31077: तुदादिभ्यः शः¶
Padacheda: तुदादिभ्यः | S | 5 | 3 |
शः | S | 1 | 1 |
Sutrartha¶
सार्वधातुके कर्तरि प्रत्यये परे तुदादिगणस्य धातोः परः श-प्रत्ययः विधीयते ।
किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः (3.4.69) अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः । कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे तुदादिगणस्य धातोः परः ‘श’ इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे शकारस्य लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञा भवति, अग्रे तस्य लोपः (1.3.9) इत्यनेन तस्य लोपः भवति । अतः केवलम् ‘अ’ इति अवशिष्यते । उदाहरणद्वयम् - 1. तुदँ (व्यथने) - इति तुदादिगणस्य प्रथमः धातुः । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिदध्यति - तुद् + लट् [वर्तमाने लट् (3.2.123) इति लट्-लकारः] → तुद् + तिप् [तिप्तस्झि… (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘तिप्’ प्रत्ययः] → तुद् + श + ति [सार्वधातुके प्रत्यये परे तुदादिभ्यः शः (3.1.77) इति विकरणप्रत्ययः ‘श’ ] → तुद् अ ति [इत्संज्ञालोपः] → तुदति अत्र प्रक्रियायाम् ‘तुद् + तिप्’ इत्यत्र वस्तुतः परत्वात् पुगन्तलघूपधस्य च (7.3.86) इत्यनेन उकारस्य गुणादेशः भवितुमर्हति, परन्तु तं बाधित्वा नित्यत्वात् तुदादिभ्यः शः (3.1.77) इत्यनेन विकरणप्रत्ययः ‘श’ एव विधीयते इति स्मर्तव्यम् । अतएव पदमञ्जर्यामुच्यते - ‘तुदतीति स्थिते परत्वात् प्राप्तमपि गुणम् गुणं नित्यः शः बाधते’ । 2. लिखँ (अक्षरविन्यासे) - इति तुदादिगणस्य धातुः । तस्य ‘शतृ’ इति सार्वधातुके प्रत्यये परे - लिख् + शतृ [लटः शतृशानचौ अप्रथमासमानाधिकरणे (3.2.124) इत्यनेन शतृ-प्रत्ययः] → लिख् + श + शतृ [सार्वधातुके प्रत्यये परे तुदादिभ्यः शः (3.1.77) इति विकरणप्रत्ययः ‘श’ ] → लिख् + अ + अत् [इत्संज्ञालोपः] → लिखत् [अतो गुणे (6.1.97) इति गुण-एकादेशः अकारः] ज्ञातव्यम् - कर्तरि शप् (3.1.68) इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । तुदादिगणस्य धातुभ्यः तस्य अपवादरूपेण श-प्रत्ययः भवति । विशेषः - भ्वादिगणस्य विकरणप्रत्ययस्य दृश्यस्वरूपमपि ‘अ’ एव । तर्हि तुदादिगणस्य भ्वादिगणस्य च विकरणप्रत्ययोर्मध्ये को भेदः? भ्वादिगणस्य विकरणप्रत्ययः ‘शप्’ इति पित् अस्ति , तथा तुदादिगणस्य विकरणप्रत्ययः ‘श’ इति अपित् अस्ति । अपित्-त्वात् सार्वधातुकमपित् (1.2.4) इत्यनेन अयं प्रत्ययः ङित्वत् भवति । ङित्वत्-भावस्य प्रामुख्येन त्रीणि कार्याणि सन्ति यानि तुदादिगणस्य धातुषु दृश्यन्ते । तानि एतादृशानि - 1. गुणवृद्धीनिषेधः - ङित्-प्रत्यये परे क्ङिति च (1.1.5) इत्यनेन अङ्गस्य गुणः वृद्धिः वा निषिध्यते । अतः ‘लिख् + श + ति’ इत्यत्र पुगन्तलघूपधस्य च इत्यनेन गुणः भवितुम् न अर्हति । 2. सम्प्रसारणम् - ङित् प्रत्यये परे तुदादिगणस्य केषुचन धातुषु सम्प्रसारणम् भवति । यथा - ‘प्रच्छ् + श + ति’ इत्यत्र पकारात् परस्य रेफस्य सम्प्रसारणे ऋकारादेशः भवति, अतः ‘पृच्छति’ इति रूपं सिद्ध्यति । 3. अनिदित्-धातुषु उपधा-नकारलोपः - ङित्-प्रत्यये परे अनिदित्-धातुषु अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन उपधानकारस्य लोपः भवति । यथा - ‘तृन्फँ तृप्तौ’ अयं धातुः अनिदित् अस्ति (अस्मिन् धातौ नकारः औपदेशिक-अवस्थायाम् एव अस्ति) । अतः श-प्रत्यये परे अस्य धातोः नकारलोपः भवति । सम्पूर्णा प्रक्रिया इयम् - तृन्फ् + लट् [वर्तमाने लट् (3.2.123) इति लट्-लकारः] → तृन्फ् + तिप् [तिप्तस्झि… (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘तिप्’ प्रत्ययः] → तृन्फ् + श + ति [सार्वधातुके प्रत्यये परे तुदादिभ्यः शः (3.1.77) इति विकरणप्रत्ययः ‘श’ ] → तृफ् + अ + ति [अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन उपधानकारस्य लोपः] → तृन् फ् + अ + ति [शे मुचादीनाम् (7.1.59) इत्यनेन नुमागमः ] → तृंफति [नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः] → तृम्फति [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः मकारः] भ्वादिगण-तुदादिगणयोः विकरणयोर्मध्ये अन्यः अपि एकः विशेषः अस्ति । भ्वादिगणस्य विकरणप्रत्ययः ‘शप्’ इत्यस्य अकारः अनुदात्तौ सुप्पितौ (3.1.4) इत्यनेन अनुदात्तसंज्ञकः अस्ति, तथा तुदादिगणस्य विकरणप्रत्ययः ‘श’ इत्यस्य अकारः आद्युदात्तश्च (3.1.3) इत्यनेन उदात्तसंज्ञकः अस्ति ।
Sutrartha (English)¶
A verb belonging to the तुदादिगण gets the विकरणप्रत्यय ‘श’ in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
Vasu English Summary¶
The affix श is used after the roots of तुदादि class, in denoting the agent when a सार्वधातुक affix follows.
Vasu English Translation¶
The affix श is used after the roots of तुदादि class, in denoting the agent when a सार्वधातुक affix follows. This debars शप्. The indicatory श makes this affix a sarvadhatuka affix. As तुद + श + ति = तुद + अ + ति = तुदति (1.2.4) ‘he pains or torments’.
Kashika¶
तुद व्यथने इत्येवमादिभ्यो धातुभ्यः शप्रत्ययो भवति। शपोऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। तुदति। नुदति॥
Siddhanta Kaumudi¶
{$ {!1281 तुद!} व्यथने$} ॥ इतः षट् स्वरितेतः ॥ तुदति । तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त ।{$ {!1282 णुद!} प्रेरणे$} । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता ।{$ {!1283 दिश!} अतिसर्जने$} । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत् । अदिक्षत ।{$ {!1284 भ्रस्ज!} पाके$} । ग्रहिज्या - (SK2412) इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति । भृज्जते ॥
Laghu Siddhanta Kaumudi¶
॥ {$ {! 1 तुद !} व्यथने $} (धातुपाठे (06.0001)) ॥ शपोऽपवादः। तुदति, तुदते। तुतोद। तुतोदिथ। तुतुदे। तोत्ता। अतौत्सीत्, अतुत॥॥ {$ {! 2 णुद !} प्रेरणे $} (धातुपाठे (06.0002)) ॥ नुदति, नुदते। नुनोद। नोत्ता। ॥ {$ {! 3 भ्रस्ज !} पाके $} (धातुपाठे (06.0004)) ॥ ग्रहिज्येति सम्प्रसारणम्। सस्य श्चुत्वेन शः। शस्य जश्त्वेन जः। भृज्जति, भृज्जते॥
Balamanorama¶
तुदादिभ्यः शः - तुदादिभ्यः शः । कत्र्रर्थे सार्वधातुके परे तुदादिभ्यः शः स्यात्स्वार्थे इत्यर्थः । शबपवादः । तुदतीति । लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् ‘सार्वधातुकमपि’ दिति ङित्त्वान् गुण इति भावः । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमाल्लिटिथल्यपि नित्यमिट् ।तदाह — तुतोदिथेति । तोत्तेति । अनिडिति भावः । अतौत्सीदिति । हलन्तलक्षणा वृद्धिः । णुदधातुर्णोपदेशः । अनिट् ।दिशधातुरप्यनिट् । देष्टेति । व्रश्चेति षत्वे ष्टुत्वम् । स्ये तुषढो॑रिति षस्य कत्वं च — देक्ष्यति । दिक्षीष्टेति । ‘लिङ्सिचौ’ इति कित्त्वान्न गुणः । ‘शल इगुपधा’ दिति क्सं मत्वाह — अदिक्षत् । अदिक्षतेति । भ्रस्ज पाके । अनिट् । भ्रस्ज अ तीति स्थिते आह — ग्रहिज्येति । ङित्त्वाद्रेफस्य संप्रसारममृकारः, पूर्वरूपं चेति भावः । भृस्ज् अ तीति स्थिते आह — सस्येत्यादि । णलि भ्रस्ज् अ इति स्थिते —
Tattvabodhini¶
तुदादिभ्यः शः - तुदतीति । परमपि लघूपधगुणं बाधित्वा नित्यत्वाच्छ इत्येके । अकृतव्यूहपरिभाषया गुणो न प्रवर्तते इत्यन्ये । भ्रस्ज पाके । भर्जनरुपः पाकोऽत्र धात्वर्थो न त्वोदनादेः पाकः, तत्र प्रयोगाऽभावादित्याहुः ।भ्रस्जो॑ इति केषांचित्पाठे तुओदितश्चे॑ति निष्ठानत्वप्रसक्त्या भृष्टः भृष्टवानिति न सिध्येत् ।
Padamanjari¶
तुदादिभ्यः शः॥ तुदतीति। तुदतीति स्थिते परत्वात्प्राप्तमपि गुणं नित्यः शो बाधते॥
Prakriyasarvasvam¶
एभ्यः शब्विषये शः स्यात् । इति मध्येऽपि शः । लिप् अ अ । विद् अ अ ।