31076: तनूकरणे तक्षः

Padacheda: तनूकरणे | S | 7 | 1 |

तक्षः | S | 5 | 1 |

Sutrartha

कर्तरि सार्वधातुके प्रत्यये परे तक्षूँ (तनूकरणे) अस्मात् धातोः श्नु-विकरणप्रत्ययः विकल्पेन भवति ।

तक्षूँ (तनूकरणे) इति भ्वादिगणस्य धातुः । अस्मात् धातोः कर्तरि शप् (3.1.68) इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण विकल्पेन श्नु-प्रत्ययः विधीयते । श्नु-प्रत्ययस्य अभावे पुनः औत्सर्गिकरूपेण शप्-प्रत्ययविधानम् भवति । यथा - तक्ष्णोति, तक्षति । अस्मिन् सूत्रे ‘तनूकरणे’ इति उक्तमस्ति, अतः भ्वादिगणस्य ‘तक्षँ त्वचने’ अस्य धातोः अयं विकरणप्रत्ययः न भवति । अतः ‘तक्षँ त्वचने’ धातोः कर्तरि शप् (3.4.68) इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्ययः एव विधीयते । यथा - तक्षति ।

Sutrartha (English)

In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb तक्ष् with the meaning ‘to peel off / to scrape off’ gets the श्नु विकरण optionally.

Vasu English Summary

The affix श्यन् is optionally used after the root अक्ष् ‘to bore or hew’ when it is preceded by the preposition सम् and when a सार्वधातुक affix denoting an agent, follows.

Vasu English Translation

The affix श्यन् is optionally used after the root अक्ष् ‘to bore or hew’ when it is preceded by the preposition सम् and when a सार्वधातुक affix denoting an agent, follows. Thus तक्षति or तक्ष्णोति काष्टं ‘he hews the wood’. But सन्तक्षति वाग्भिः ‘he cuts with speech’.

Kashika

तक्षू त्वक्षू तनूकरणे अस्मात् तनूकरणेऽर्थे वर्तमानादन्यतरस्यां श्नुप्रत्ययो भवति। अनेकार्थत्वाद् धातूनां विशेषणोपादानम्। तक्षति काष्ठम्, तक्ष्णोति काष्ठम्। तनूकरण इति किम्? संतक्षति वाग्भिः॥

Siddhanta Kaumudi

श्नुः स्याद्वाशब्विषये । तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ । ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः ।{$ {!657 उक्ष!} सेचने$} । उक्षांचकार ।{$ {!658 रक्ष!} पालने$} ।{$ {!659 णिक्ष!} चुम्बने$} । प्रणिक्षति ।{$ {!660 तृक्ष!} {!661 ष्ट्रक्ष!} {!662 णक्ष!} गतौ$} । तृक्षति । स्तृक्षति । नक्षति ।{$ {!663 वक्ष!} रोषे$} । संघात इत्येके ।{$ {!664 मृक्ष!} संघाते $}। म्रक्ष इत्येके ।{$ {!665 तक्ष!} त्वचने$} । त्वचनं संवरणं त्वचोग्रहणं च । पक्ष परिग्रह इत्येके ।{$ {!666 सूर्क्ष!} आदरे$} । सुसूर्क्ष । अनादर इति तु क्वाचित्कोऽपपाठः । अवज्ञावहेलनमसूर्क्षणमित्यमरः ।{$ {!667 काक्षि!} {!668 वाक्षि!} {!669 माक्षि!} काङ्क्षायाम्$} ।{$ {!670 द्राक्षि!} {!671 ध्राक्षि!} {!672 ध्वाक्षि!} घोरवासिते च$} ।{$ {!673 चूष!} पाने$} । चुचूष ।{$ {!674 तूष!} तुष्टौ$} ।{$ {!675 पूष!} वृद्धौ$} ।{$ {!676 मूष!} स्तेये$} ।{$ {!677 लूष!} {!678 रूष!} भूषायाम्$} ।{$ {!679 शूष!} प्रसवे$} । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः ॥{$ {!680 यूष!} हिंसायाम्$} ।{$ {!681 जूष!} च$} ।{$ {!682 भूष!} अलंकारे$} । भूषति ।{$ {!683 ऊष!} रुजायाम्$} । ऊषांचकार ।{$ {!684 ईष!} उञ्छे$} ।{$ {!685 कष!} {!686 खष!} {!687 शिष!} {!688 जष!} {!689 झष!} {!690 शष!} {!691 वष!} {!692 मष!} {!693 रुष!} {!694 रिष!} हिंसार्थाः$} । तृतीयषष्ठौ तालव्योष्मादी । सप्तमो दन्त्योष्ठादिः । चकास । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः । अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ॥

Balamanorama

तनूकरणे तक्षः - तनूकरणे । शेषपूरणेन सूत्रं व्याचष्टे — श्नुः स्याद्वा शब्विषये इति ।स्वादिभ्यः श्नु॑रित्यतः श्नुरिति,कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति चानुवर्तते । तनूकरणेऽर्थे विद्यमानात्तक्षधातोः श्नुः स्यात्कत्र्रर्थे सार्वधातुके इति फलितम् । नच तक्षूधातोस्तनूकरणार्थकत्वाऽव्यभिचारात् श्नुविधौ तनूकरणग्रहणं व्यर्तमिति वाच्यम्, अत एव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् । तक्ष्णोतीत्यादि । अक्षूवद्रूपाणि । लुङि सिचि इट्पक्षेनेटी॑ति वृद्धिनिषेधे अतक्षीदिति, इडभावे तु अताक्षीदिति च रूपमक्षवत् । एवं त्वक्षूधातुरपि । णिक्षधातुर्णोपदेशः । प्रक्षिणतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् । त्रण ष्ट्रक्ष गताविति । त्रयोऽप्यकारमध्याः । द्वितीयः षोपदेशः । तदाह — रुआक्षतीति । षस्य सत्वे ष्टुत्वनिवृत्तिरिति भावः । णक्षदातुर्णोपदेशः । सिचिनेटी॑ति हलन्तलक्षणवृद्धिनिषेधः । वक्ष रोष इति । वक्ष रोष इति । दन्त्योष्ठआदिः । म्रक्षधातुरकारमध्यः । त्वचनशब्दस्य विवरणं — संवरणमिति । सूक्र्षदातू रेफमध्यः । अपपाठत्वे हेतुमाह — अवज्ञेति । सूक्र्षधातोरनादरार्थकत्वे असूक्र्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः । घोरवाशिते चेति । चात् काङ्क्षायामपि । घोरवाशितं — क्रूरशब्दः । चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः । ईष उञ्छ इति । ईदुपधः । कषेत्यारभ्य दश धातवः । तत्र तृतीयो दशमश्च इदुपधः । शिषधातुरनिट्कः । क्रादिनियमात्थलि वसि मसि च नित्यमिट् अजन्ताकारवत्त्वाऽभावेन थलि वेट्कत्वाऽभावात् । शिशेषिथ । शिशिषिव शिशिषिम । अशिक्षदिति । ‘शल इगुपधा’ दिति च्लेः क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः । ववषतुरिति ।न शसददे॑ति निषेधादेत्तवाभ्यासलोपौ न । रुषधातुः सेट्कः । रोषति । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ रुरुषथुः रुरुष । रुरोषिव रुरुषिम ।

Tattvabodhini

तनूकरणे तक्षः - अतक्षीदिति ।नेटि॑ इति वृद्धिनिषेधः । इडभावे तु — अताक्षीत् । प्रणिक्षतीति ।उपसर्गादसमासेऽपी॑ति नित्यं णत्वम् ।वा निंसनिक्षनिन्दा॑मिति तु कृद्विषयम् ।ण्वुलतृचौ॑ । प्रणिक्षिकः । प्रनिक्षकः । प्रणिक्षिता । प्रनिक्षिता । अवज्ञेत्यादि । सूक्र्षणमादरस्ततोऽन्यदसूक्र्षणित्यमरग्रन्तार्थः । यदि तु सूक्र्षणमनादर इत्युच्येत तर्हि असूक्र्षणमवज्ञापर्यायो न स्यादिति भावः । काक्षि । काङ्क्षा -इच्छा । द्राक्षि ध्राक्षि ध्वाक्षि । घोरवासितं — घोरशब्दः । वासृ शब्दे । ध्वाङ्क्षतीति । ध्वाङ्क्ष - काकः । द्राक्षि । धातोःगुरोश्च हलः॑ इतिअ॑ प्रत्यये द्राक्षा । यवादिगणे निपातनान्नलोपः । द्राक्षामान् । इह मतोर्वत्वं तु न भवति,अयवादिभ्य॑ इत्युक्तेः । तूष तुष्टौ । दिवादौ तु ह्रस्वोपधः । मूष स्तेये । संज्ञायां क्वुनिमूषकः॑ । क्र्यादौ तु ह्रस्वोपधोऽयम् । भूष अलङ्कारे । अयं चुरादावपि । ईष उच्छे ।गुरोश्च हलः॑ इत्यप्रत्ययेईषा लाङ्गलदण्डः॑ । कष खष । षान्तौ ।शिषे॑त्ययमप्यनिक्टो न तु रौधादिक एव, संकोचे मानाऽभावादित्यभिप्रेत्योदाहरति — शेष्टा । अशिक्षदित्यादि ।

Padamanjari

तनूकरणे तक्षः॥अनेकार्थत्वादिति । अत एव विशेषणोपादानादनेकार्थ्वं विज्ञायते। प्रदर्शनार्थस्तु गणे धातूनामर्थनिर्द्देशः। सन्तक्षति वाग्भिरिति। निर्भर्त्सयतीत्यर्थः॥

Prakriyasarvasvam

अस्मिन्नर्थे तक्षेर्वा श्नुः स्यात् । तक्ष्णोति, तक्षति वा वृक्षम् । तनूकरण इत्युक्तेर्भर्त्सने शबेव । तक्षति वाग्भिः । लुङि वेट् । अतक्षीत् । अतक्षिष्टाम्, अताक्षीत्, अताष्टाम् । कर्मणि अतक्षि । अतक्षिषाताम्, अतक्षाताम् । लिटि ततक्ष । ततक्षतुः । ततक्षिथ, ततष्ठ । ततक्षिव, ततक्ष्व । कर्मणि अक्षिवदूह्यम् । तक्ष्यात् । तक्षिता, तष्टा । तक्षिष्यति, तक्ष्यति । अशू व्याप्तौ । अनुदात्तेत् । अश्नुते । अश्नुवाते । अश्नुवते । अश्नुषे । अश्नुध्वे । अश्नुवे । अश्नुवहे । कर्मणि अश्यते । अश्नुवीत । अश्नुवीयाताम् । अश्नुवीय । अश्नुताम् । अश्नुवाताम् । अश्नुष्व । अश्नुध्वम् । अश्नवै । आश्नुत । आश्नुथाः । आश्नुवि । आश्नुवहि । लुङि वेट् । आशिष्ट । आशिषाताम्, ‘झलो झलि’ ‘झशां षः’ । आष्ट । आक्षाताम् । आड्ढ्वम् । आक्षि । चिणि आशि । लिटि ‘अत आदेः’ इति दीर्घः ।