31084: छन्दसि शायजपि

Padacheda: छन्दसि | S | 7 | 1 |

शायच् | S | 1 | 1 |

अपि | S | 0 | 0 |

Sutrartha

वेदानां विषये - श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच् तथा शायच् उभौ अपि आदेशौ भवतः ।

हलः श्नः शानज्झौ (3.1.83) इत्यनेन हलन्तात् परस्य श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच्-आदेशः भवति । वेदानाम् विषये शानच्-इत्यस्य स्थाने ‘शायच्’ आदेशः अपि अनेन सूत्रेण विधीयते । (अस्मिन् सूत्रे ‘हलः’ इति न अनुवर्तते, अतः अयमादेशः सर्वेभ्यः धातुभ्यः भवितुमर्हति ।) यथा - ‘गृभाय जिह्वया मधु’ (ऋग्वेदः 8.17.5) - अत्र ‘गृभाय’ एतत् रूपम् ग्रह्-धातोः लोट् -लकारस्य मध्यमपुरुषैकवचनस्य अस्ति । अस्य प्रक्रिया इयम् - ग्रह् + लोट् [लोट् च (3.3.162) इत्यनेन लोट्-लकारः] → ग्रह् + सिप् [तिप्तस्झि.. (3.4.78) इत्यनेन मध्यमपुरुषैकवचनस्य विवक्षायाम् ‘सिप्’ प्रत्ययः] → ग्रह् + श्ना + सिप् [सार्वधातुके प्रत्यये परे क्र्यादिभ्यः श्ना (3.1.73) इति विकरणप्रत्ययः ‘श्ना’] → ग्रह् + श्ना + हि [सेर्ह्यपिच्च (3.4.87) इत्यनेन सि-प्रत्ययस्य हि-आदेशः] → ग्रह् + शायच् + हि [छन्दसि शायजपि (3.1.84) इति श्ना-प्रत्ययस्य वेदानां विषये शायच्-आदेशः] → ग्रह् + आय + हि [इत्संज्ञालोपः] → गृ अह् + आय + हि [ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (6.1.16) इति रेफस्य सम्प्रसारणम् ऋकारः] → गृह् + आय + हि सम्प्रसारणाच्च (6.1.108) इति ऋकार-अकारयोः पूर्वरूप-एकादेशः ऋकारः ।] → गृह् + आय [अतो हेः (6.4.105) इति अदन्तात् परस्य हि-प्रत्ययस्य लोपः] → गृभ् + आय [ <!हृग्रहोर्भश्छन्दसि इति हस्य भः !> अनेन वार्त्तिकेन हकारस्य भकारः] → गृभाय । वेदेषु शानच्-आदेशे कृते अपि रूपाणि दृश्यते । यथा - बधान देव सवितः (शतपथब्राह्मणम् 1.2.4.16) । अत्र ‘बधान’ इति रूपम् लौकिकसंस्कृतवत् एव शानच्-आदेशे कृते सिद्ध्यति । अत्र एकम् वार्तिकमपि ज्ञातव्यम् - <!हृग्रहोर्भश्छन्दसि इति हस्य भः !> । इत्युक्ते, वेदेषु हि-प्रत्यये परे अपि शायच्-आदेशः भवितुमर्हति, अन्येषु प्रत्ययेषु परेषु अपि शायच्-आदेशः भवितुमर्हति । यथा - ‘मही क्षेमं रोदसी अस्कभायत्’ (अथर्ववेदः 4.1.3) - अत्र स्कम्भ् धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपे अपि ‘शायच्’ आदेशः कृतः दृश्यते ।

Sutrartha (English)

The श्ना प्रत्यय following a हल् letter is seen converted either to शायच् or शानच् when followed by the ‘हि’ प्रत्यय.

Vasu English Summary

In the छन्दस् (Vedas), शायच् is also the substitute of श्ना after the roots ending in consonants, when हि follows.

Vasu English Translation

In the छन्दस् (Vedas), शायच् is also the substitute of श्ना after the roots ending in consonants, when हि follows. Thus गृभाय जिह्वया मधु, (Rig Veda VIII.I7.5). The affix शानच् is also employed; as बधान पशून् ‘kill the beasts’.

Bhashya

छन्दसि शायजपि (701) (428 श्नाविकरणस्य शायजादेशविधिसूत्रम् ॥ 3.1.4 आ. 16 ) (1872 अहौशायज्विधिवार्तिकम् ॥ 1 ॥) - शायच् छन्दसि सर्वत्र- (भाष्यम्) शायच् छन्दसि सर्वत्रेति वक्तव्यम् ॥ क्व सर्वत्र?। हौ चाहौ च किं प्रयोजनम्?। महीरस्कभायद्, यो अस्कभायद् उद्गृभायत उन्मथायतेत्येवमर्थम् ॥ छन्दसि शायजपि ॥ 84 ॥

Kashika

छन्दसि विषये श्नः शायजादेशो भवति, शानजपि। गृ॒भा॒य जि॒ह्वया॒ मधु॑ (ऋ० ८.१७.५)। शानचः खल्वपि — ब॒धा॒न दे॑व (मा०सं० १.२५)॥

Siddhanta Kaumudi

अपिशब्दाच्छानच् ।<!हृग्रहोर्भश्छन्दसि इति हस्य भः !> (वार्तिकम्) । गृभाय जिह्वया मधु (गृ॒भा॒य जि॒ह्वया॒ मधु॑) । बधान देव सवितः (ब॒धान॑ देव सवितः) । अनिदितां - (SK415) इति बध्नातेर्नलोपः । गृभ्णामि ते (गृ॒भ्णामि॑ ते) । मध्वा जभार (मध्वा॑ ज॒भार॑) ॥

Padamanjari

च्छन्दसि शायजपि॥ गृभायेति। ग्रहिज्यादिसूत्रेण संप्रसारणम्,’हृग्रहोर्भश्च्छन्दसि’ इति हकारस्य भकारः। बधानेति।’बन्ध बन्धने’ ,ठनिदिताम्ऽ इति नलोपः॥

Nyaas

अत्रापि चित् - शित्करणयोः पूर्वोक्तमेव प्रयोजनम्। `{नास्ति काशिकायाम्।} गृहाण् इति। ग्रहण उपादाने (धातुपाठः-1533) लोट्, सिप्; हिः, ततः श्ना,तस्य शानच्, हेर्लुक् (6.4.105) , ग्रह्रादीना (6.1.16) सम्प्रसारणम्। गृभाय इति, क्वचित् पाठः। तत्र ह्मग्रहोर्भश्छन्दसि (वा। 8.2.32) इति भत्वम्। बधान`इति। `बन्ध बन्धने (धातुपाठः-1508) अनिदिताम् (6.4.24) इति नलोपः। शेषं पूर्ववत्॥

Prakriyasarvasvam

हलः परस्य श्ना प्रत्ययस्य हौ परे शायच् शानजपि स्यात् । ‘अतो हेः’ (६-४-१०५) इति हिलोपोः । गृभाय जिह्वया । हृग्रहोर्भश्छन्दसि (वा.) इति भः । गृहाणाङ्गान्वह्वे३ ।