31084: छन्दसि शायजपि ==================== **Padacheda:** छन्दसि | S | 7 | 1 | शायच् | S | 1 | 1 | अपि | S | 0 | 0 | Sutrartha --------- **वेदानां विषये - श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच् तथा शायच् उभौ अपि आदेशौ भवतः ।** **हलः श्नः शानज्झौ** (3.1.83) इत्यनेन हलन्तात् परस्य श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच्-आदेशः भवति । वेदानाम् विषये शानच्-इत्यस्य स्थाने 'शायच्' आदेशः अपि अनेन सूत्रेण विधीयते । (अस्मिन् सूत्रे 'हलः' इति न अनुवर्तते, अतः अयमादेशः सर्वेभ्यः धातुभ्यः भवितुमर्हति ।) यथा - 'गृभाय जिह्वया मधु' (ऋग्वेदः 8.17.5) - अत्र 'गृभाय' एतत् रूपम् ग्रह्-धातोः लोट् -लकारस्य मध्यमपुरुषैकवचनस्य अस्ति । अस्य प्रक्रिया इयम् - ग्रह् + लोट् [**लोट् च** (3.3.162) इत्यनेन लोट्-लकारः] → ग्रह् + सिप् [**तिप्तस्झि..** (3.4.78) इत्यनेन मध्यमपुरुषैकवचनस्य विवक्षायाम् 'सिप्' प्रत्ययः] → ग्रह् + श्ना + सिप् [सार्वधातुके प्रत्यये परे **क्र्यादिभ्यः श्ना** (3.1.73) इति विकरणप्रत्ययः 'श्ना'] → ग्रह् + श्ना + हि [**सेर्ह्यपिच्च** (3.4.87) इत्यनेन सि-प्रत्ययस्य हि-आदेशः] → ग्रह् + शायच् + हि [**छन्दसि शायजपि** (3.1.84) इति श्ना-प्रत्ययस्य वेदानां विषये शायच्-आदेशः] → ग्रह् + आय + हि [इत्संज्ञालोपः] → गृ अह् + आय + हि [**ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च** (6.1.16) इति रेफस्य सम्प्रसारणम् ऋकारः] → गृह् + आय + हि **सम्प्रसारणाच्च** (6.1.108) इति ऋकार-अकारयोः पूर्वरूप-एकादेशः ऋकारः ।] → गृह् + आय [**अतो हेः** (6.4.105) इति अदन्तात् परस्य हि-प्रत्ययस्य लोपः] → गृभ् + आय [ अनेन वार्त्तिकेन हकारस्य भकारः] → गृभाय । वेदेषु शानच्-आदेशे कृते अपि रूपाणि दृश्यते । यथा - बधान देव सवितः (शतपथब्राह्मणम् 1.2.4.16) । अत्र 'बधान' इति रूपम् लौकिकसंस्कृतवत् एव शानच्-आदेशे कृते सिद्ध्यति । अत्र एकम् वार्तिकमपि ज्ञातव्यम् - । इत्युक्ते, वेदेषु हि-प्रत्यये परे अपि शायच्-आदेशः भवितुमर्हति, अन्येषु प्रत्ययेषु परेषु अपि शायच्-आदेशः भवितुमर्हति । यथा - 'मही क्षेमं रोदसी अस्कभायत्' (अथर्ववेदः 4.1.3) - अत्र स्कम्भ् धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपे अपि 'शायच्' आदेशः कृतः दृश्यते । Sutrartha (English) ------------------- The श्ना प्रत्यय following a हल् letter is seen converted either to शायच् or शानच् when followed by the 'हि' प्रत्यय. Vasu English Summary -------------------- In the छन्दस् (Vedas), शायच् is also the substitute of श्ना after the roots ending in consonants, when हि follows. Vasu English Translation ------------------------ In the छन्दस् (Vedas), शायच् is also the substitute of श्ना after the roots ending in consonants, when हि follows. Thus गृभाय जिह्वया मधु, (*Rig Veda* VIII.I7.5). The affix शानच् is also employed; as बधान पशून् 'kill the beasts'. Bhashya ------- छन्दसि शायजपि (701) (428 श्नाविकरणस्य शायजादेशविधिसूत्रम् ॥ 3.1.4 आ. 16 ) (1872 अहौशायज्विधिवार्तिकम् ॥ 1 ॥) - शायच् छन्दसि सर्वत्र- (भाष्यम्) शायच् छन्दसि सर्वत्रेति वक्तव्यम् ॥ क्व सर्वत्र?। हौ चाहौ च किं प्रयोजनम्?। महीरस्कभायद्, यो अस्कभायद् उद्गृभायत उन्मथायतेत्येवमर्थम् ॥ छन्दसि शायजपि ॥ 84 ॥ Kashika ------- छन्दसि विषये श्नः शायजादेशो भवति, शानजपि। गृ॒भा॒य जि॒ह्वया॒ मधु॑ (ऋ० ८.१७.५)। शानचः खल्वपि — ब॒धा॒न दे॑व (मा०सं० १.२५)॥ Siddhanta Kaumudi ----------------- अपिशब्दाच्छानच् । (वार्तिकम्) । गृभाय जिह्वया मधु (गृ॒भा॒य जि॒ह्वया॒ मधु॑) । बधान देव सवितः (ब॒धान॑ देव सवितः) । अनिदितां - (SK415) इति बध्नातेर्नलोपः । गृभ्णामि ते (गृ॒भ्णामि॑ ते) । मध्वा जभार (मध्वा॑ ज॒भार॑) ॥ Padamanjari ----------- च्छन्दसि शायजपि॥ गृभायेति। ग्रहिज्यादिसूत्रेण संप्रसारणम्,'हृग्रहोर्भश्च्छन्दसि' इति हकारस्य भकारः। बधानेति।'बन्ध बन्धने' ,ठनिदिताम्ऽ इति नलोपः॥ Nyaas ----- `अत्रापि चित् - शित्करणयोः पूर्वोक्तमेव प्रयोजनम्। `{नास्ति काशिकायाम्।} गृहाण्` इति। `ग्रहण उपादाने` (धातुपाठः-1533) लोट्, सिप्; हिः, ततः श्ना,तस्य शानच्, हेर्लुक् (6.4.105) , ग्रह्रादीना (6.1.16) सम्प्रसारणम्। `गृभाय` इति, क्वचित् पाठः। तत्र `ह्मग्रहोर्भश्छन्दसि` (वा। 8.2.32) इति भत्वम्। `बधान`इति। `बन्ध बन्धने` (धातुपाठः-1508) `अनिदिताम्` (6.4.24) इति नलोपः। शेषं पूर्ववत्॥ Prakriyasarvasvam ----------------- हलः परस्य श्ना प्रत्ययस्य हौ परे शायच् शानजपि स्यात् । 'अतो हेः' (६-४-१०५) इति हिलोपोः । गृभाय जिह्वया । हृग्रहोर्भश्छन्दसि (वा.) इति भः । गृहाणाङ्गान्वह्वे३ ।