained under special circumstances. The word व्यत्यय means transgression of the fixed rule, or interchange, taking of two vikaraņas at a time, and so on. Thus भेदति = भिद + शप् + ति) instead of भिनत्ति from the root भिद ‘to split’, belonging to the Rudhadi class; e.g. शुष्मस्य आण्डानि भेदति (Rig. VIII.40. II.) ‘He (Indra) break the eggs (children) of Shushma; so also, जरसा मरते पतिः (Rig. X. 86. II); here there is मरते = (मृ + शप् + ते) instead of म्रियते; the root मृ belonging to the Tudadi class. So also there are two vikaraņas at one and the same time, in the following. इन्द्रो वस्ते न नेषतु ‘May Indra lead by this abode’ ; here there is नेषतु 3rd. per. sing. of the Imperative लोट् of the root नो ‘to lead’ ; there are two vikaraņas सिप् and शप् instead of नयतु = (नी +शप् + त्); इन्द्रेण युजा तरुषेम वृत्रम् (Rig. VII.48. I). The word तरुषेम (तृ + उ + सिप् + शप् + अम) is the Ist. per. sing. of the )Optative (लिङ्) of the root तृ, the classical form being तरेम or तीर्याम ‘may we cross’.

In the Vedic literature we have many apparent irregularities with regard to the rules of declension of nouns, conjugation of verbs, application of Parasmaipada or Atmanepada affixes; rules of gender, person or tense, rules of interchange of consonants, or of vowels, rules of accent, rules relating to कृत् and तद्धित affixes and rules relating to the affixes included in the pratyahara यङ् (3.1.22) to (3.1.86).

Bhashya

व्यत्ययो बहुलम् (702) (429 छन्दसि व्यत्ययविधिसूत्रम्॥ 3.1.4 आ.17) (1873 वार्तिकम्॥ 1 ॥) - योगविभागः- (भाष्यम्) योगविभागः कर्तव्यः - व्यत्ययः। व्यत्ययो भवति स्यादीनामिति। आण्डा शुष्णस्य भेदति। भिनत्तीत्येवं प्राप्ते। स च न मरति। न म्रियत इति प्राप्ते॥ ततो बहुलम्। बहुलं छन्दसि विषये सर्वे विधयो भवन्तीति। सुपां व्यत्ययः, तिङां व्यत्ययः, वर्णव्यत्ययः, लिङ्गव्यत्ययः, पुरुषव्यत्ययः, कालव्यत्ययः, आत्मनेपदव्यत्ययः, परस्मै पदव्यत्यय इति॥ सुपां व्यत्ययः - युक्ता मातासीद्धुरि दक्षिणायाः। दक्षिणायामिति प्राप्ते॥ तिङां व्यत्ययः - चाषालं ये अश्वयूपाय तक्षति। तक्षन्तीति प्राप्ते॥ वर्णव्यत्ययः - त्रिष्टुभौजः शुभितमुग्रवीरम्। शुधितमिति प्राप्ते॥ लिङ्गव्यत्ययः - मधोस्तृप्ता इवासते। मधुन इति प्राप्ते॥पुरुषव्यत्ययः - अधा स वीरैर्दशभिर्वियूयाः। वियूयादिति प्राप्ते॥ कालव्यत्ययः - श्वोग्नीनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन। आधातायष्टेति प्राप्ते॥ आत्मनेपदव्यत्ययः - ब्रह्मचारिणमिच्छते। इच्छतीति प्राप्ते॥ परस्मैपदव्यत्ययः - प्रतीपमन्यऊर्मिर्युध्यति। युध्यत इति प्राप्ते॥ सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सोपि च सिध्यति बाहुलकेन॥ व्यत्ययो॥ 85 ॥

Kashika

यथायथं विकरणाः शबादयो विहिताः, तेषां छन्दसि विषये बहुलं व्यत्ययो भवति। व्यतिगमनं व्यत्ययो व्यतिहारः। विषयान्तरे विधानम्, क्वचिद् द्विविकरणता, क्वचित् त्रिविकरणता च। आ॒ण्डा शुष्ण॑स्य॒ भेद॒ति (ऋ० ८.४०.११)। भिनत्तीति प्राप्ते। ताश्चि॒न्नु न म॑रन्ति॒ (ऋ० १.१९१.१२)। न म्रियन्त इति प्राप्ते। द्विविकरणता — इन्द्रो वस्तेन नेषतु। नयत्विति प्राप्ते। त्रिविकरणता — इन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम् (ऋ० ७.४८.२)। तीर्यास्म इति प्राप्ते। बहुलग्रहणं सर्वविधिव्यभिचारार्थम्।

सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च।

व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन॥

Siddhanta Kaumudi

विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । आण्डा शुष्णस्य भेदति (आ॒ण्डा शुष्ण॑स्य॒ भेद॑ति) । भिनत्तीति प्राप्ते । जरसा मरते पतिः (ज॒रसा॒ मर॑ते॒ पतिः॑) । म्रियत इति प्राप्ते । इन्द्रो वस्तेन नेषतु (इन्द्रो॑ व॒स्तेन॑ नेषतु) । नयतेर्लोट् शप्सिपौ द्वौ विकरणौ । इन्द्रेण युजा तरुषेम वृत्रम् (इन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम्) । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः शप् सिप् चेति त्रयो विकरणाः ॥ सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥ 1 ॥ धुरि दक्षिणायाः (धु॒रि दक्षि॑णायाः) । दक्षिणस्यामिति प्राप्ते । चषालं ये अश्वयूपाय तक्षति (च॒षालं॒ ये अ॑श्वयूपाय॒ तक्ष॑ति) । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । ब्रह्मचारिणमिच्छते । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मिर्युध्यति । युध्यत इति प्राप्ते । मधोस्तृप्ता इवासते (मधो॑स्तृ॒प्ता इ॑वासते) । मधुन इति प्राप्ते । नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः (अधा॒ स वी॒रैर्द॒शभि॒र्वियू॑याः) । वियूयीदिति प्राप्ते । कालः कालवाची प्रत्ययः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लृट् । तमसो गा अदुक्षत् (तम॑सो॒ गा अ॑दुक्षत्) । अधुक्षदिति प्राप्ते । मित्र वयं च सूरयः (मित्र॑ व॒यं च॑ सू॒रयः॑) । मित्रा वयमिति प्राप्ते । स्वरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषये अच् । अवग्रहे विशेषः । यङो यशब्दादारभ्य लिङ्याशिष्यङ् - (SK3434) इति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥

Padamanjari

व्यत्ययो बहुलम्॥ यथायथमिति। स्वस्मिन् स्वस्मिन्विषये इत्यर्थः। व्यतिगमनं व्यत्यय इति। व्यतिपूर्वादिणो भावे ठेरच्ऽ। अन्योऽन्यविषयावगाहनमित्यर्थः। क्वचिदित्यादिना व्यत्ययस्य प्रकारं दर्शयति। न मरतीति। परस्मैपदमप्यत्र व्यत्ययेन। नेषत्विति। नयतेर्लोटि शप्सिपौ। तरुषेमेति। तरतेर्विध्यादौ लिङ्, तथा च’तरेमेति प्राप्ते’ इति वृत्तिः;इतरथा’तीर्यास्मेति प्राप्ते’ इति वक्तव्यं स्यात्, ततश्शप् सिप् उ त्यय इति त्रयो विकरणाः, धातोर्गुणः। तरुषमस्, ततो यासुट्,’लिङ्ः सलोपो’ नन्त्यस्यऽ’नित्यं ङ्तिः’ ठतो येयःऽ यलोपः, ठाद्गुणःऽ तरुषेम। बहुलग्रहणमनर्थकम्, पूर्वसूत्रादपिशब्दस्यानुवृतौ च्छन्दसि व्यत्ययोऽपि भविष्यति, अपिशब्दाद्यथाप्राप्तञ्चेति सर्वमिष्ट्ंअ सिद्ध्यति। अत आह - बहुल ग्रहणमिति। सर्वस्य प्रकृतस्याप्रकृतस्य च विधेर्व्यभिचारो व्यत्ययलक्षणो यथा स्यादित्येवमर्थमित्यर्थः। एवमर्थे बहुलग्रहणे सति यदिष्ट्ंअ सिद्ध्यति तत्श्लोकेन दर्शयति - सुप्तिणुपग्रहेत्यादि। तत्र सुपाम् व्यत्ययः - धुरि दक्षिणायाः। दक्षिणस्यामिति प्राप्ते। तिङम् - चषालं ये अश्वयूपाय तक्षति। तक्षन्तीति प्राप्ते। लादेशव्यङ्ग्यः क्रियासाधनविशेषः स्वार्थपरार्थत्वव्यक्तवाक्त्वादिको यः स मुख्य उपग्रहः। यथोक्तम् - य आत्मनेपदाद्भेदः क्वचिदर्थस्य गम्यते॥ अन्यतश्चापि लादेशान्मन्यन्ते तमुपग्रहम्॥ इति। आत्मनेपदाद्धेतोरित्यर्थः। एवमन्यतश्चापि लादेशदिति, इह तु तद्व्यक्तिनिमितत्वात्परस्मैपदात्मनेपदयोरुपग्रहशब्दो वर्तते। स ब्रह्मचारिणमिच्छते। इच्छतीति प्राप्ते। ऊर्मिर्युव्यति, युध्यत इति प्राप्ते। लिङ्गम - मधोस्तृप्ता इवासते, मधुन इति प्राप्ते। भाषायामपि मधुशब्दं पुंल्लिङ्गं प्रयुञ्जते -‘मधूंश्च बिभ्रति र्मयसुरविटपिन इति’ , तच्चिन्त्यम्। नरःउपुरुषः - अधा स वीरेर्द्दशभिर्वियूयाः, वियूयादिति प्राप्ते,’यु मिश्रये’ ‘विपूर्वः, आशिषि लिङ्। कालवाची प्रत्ययः कालः - श्वो’ ग्नीनाधास्यमानेन, लुटो विषये लृट्। हल् - त्रिष्टुअभौजः ‘सुफितमुग्रवीरम्’शुभ शोभार्थे’ भकारस्य फकारः। आश्वलायनसूत्रे तैतिरीये च भकार एव पठ।ल्ते अच् - उपगायन्ति मा पत्नयो गर्भिणयः, दीर्घस्य ह्रस्वः। स्वरव्यत्ययः -‘परादिश्च्छन्दसि बहुलम्’ इत्यत्र वक्ष्यते। कर्तृ शब्दः कारकमात्रस्योपलक्षणार्थः, तद्वाचिनां शब्दानां व्यत्यय इत्यर्थः। विभक्तीनां व्यतत्य इति यावत्। यङम् - यङिति प्रत्याहारः यङे यशब्दादारभ्य’लिङ्याशिष्यङ्’ इति ङ्कारेण, तेषां व्यत्ययः - आण्डा शुष्मस्य भेदतीत्यादिना वृतावेव दर्शितः। एषां सुप्रभृतीनां व्यत्ययमिच्छति चशास्त्रकृत् पाणिनिराचार्यः। सोऽपि तथाविधो व्यत्ययो बाहुलकेन सिद्ध्यति। बहुलस्य भावो बाहुलकम्, मनोज्ञादित्वाद्रुञ्। तत्पुनर्बहुलशब्दस्य प्रवृत्तिनिमितं यद्वह्वर्थादानम्। च - शब्दो हेतौ। यस्मादेवमुक्तप्रकारो व्यत्ययो बहुलग्रहणेनैव सिद्ध्यति, तस्माद्वहुलग्रहणं कृतमित्यर्थः॥

Nyaas

यथायथम इति। यो यस्यात्मीयो विषयः = यथायथम्। यस्मिन् यस्मिन् विषय इत्यर्थः। किं पुनरयं व्यत्ययो नामेत्याह - व्यतिगमनं व्यत्ययः इति। तमेव व्यत्ययं स्पष्टीकर्त्तुमाह - {व्यतिहारः-काशिका} व्यतिकरः इत्यादि। क्वचित् इत्यादिना व्यत्यस्य प्रकारान्तरं दर्शयति। भेदति इति। श्नमो विषये शपो विधानम्। मरति त्यत्रापि शविषये शप्, परस्मैपदञ्च व्यत्ययेनैव। म्रियते इति। पूर्ववद्रिङ, तस्येयङ।नेषतु इति। नयतेर्लोट्, तिप्, एरुः (3.4.86) सिप्, तस्मात् परः शप्, धातोर्गुणः, सिपः षत्वम्।त्रिविकरणतायास्तूदाहरणम् - {तरुषेम वृत्रम् - काशिका} तरुषेम दृषदम्` इति। तरतेराशिषि लिङ्, मस्, नित्यं ङित्, (3.4.99) इतिवस्मसोः सलोपः, यासुट्, **छन्दस्युभयथा** (6.4.86) इति सार्वधातुकत्वाल्लिङ उप्रत्ययः, तस्मात् परः सिप्, तस्मादपि परोऽङ, धातोर्गुणः, सिपः षत्वम्, **अतो येयः** (7.2.80) इतीयादेशः। अङा सह **आद्गुणः** (6.1.87) , **लिङः सलोपोऽनन्त्यस्य** (7.2.79) इति सलोपः। **लोपो व्योर्वलि** (6.1.66) इति यलोपः।अथ `व्यत्ययः इत्येतावत् कतं नोक्तम्,किं बहुलग्रहणेन, पूर्वसूत्राद्ध्यपिशब्दस्यानुवृत्तौ सत्यां छन्दसि व्यत्ययो भवति, अपिशब्दाद्यथाप्राप्तञ्चेति, एवमभिसम्बन्धे क्रियमाणेऽन्तरेणापि बहुलग्रहणं सर्वमिष्टं सिध्ययत्येवेत्यत आह - ` बहुलग्रहणम्` इत्यादि। सर्वस्य प्रकृतस्याप्रकृतस्य विधेव्र्यभिचारो व्यत्ययलक्षणो यथा स्यादित्येवमर्थ बहुलम्, इतरथा ह्रसति बहुलग्रहणे प्रकृतानामेव स्यादीनां शानच्पर्यन्तानां स्यात्, नान्येषां श्नम्प्रभृतीनाम्, इष्यते च तेषामपि। स बहुलग्रहण एव सति लभ्यते। एतमेवार्थं दर्शयितुमाह - सुप्तिङुपग्रह इत्यादि। ततर् सुपां व्यत्ययः - धुरि दक्षिणायामिति प्राप्ते सप्तम्या विषये षष्ठी। तिङाम् - ये यूपाय तक्षति। तक्षन्तीति प्राप्ते। लादेशव्यङ्ग्यक्रियाविशेषो मुख्य उपग्रहः। इह तु तद्व्यक्तिनिमित्तत्वात् परस्मैपदात्मनेदयोरुपग्रहशब्दो वर्तते। एतदुक्तं भवति - आत्मनेपदपरसमैपदयोव्र्यत्यय इति। स ब्राहृचारिणमिच्छते, प्रतीतमन्यदग्न युध्यति। इच्छति, बध्यत इति प्राप्ते। लिङ्गस्य - मधोस्तृप्ता इवासत इति। मधुन इति प्राप्ते। नरस्य = प्रथमपुरुषादेः - अतोपचारैर्दशभिर्वियूयाय इति। वियूयादिति प्रथमपुरुषविषये मध्यमपुरुषः, यु मिश्रणे (धातुपाठः- 1033), विपूर्वादाशिषि लिङ, सिप्, यासुट्, अकृत्सार्वधातुकयोर्दीर्घः (7.4.25) इति दीर्घः, स्कोः संयोगाद्योरन्ते च (8.2.29) इति सलोपः। कालस्य - सोऽग्नीनाधास्यमानेन। लुटो विषये लुट्; कालशब्दोऽत्र कालविषयत्वाल्लुडादिप्रत्ययेषु वर्तते। न हि मुख्यकालस्य व्यत्ययः शक्यते कर्त्तुम्। हलाम् - शुफितं मुखबीजम्। शुभितमिति प्राप्ते। शुभ शुम्भ शोभार्थे (धातुपाठः-1321,1322) निष्ठा, इट्, भकारसय् फकारः। अचाम् - उपगायन्तु मां पत्नयो गर्भिणयः। पत्न्यो गर्भिण्य इति प्राप्ते। ईकारस्य इकारः। स्वराणाम् - अन्तोऽवत्याः (6.1.220) इत्यन्तोदात्तत्वं यथेह भवति - अआवतीं सोमवतीं प्रजावतीं सूर्यवतीं दृषदमित, तथेहापि स्यात् - अआवती सोमवती प्रजावती। व्यत्यये तु सत्यआशब्दस्य प्रकृतिस्वर एव भवति। कः पुनः प्रकृतिस्वरः? आद्युदात्तत्वम्। तथा हि ङीपोऽनुदात्तत्वं पित्त्वात्। मतुपोऽप्यत एव। {अशूप्रुषिप्लुषिलटिकटिकणिखटिविशिभ्यः क्वन् इति द।उ।सूत्रम्} अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्` (द।उ।8।125) इति क्वन्प्रत्ययान्तत्वात् नित्स्वरेणाद्युदात्तोऽआशब्दः। कर्तृग्रहणं कारकोपलक्षणार्थम्। कारकाणां व्यत्यय इत्यर्थः। आसादयद्भिरुभयोर्वेदाः। आसादयद्भ्य इति प्राप्ते सम्प्रदानस्य करणत्वम्। यङ इति प्रत्याहारग्रहणार्थम् - सार्वधातुके यक् (3.1.67) इति यक आरभ्य लिङ्याशिष्यङ (3.1.86) इत्यतो ङकारेण। यगादीनां प्रत्ययानामङपर्यन्तानां व्यत्यय इत्यर्थः। मुण्डा शुष्मस्य भेदतीति। श्नमि प्राप्ते शप्। एषां शप्प्रभृतीनां व्यत्ययमिच्छति शास्त्रकृत् - पाणिनिः। सोऽपि च सिध्यति बाहुलकेन अपिशब्दात् स्यादिव्यत्ययः। बाहुलस्य भावो बाहुलकम्, द्वन्द्वमनोज्ञादित्वाद्वुञ् (5.1.132) । चशब्दो हेतौ। यस्मादेवं प्रकृतानामप्रकृतानाञ्तच बाहुलकेन व्यत्ययः सिध्यति तस्माद्बहुलग्रहणं कृतमिति॥