31078: रुधादिभ्यः श्नम्

Padacheda: रुधादिभ्यः | S | 5 | 3 |

श्नम् | S | 1 | 1 |

Sutrartha

सार्वधातुके कर्तरि प्रत्यये परे रुधादिगणस्य धातोः परः श्नम्-प्रत्ययः विधीयते ।

किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः (3.4.69) अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः । कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे रुधादिगणस्य धातुभ्यः ‘श्नम्’ इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे मकारस्य हलन्त्यम् (1.3.3) इत्यनेन तथा शकारस्य लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञा भवति, अग्रे तस्य लोपः (1.3.9) इत्यनेन तयोः लोपः भवति । अतः केवलम् ‘न’ इति अवशिष्यते । इदम् गणविकरणम् ‘मित्’ अस्ति, अतः मिदचोऽन्त्यात्परः (1.1.47) इत्यनेन धातोः अन्तिम-स्वरात् अनन्तरमागच्छति । यथा - 1. रुधिँर् (आवरणे) इति रुधादिगणस्य प्रथमः धातुः । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिदध्यति - रुधिँर् + लट् [वर्तमाने लट् (3.2.123) इति लट्-लकारः] → रुध् + तिप् [तिप्तस्झि… (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘तिप्’ प्रत्ययः] → रु श्नम् ध् + ति [सार्वधातुके प्रत्यये परे रुधादिभ्यः श्नम्**(3.1.78) इति विकरणप्रत्ययः ‘श्नम्’ । अयम् प्रत्ययः धातोः अन्तिमवर्णात् पूर्वमागच्छति ।] → रु न ध् धि [**झषस्तथोर्धोऽधः (8.2.40) इति तकारस्य धकारः] → रुणध्धि [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्]

→ रुणद्धि [झलां जश् झशि (8.4.53) इति जश्त्वम्]

→ रुणद्धि 2. छिदिँर् (द्वैधिकरणे) इति रुधादिगणस्य धातुः । अस्य शानच्-प्रत्यये परे प्रकिया इयम् - छिद् + शानच् [लटः शतृशानचौ अप्रथमासमानाधिकरणे (3.2.124) इत्यनेन शानच्-प्रत्ययः] → छि श्नम् द् आन [सार्वधातुके प्रत्यये परे रुधादिभ्यः श्नम्**(3.1.78) इति विकरणप्रत्ययः ‘श्नम्’ । अयम् प्रत्ययः धातोः अन्तिमवर्णात् पूर्वमागच्छति ।] → छि न् द् आन [**श्नसोरल्लोपः (6.4.111) इति सार्वधातुके ङित्-प्रत्यये परे नकारात्-परस्य अकारस्य लोपः] → छिन्दान ज्ञातव्यम् - 1. श्नम्-गणविकरणस्य अकारस्य ङित्-सार्वधातुके प्रत्यये परे श्नसोरल्लोपः (6.4.111) इत्यनेन लोपः भवति । यथा - छिद् + श्नम् + अन्ति → छि न् द् अन्ति = छिन्दन्ति । 2. कर्तरि शप् (3.1.68) इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । रुधादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्नम्-प्रत्ययः भवति ।

Sutrartha (English)

A verb belonging to the रुधादिगण gets the विकरणप्रत्यय ‘श्नम्’ in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.

Vasu English Summary

The affix श्नम् comes after the roots of the रुधादिगणः (7th Conjugation), in denoting an agent when a सार्वधातुक affix follows.

Vasu English Translation

The affix श्नम् comes after the roots of the रुधादिगणः (7th Conjugation), in denoting an agent when a सार्वधातुक affix follows. This debars शप् The indicatory म् of the affix श्नम् shows that the affix न is to be placed after the last vowel of the root; see sutra (1.1.47). As रुध् + श्नम् + ति = रुध् + न + ति = रु + न + ध् + ति = रुणद्धि ‘he obstructs’. So also भिनत्ति ‘he splits’. The indicatory श is for the sake of sutra (6.4.23).

Bhashya

रुधादिभ्यः श्नम् (695) (424 श्नम्विधिसूत्रम्॥ 3.1.4 आ. 12) (शित्वप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थः शकारः? (प्रयोजनभाष्यम्) सार्वधातुकार्थः। शित्सार्वधातुकम् इति सार्वधातुकसंज्ञा। सार्वधातुकमपिद् इति ङित्त्वम्। ङितीति गुणप्रतिषेधो यथा स्याद् - भिनत्ति छिनत्तीति॥ (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। सार्वधातुकार्धधातुकयोरङ्गस्य गुण उच्यते। यस्माच्च प्रत्ययविधिस्तदादि प्रत्यये परतोऽङ्गसंज्ञं भवति। यस्माच्च प्रत्ययविधिः न तत् प्रत्यये परतः। यच्च प्रत्यये परतो न तस्मात्प्रत्ययविधिः॥ (प्रयोजनानन्तरभाष्यम्) इदं तर्हि प्रयोजनम् - आर्धधातुकसंज्ञा मा भूदिति । किञ्च स्यात् ? वलादिलक्षण इट् प्रसज्येत । (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। वलादेरार्धधातुकस्याङ्गस्येडुच्यते। यस्माच्च प्रत्ययविधिः तदादिप्रत्यये परतोङ्गसंज्ञं भवति। यस्माच्चात्र प्रत्ययविधिः न तत् प्रत्यये परतः। यच्च प्रत्यये परतो न तस्मात् प्रत्ययविधिः। (उत्तरभाष्यम्) अत उत्तरं पठति - (1862 समाधानवार्तिकम्॥ 1 ॥) - श्रमि शित्करणं प्वादिह्रस्वार्थम् - (भाष्यम्) श्रमि शित्करणं क्रियते। प्वादिह्रस्वार्थम्। प्वादीनां शिति ह्रस्वत्वं यथा स्यात् - -पृणति मृणतीति॥ (1863 समाधाननिरासवार्तिकम्॥ 2 ॥) - न वा धात्वन्यत्वात् - (भाष्यम्) न वा कर्तव्यम्। किं कारणम्। धात्वन्यत्वात्। धात्वन्तरे पृणिमृणी॥ (आक्षेपभाष्यम्) यत्तर्हि न धात्वन्तरं, यत्र भूम्यां वृणसे॥ (आक्षेपबाधकभाष्यम्) नैष श्नम्। श्न एवैतद्ध्रस्वत्वम्॥ (आक्षेपसाधकभाष्यम्) यदि श्नो ह्रस्वत्वम्, स्वरो न सिध्यति - वृणसे - अदुपदेशाल्लसार्वधातुकमनुदात्तं भवतीति एष स्वरो न प्राप्नोति। तस्माच्छ्वमेषः॥ (आक्षेपबाधकभाष्यम्) यदि श्नम् श्नसोरल्लोपः प्रसज्येत॥ (आक्षेपसाधकभाष्यम्) उपधाया इति वर्तते। अनुपधात्वान्न भविष्यति॥ (आक्षेंपबाधकभाष्यम्) न शक्यमुपधाया इति विज्ञातुम्। इह हि दोषः स्यात्। अङ्क्त अञ्जन्तीति। तस्माच्छ्व एवैतद् ह्रस्वत्वम्॥ (स्वरानुपपत्तिभाष्यम्) यद्येवम्। स्वरः कथम्? (1864 स्वरोपपादकवार्तिकम्॥ 3 ॥) - बहुलं पित्सार्वधातुकं छन्दसि - (भाष्यम्) सार्वधातुकस्य छन्दसि बहुलं पित्त्वं वक्तव्यम्। पितश्चैवापित्त्वं दृश्यते। अपितश्च पित्त्वम्। पितस्तावदपित्त्वम् - मातरं प्रमिणीमि जनित्रीम्। अपितश्च पित्त्वम् - शृणोत ग्रावाणः। (गौरवभाष्यम्) तत्तर्हि श्नो ह्रस्वत्वं वक्तव्यम्। (इष्टापत्तिभाष्यम्) अवश्यं छन्दसि ह्रस्वत्वं वक्तव्यम्। उपगायन्तु मां पत्नयो गर्भिणयो युवतय इत्येवमर्थम्। (प्रयोजनान्तरभाष्यम्) विशेषणार्थं तर्हि॥ क्व विशेषणार्थेनार्थः॥ श्नान्नल्लोप इति। नान्नल्लोप इतीयत्युच्यमाने यज्ञानां यत्नानामित्यत्रापि प्रसज्येत॥ (प्रयोजनान्तरबाधकभाष्यम्) दीर्घत्वे कृते न भविष्यति॥ (प्रयोजनान्तरसाधकभाष्यम्) इदमिह संप्रधार्यं दीर्घत्वं क्रियतां नान्नल्लोप इति किमत्र कर्तव्यम्? परत्वान्नलोपः स्यात्। तस्माच् शकारः कर्तव्यः॥ (आक्षेपभाष्यम्) अत क्रियमाणेऽपि शकारे इह कस्मान्न भवति? विश्नानां प्रश्नानामिति। (समाधानभाष्यम्) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति॥ रुधादिभ्यः॥ 78 ॥

Kashika

रुधिर् आवरणे इत्येवमादिभ्यो धातुभ्यः श्नम् प्रत्ययो भवति। शपोऽपवादः। मकारो देशविध्यर्थः। शकारः श्नान्नलोपः (६.४.२३) इति विशेषणार्थः। रुणद्धि। भिनत्ति॥

Siddhanta Kaumudi

{$ {!1438 रुधिर्!} आवरणे$} । नव स्वरितेत इरितश्च ॥ शपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि ।श्नसोरल्लोपः (SK2469) । णत्वस्यासिद्धत्वादनुस्वारः परसवर्णः । तस्यासिद्धत्वाण्णत्वं न न पदान्त - (SK51) इति सूत्रेणानुस्वारपरसवर्णयोरल्लोपो न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रुणद्धु । रुन्धात् । रुन्धि । रुणधानि । रुणधै । अरुणत् । अरुन्धाम् । अरुणत् । अरुणः । अरुणधम् । अरुधत् । अरौत्सीत् । अरुद्ध ।{$ {!1439 भिदिर्!} विदारणे$} । भिनत्ति । भिन्ते । भेत्ता । भेत्स्यति । भेत्स्यते । अभिनत् । अभिन्ताम् । अभिनदम् । अभिन्त । अभिदत् । अभैत्सीत् । अभित्त ।{$ {!1440 छिदिर्!} द्वैधिकरणे$} । अच्छिदत् । अच्छैत्सीत् । अच्छित्त ।{$ {!1441 रिचिर्!} विरेचने$} । रिणक्ति । रिङ्क्ते । रिरेच । रिरिचे । रेक्ता । अरिणक् । अरिचत् । अरैक्षीत् । अरिक्त ।{$ {!1442 विचिर्!} पृथग्भावे$} । विनक्ति । विङ्क्ते ।{$ {!1443 क्षुदिर्!} संपेषणे$} । क्षुणत्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौत्सीत् । अक्षुत्त ।{$ {!1444 युजिर्!} योगे $}। योक्ता ।{$ {!1445 उच्छृदिर्!} दीप्तिदेवनयोः$} । छृणत्ति । छृन्ते । चच्छर्द । सेसिचि - (SK2506) इति वेट् । चच्छृदिषे । चच्छृत्से । छर्दिता । छर्दिष्यति । छर्त्स्यति । अच्छृदत् । अच्छर्दीत् । अच्छर्दिष्ट ।{$ {!1446 उतृदिर्!} हिंसानादरयोः$} । तृणत्तीत्यादि छृणत्तिवत् ।{$ {!1447 कृती!} वेष्टने$} । परस्मैपदी । कृणत्ति । आर्धधातुके तौदादिकवत् ।{$ {!1448 ञिइन्धी!} दीप्तौ$} ॥ त्रय आत्मनेपदिनः ॥

Laghu Siddhanta Kaumudi

॥ {$ {! 1 रुधिर् !} आवरणे $} (धातुपाठे (07.0001)) ॥ शपोऽपवादः। रुणद्धि। श्नसोरल्लोपः। रुन्धः। रुन्धन्ति। रुणत्सि। रुन्धः। रुन्ध। रुणध्मि। रुन्ध्वः। रुन्ध्मः। रुन्धे। रुन्धाते। रुन्धते। रुन्त्से। रुन्धाथे। रुन्ध्वे। रुन्धे। रुन्ध्वहे। रुन्ध्महे। रुरोध, रुरुधे। रोद्धासि, रोद्धासे। रोत्स्यसि, रोत्स्यसे। रोत्स्यति, रोत्स्यते। रुणद्धु, रुन्धात्। रुन्धाम्। रुन्धन्तु। रुन्धि। रुणधानि। रुणधाव। रुणधाम। रुन्धाम्। रुन्धाताम्। रुन्धताम्। रुन्त्स्व। रुणधै। रुणधावहै। रुणधामहै। अरुणत्, अरुणद्। अरुन्धताम्। अरुन्धन्। अरुणः, अरुणत्, अरुणद्। अरुन्ध। अरुन्धाताम्। अरुन्धत। अरुन्धाः। रुन्ध्यात्। रुन्धीत। रुध्यात्, रुत्सीष्ट। अरुधत्, अरौत्सीत्। अरुद्ध। अरुत्साताम्। अरुत्सत। अरोत्स्यत्, अरौत्सीत्। अरुद्ध। अरुत्साताम्। अरुत्सत। अरोत्स्यत्, अरोत्स्यत॥ {$ {! 2 भिदिर् !} विदारणे $} (धातुपाठे (07.0002)) ॥ {$ {! 3 छिदिर् !} द्वैधीकरणे $} (धातुपाठे (07.0003)) ॥ {$ {! 4 युजिर् !} योगे $} (धातुपाठे (07.0007))॥ {$ {! 5 रिचिर् !} विरेचने $} (धातुपाठे (07.0004)) ॥ रिणक्ति, रिङ्क्ते। रिरेच। रेक्ता रेक्ष्यति अरिणक्। अरिचत्, अरैक्षीत्, अरिक्त॥ {$ {! 6 विचिर् !} पृथग्भावे $} (धातुपाठे (07.0005)) ॥ विनक्ति विङ्क्ते॥ {$ {! 7 क्षुदिर् !} संपेषणे $} (धातुपाठे (07.0006)) ॥ क्षुणत्ति, क्षुन्ते। क्षोत्ता॥ अक्षुदत्, अक्षौत्सीत्, अक्षुत्त। ॥ {$ {! 8 उच्छृदिर् !} दीप्तिदेवनयोः $} (धातुपाठे (07.0008)) ॥ छृणत्ति छृन्ते। चच्छर्द। सेऽसिचीति वेट्। चच्छृदिषे, चच्छृत्से। छर्दिता। छर्दिष्यति, छर्त्स्यति। अच्छृदत्, अच्छर्दीत्, अच्छर्दिष्ट॥ {$ {! 9 उत्तृदिर् !} हिंसानादरयोः $} (धातुपाठे (07.0009)) ॥ तृणत्ति, तृन्ते॥ {$ {! 10 कृती !} वेष्टने $} (धातुपाठे (07.0010)) ॥ कृणत्ति॥ {$ {! 11-12 तृह, हिसि !} हिंसायाम् $} (धातुपाठे (07.0018), (07.0019)) ॥

Balamanorama

रुधादिभ्यः श्नम् - रुधादिभ्यः श्नम् । कत्र्रर्थे सार्वधातुके परे रुधादिभ्यः श्नम्प्रत्ययः स्यात्स्वार्थे इत्यर्थः । तदाह-शपोऽपवाद इति । श्नमि शमावितौ । मित्त्वस्य फलमाह - मित्त्वादन्त्यादचः पर इति । प्रत्ययत्वाच्छकारस्येत्संज्ञा । शकारनिर्देशस्तु ‘श्नसोरल्लोपः’ ‘श्नान्नलोपः’ इत्यत्र विशेषणाऽर्थः, नतु सार्वधातुकसंज्ञार्थः, फलाऽभावात् । न च ‘सार्वधातुकमपि’ दिति ङित्त्वे गुणनिषेधः फलमिति शङ्कयं, श्नमः पूर्वस्य इगन्तस्य अङ्गत्वाऽभावादेव गुणाऽप्रसक्तेः । ननु श्नमः प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् श्नमि रोणद्धीति स्यादित्यत आह - नित्यत्वाद्गुणं बाधते इति । कृते अकृते च गुणे प्रवृत्तेः श्नम् नित्यः । तस्मिन् सति लघूपधत्वाऽभावान्न गुण इति भावः । रुणद्धीति । रुनध् तीति स्थिते ‘झषस्तथो’ रितधत्वे णत्वमिति भावः । रुनध् तस् इति स्थिते प्रक्रियां दर्शयति - श्नसोरल्लोप इति । क्ङिति सार्वधातुके तद्विधेरिति भावः । रुन्ध् तस् इति स्थिते नस्य णत्वमाशङ्क्याह - मत्वस्यासिद्धत्वादिति । ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह - तस्यासिद्धत्वादिति । परसवर्णसंपन्नस्येत्यर्थः । नन्विह अल्लोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वात् कथमनुस्वारपरसवर्णावित्यत आह - न पदान्तेति । रुन्द्ध इति ।झषस्तथो॑रिति धः । रुन्धन्तीति । रुणत्सि रुन्द्धः रुन्द्ध । रुणध्मि रुन्ध्वः रुन्ध्मः । रुन्द्धे इति । रुन्धाते रुन्धते । रुन्त्से रुन्धाथे रुन्द्ध्वे । रुन्धे रुन्ध्वहे रुन्ध्महे । रुरोध । रुरोधिथ । अरुणदिति । लङि हल्ङ्यादिना तिपो लोपः । धस्य चर्त्वविल्पः । सिपि तु हल्ङ्यादिना लुप्तेदश्चे॑ति रुत्वविकल्पं मत्वाह -अरुणत् अरुण इति । रुन्ध्यात् । रुन्धीत । रुत्सीष्ट । इरित्त्वादङ्विकल्पं मत्वाह — अरुधत् अरौत्सीदिति । अङभावे सिचि हलन्तलक्षणा वृद्धिः । लुङस्तह्राह - अरुद्धेति ।जलो झली॑ति सिज्लोपः । भिनत्तीति । भिन्त्तः भिन्दन्ति । भिनत्सि भिन्त्त्थः भिन्त्थ । भिनद्मि भिन्द्वः भिन्द्मः । भिन्त्ते इति । भिन्दाते भिन्दते । भिन्त्से भिन्दाथे । भिन्द्ध्वे । भिन्दे भिन्द्वहे । बिभेद । बिभेदिथ । बिभिदिव । बिभिदे । बिभिदिषे । अभिनत् अभिन इति । ‘दश्चे’ ति रुर्वेति भावः । अभिन्त्तेति । लङि तङि रूपम् । लुङः परस्मैपदे आह - अभिदत् अभैत्सीदिति । इरित्त्वादङ्वेति भावः । लुङि तङ्याह अभित्तेति । ‘झलो झली’ ति सिज्लोपः । अभित्सातामित्यादि । उच्छृदिरिति । उकार इत् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थः । ञि इन्धी दीप्तौ । ईदित्त्वं ‘श्वीदितः’ इत्येतदर्थम् । श्नमि कृते इन न् ध् ते इति स्थिते -

Tattvabodhini

रुधादिभ्यः श्नम् - रुधादिभ्यः श्नम् । प्रत्ययत्वेऽपि मित्त्वादन्त्यादचः परः । प्रत्ययसंज्ञाफलं तु शस्येत्संज्ञा । शस्योच्चारमं तुश्नसोरल्लोपः॑,श्नान्नलोपः॑, इत्यत्र विशेषणार्थ न तु सार्वधातुकसंज्ञार्थं, फलाऽभावात् । न चाऽपित्सार्वधातुकस्य ङित्त्वे गुणनिषेधः फलमिति शङ्क्यम्िगन्तस्याङ्गत्वाऽभावात् । अरुण इति । सिपिदश्चे॑ति रुर्वा । एवमभिन इत्यत्रापि । उच्छृदिर् । उकारः क्त्वायामिड्विकल्पार्थः । छृत्वा । छर्दित्वा । इट्पक्षेन क्त्वा से॑ डिति कित्त्वनिषेधाद्गुणः ।

Padamanjari

रुधादिभ्यः श्नम्॥ श्नम्प्रत्ययो भवतीति। यद्यपि प्रत्ययसंज्ञायां प्रकृत्युपपदोपाधिकारागमान्वर्जयित्वेत्युक्तम्, तथापि विधीयमानत्वेन प्राधान्यात् शबादिवदर्थवत्वाच्श्नमः प्रत्ययसंज्ञा भवतीति भावः। तेन शकारस्य प्रत्ययादित्वादित्संज्ञा। शपोऽपवाद इति। देशभेदेनोभयोः सत्यपि सम्भवे नाप्राप्ते तस्मिन्नारभ्यमाणत्वादेकार्थत्वाच्चापवादत्वम्। विकरणा हि सार्वधातुकस्य धातोश्चार्थाभिधाने सहायतां प्रतिपद्यन्ते। शकारः श्रान्नलोप इति विशेषणार्थ इति। अथार्द्धधातुकसंज्ञा मा भूदित्येवमर्थः कस्मान्न भवति? सत्यां हि तस्यामनक्ति, भनक्ति - ठतो लोपःऽस्यात्, रुणद्धि, गुणः स्यात्; हिनस्ति, तृणेढि - इडागमः स्यात्;’नेड्वशि कृति’ इत्येतदपि नास्ति, अकृत्वात्? सर्वमेतत् श्रमः पूर्वभागस्यानङ्गत्वान्न भविष्यति। कथमङ्गत्वम्? यस्मात्प्रत्ययविधिरिति। कोऽर्थः? प्रत्यये विधीयमाने यत्पञ्चम्या निर्द्दिष्ट्ंअ धातोः प्रारिपदिकादिति तदादि तस्मिन्प्रत्यये परतोऽङ्गमिति। यच्चाम्या निर्द्दिष्ट्ंअ रुधादिभ्यो धातुभ्य इति न तस्मात्प्रत्ययः, यस्माच्च प्रत्ययः पूर्वभागात्स न तस्मिन्विधीयमाने पञ्चम्या निर्द्दिष्टः, तस्माच्छनादिति वशेषिणार्थ एव शकारः।’नान्नलोपः’ इत्युच्यमाने’यजयाचयतविच्छप्रच्छरक्षो नङ्’ यज्ञानाम्, यत्नानामत्रापि प्राप्नोति,’नामि’ इति दीर्घत्वे कृते नादिति व्यपदेशाभान्न भविष्यति, परत्वाल्लोप एव प्राप्नोति। यतु ठतो दीर्घो यञिऽ’सुपि च’ इति दीर्धत्वम्, न च तदत्र प्रवर्तते, किं कारणम्?’सन्निपातलक्षणो विधिरनिमितं तद्विघातस्य’ इति। इहापि तर्हि न स्याद् - वृक्षायेति?’कष्टाय क्रमणे’ इति निर्देशाद्भविष्यति। इहापि तर्हि - यत्नानामिति? निर्द्दिशात्सामान्यापेक्षाया ज्ञापनाद्दीर्घो भविष्यति। एवमपि तस्य पूर्वस्माद्विधौ स्थानिवत्वान्नशब्द एवायमिति नलोपः स्यादेव। तस्माद्विशेषणार्थः शकारः कर्तव्यः। अथ क्रियमाणेऽपि शकारे इह कस्मान्न भवति - विश्नानाम्, प्रश्नानामिति?’लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य ग्रहणम्’ ॥

Prakriyasarvasvam

एभ्यः शप्विषये श्नम्प्रत्ययः स्यात् । प्रत्ययत्वेऽपि मित्त्वादन्त्यादचः परत्वम् । रुनध् ति । ‘झषस्तथोः—’ (८-२-४०) इति धः । णत्वम् । रुणद्धि । रुनध् तस् । श्निति ‘श्नसोरल्लोपः’ (६-४-१११) । तस्य धः । नस्यानुस्वार- परसवर्णौ । ‘झरो झरि—’ (८-४-६५) इति पूर्वधलोपः । परसवर्णस्यासिद्धत्वान्न णत्वम् । रुन्धः । रुन्धन्ति । चत्वम् । रुणत्सि । रुन्धः । रुन्ध । रुणध्मि । रुन्ध्वः । रुन्ध्मः । तङि सर्वत्राप्यल्लोपः । रुन्धे । रुन्धाते । रुन्धते । रुन्त्से । रुन्धाथे । रुन्ध्वे । रुन्धे । रुन्ध्वहे । रुन्ध्महे । कर्मणि रुध्यते । रुन्ध्यात् । रुन्ध्याताम् । रुन्ध्युः । रुन्धीत । रुन्धीयाताम् । रुन्धीरन् । रुन्धीथाः । रुन्धीयाथाम् । रुन्धीध्वम् । रुन्धीय । रुन्धीवहि । रुणद्धु, रुन्धात् । रुन्धन्तु । हेर्धित्वम् । ‘झरो झरि—’ (८-४-६५) रुन्धि, रुन्धात् । रुन्धम् । आटि पित्त्वादल्लोपाभावः । रुणधानि । रुणधाव । रुणधाम् । रुन्धाताम् । रुन्धताम् । रुन्त्स्व । रुन्ध्वम् । रुणधै । रुणधावहै । लङि हल्ङ्यादिलोपः । चत्वम् । अरुणत् अरुणत् । अरुन्धाम् । अरुन्धन् । जश्त्वे कृते ‘दश्च’ (८-२-७५) इति वा रु । अरुणः, अरुणद् । अरुणत् । अरुन्धम् । अमि पित्त्वाद् अरुणधम् । अरुन्ध्व । अरुन्ध । अरुन्धाताम् । अरुन्धत । अरुन्धाः । अरुन्ध्वम् । अरुन्धि । अरुन्ध्वहि । लुङि इरित्त्वादाङ् । अरुधत् । अरुधताम् । अरौत्सीत् । ‘झलो झलि—’ (८-२-२६) । अरौद्धाम् । अरौत्सुः । तङि ‘लिङसिचौ—’ (१-२-११) इति कित्त्वम् । अरुद्ध । अरुत्साताम् । अरुद्धाः । अरुद्ध्वम् । अरुत्सि । अरुत्स्वहि । लिटि रुरोध । रुरुधतुः । रुरुधुः । रुरोधिथ । रुरुधिव । रुरुधे । रुरुधिषे । रुरुधिध्वे । रुरुधिवहे । रुध्यात् । रुत्सीष्ट । रोद्धा । रोत्स्यति । रोत्स्यते । कर्मणि अरोधि । अरुत्साताम् । इत्यादि तद्ववत् । कर्मकर्तरि तु,

Sutra Prayogas

  • शोकाऽपनुदम (भट्टिकाव्यम्): रुधादिभ्यः श्रम् इति श्नम् ।

  • रुणध्मि (भट्टिकाव्यम्): रुधादिभ्यः श्नम् इति श्नम्।