31067: सार्वधातुके यक्¶
Padacheda: सार्वधातुके | S | 7 | 1 |
यक् | S | 1 | 1 |
Sutrartha¶
कर्मणिप्रयोगे भावेप्रयोगे च सार्वधातुके प्रत्यये परे धातोः यक्-प्रत्ययः भवति ।
यदि धातोः अनन्तरम् कश्चन सार्वधातुकप्रत्ययः विधीयते, तर्हि कर्मणिप्रयोगे भावे प्रयोगे च धातोः अनन्तरम् (परन्तु सार्वधातुकप्रत्ययात् पूर्वम्) ‘यक्’-प्रत्ययः अपि आगच्छति । यथा - पठ् + लट् [कर्मणिप्रयोगस्य वर्तमानकालस्य च विवक्षायाम् वर्तमाने लट् (3.2.123) इति लट्-लकारः ।] → पठ् + त [ भावकर्मणोः (1.3.13) इत्यनेन आत्मनेपदम् । प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झि… (3.4.78) इति ‘त’ प्रत्ययः] → पठ् + यक् + त [सार्वधातुके यक् (3.1.67) इति यक्-प्रत्ययः] → पठ् + य + ते [टित आत्मनेपदानां टेरे (3.4.79) इति एकारः] → पठ्यते । ज्ञातव्यम् - 1) तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन सर्वे तिङ्-प्रत्ययाः शित्-प्रत्ययाः च ‘सार्वधातुक’संज्ञां प्राप्नुवन्ति । 2) लः कर्मणि च भावे च अकर्मकेभ्यः (3.4.69) इत्यनेन लकाराः सकर्मकेभ्यः धातुभ्यः कर्मणिप्रयोगे तथा अकर्मकेभ्यः धातुभ्यः भावेप्रयोगे भवितुमर्हन्ति । 3) आर्द्धधातुकप्रत्यये परे कर्मणिप्रयोगे भावे प्रयोगे वा ‘यक्’ इति गणविकरणम् न आगच्छति । यथा, पठ्-धातोः कर्मणि प्रयोगे लृट्-लकारस्य प्रथमपुरुषैकवचनम् ‘पठिष्यते’ इत्यत्र ‘पठ् + इट् + स्य + ते’ इत्यनेन रूपं सिद्ध्यति, अत्र ‘यक्’ विकरणं न विधीयते ।
Sutrartha (English)¶
In the कर्मणि and the प्रयोगे भावे प्रयोग, धातु gets ‘यक्’ प्रत्यय when followed by a सार्वधातुक प्रत्यय.
Vasu English Summary¶
The affix यक् comes after a root when a सार्वधातुक – तिङ्शित्सार्वधातुकम् (3.4.113), follows, denoting the action or the object.
Vasu English Translation¶
The affix यक् comes after a root when a सार्वधातुक – तिङ्शित्सार्वधातुकम् (3.4.113), follows, denoting the action or the object. In forming Impersonal and Passive verbs, this affix is employed in the conjugational tenses. Thus in Impersonal verbs आस्यते भवता ‘you sit’, शय्यते भवता ‘you lie’. So in passive verbs; as क्रियते कटः and गम्यते ग्रामः. The क of यक् is servile, and prevents guna and vriddhi. This affix is also used in reflective voice (कर्म्मकर्त्तरि); as क्रियते कटः स्वयमेव ‘the mat becomes made of itself’.
Bhashya¶
सार्वधातुके यक् (684) (422 यग्विकरणविधिसूत्रम् ॥ 3.1.4 आ.10) (भावकर्मणोर्वचनव्यवस्थाधिकरणम्) (आक्षेपभाष्यम्) इह पश्यामः कर्मणि द्विवचनबहुवचनान्युदाह्रियन्ते पच्येते ओदनौ पच्यन्ते ओदना इति। भावे पुनः एकवचनमेव - आस्यते भवता, आस्यते भवद्भ्याम्, आस्यते भवद्भिरिति। केनैतदेवं भवति?। (समाधानभाष्यम्) कर्माऽनेकम्, तस्याऽनेकत्वाद् द्विवचनबहुवचनानि भवन्ति। भावः पुनरेक एव ॥ (आक्षेपभाष्यम्) कथं तर्हि इह द्विवचनबहुवचनानि भवन्ति पाकौ पाका इति?। (सामाधानभाष्यम) आश्रयभेदात्। यदसौ द्रव्यं श्रितो भवति भावस्तस्य भेदाद् द्विवचनबहुवचनानि भवन्ति ॥ (दूषणभाष्यम्) इहापि तर्हि यावन्तस्ते तां क्रियां कुर्वन्ति, सर्वे ते तस्या आश्रयभूता भवन्ति, तद्भेदाद् द्विवचनबहुवचनानि प्राप्नुवन्ति ॥ (दूषणोद्धारभाष्यम्) एवं तर्हि इदं तावदयं प्रष्टव्यः - किमभिसमीक्ष्यैतत् प्रयुज्यते - पाकौ पाका इति। यदि तावत्पाकविशेषानभिसमीक्ष्य यश्चौदनस्य पाकः, यश्च गुडस्य, यश्च तिलानां बहवस्ते शब्दाः सरूपाश्च। तत्र युक्तं बहुवचनमेकशेषश्च। तिङभिहिते चापि तथा भावे बहुवचनं श्रूयते। तद्यथा - उष्ट्रासिका आस्यन्ते, हतशायिकाः शयन्त इति। अथ कालविशेषानभिसमीक्ष्य यश्चाद्यतनः पाकः, यश्च ह्यस्तनः, यश्च श्वस्तनस्तेऽपि बहवः शब्दाः सरूपाश्च। तत्र युक्तं बहुवचनमेकशेषश्च। तिङभिहिते चापि तथा भावेऽसारूप्यादेकशेषो न भवति - आसि आस्यते आसिष्यते इति ॥ अस्ति खल्वपि विशेषः तिङभिहितस्य भावस्य कृदभिहितस्य च। कृदभिहितो भावो द्रव्यवद्भवति ॥ किमिदं द्रव्यवदिति?। द्रव्यं क्रियया समवायं गच्छति ॥ कं समवायं गच्छति? द्रव्यं क्रियाभिनिर्वृत्तौ साधनत्वमुपैति ॥ तद्वच्चास्य भावस्य कृदभिहितस्य भवति पाको वर्तते इति ॥ क्रियावन्न भवति ॥ किमिदं क्रियावदिति?। क्रिया क्रियया समवायं न गच्छति - पचति पठतीति ॥ तद्वच्चास्य कृदभिहितस्य न भवति - पाको वर्तत इति ॥ (विशेषान्तरभाष्यम्) अस्ति खल्वपि विशेषः कृदभिहितस्य भावस्य, तिङभिहितस्य च - तिङभिहितेन भावेन कालपुरुषोपग्रहा व्यज्यन्ते, कृदभिहितेन पुनर्न व्यज्यन्ते ॥ (विशेषान्तरभाष्यम्) अस्ति खल्वपि विशेषः - तिङभिहितस्य भावस्य, कृदभिहितस्य च - तिङभिहितो भावः कर्त्रा संप्रयुज्यते, कृदभिहितः पुनर्न संप्रयुज्यते ॥ यावता किंचिच्च सामान्यं कश्चिच्च विशेषः ॥ युक्तं यदयमपि विशेषः स्याद् - लिङ्गकृतः संख्याकृतश्च ॥ (आक्षेपभाष्यम्) इदं विचार्यते - भावकर्मकर्तारः सार्वधातुकार्था वा स्युः, विकरणार्था वेति ॥ कथं च सार्वधातुकार्था स्युः कथं वा विकरणार्थाः? भावकर्मवाचिनि सार्वधातुके यक् भवति, कर्तृवाचिनि सार्वधातुके शब् भवतीति सार्वधातुकार्थाः। भावकर्मणोर्यक् भवति सार्वधातुके कर्तरि शब् भवति सार्वधातुक इति विकरणार्थाः ॥ (अनुयोगभाष्यम्) कश्चात्र विशेषः?। (1852 सार्वधातुकार्थपक्षे दूषणवार्तिकम् ॥ 1 ॥) - भावकर्मकर्तारः सार्वधातुकार्था श्चेदेकद्विबहुषु नियमानुपपत्तिरतदर्थत्वात्- (भाष्यम्) भावकर्मकर्तारः सार्वधातुकार्थाश्चेद् एकद्विबहुषु नियमस्यानुपपत्तिः ॥ किं कारणम्?। अतदर्थत्वात्। न हीदानीमेकत्वादय एव विभक्त्यर्थाः ॥ किं तर्हि?। भावकर्मकर्तारोऽपि ॥ (विकरणार्थपक्षाङ्गीकारभाष्यम्) सन्तु तर्हि विकरणार्थाः। (1853 विकरणार्थत्वपक्षदूषणवार्तिकम् ॥ 2 ॥) - विकरणार्था इति चेत् कृताभिहिते विकरणाभावः- (भाष्यम्) विकरणार्था इति चेत् कृताभिहिते विकरणो न प्राप्नोति - धारयः पारयः इति। (सार्वधातुकार्थवादिभाष्यम्) किमुच्यते - कृताभिहिते इति, - न लेनाप्यभिधानं भवति?। (विकरणार्थवादिभाष्यम्) न शक्यं लेनाभिधानमाश्रयितुम्। पक्षान्तरमिदमास्थितम् - भावकर्मकर्तारः सार्वधातुकार्था वा स्युर्विकरणार्था वेति। यदि च लेनाप्यभिधानं स्याद् नेदं पक्षान्तरं स्यात् ॥ (सार्वधातुकार्थवादिभाष्यम्) कथमशक्यम्। यदा भवानेवाह लः कर्मणि च भावे चाकर्मकेभ्य इति?। (विकरणार्थवादिभाष्यम्) एवं वक्ष्यामि लः कर्मणो भावाच्चाकर्मकेभ्य इति। (सार्वधातुकार्थवादिभाष्यम्) यस्मिंस्तर्हि ले विकरणा न श्रूयन्ते, कस्तत्र भावकर्मकर्तॄनभिधास्यति? क्व च न श्रूयन्ते। य एते लुग्विकरणाः श्लुविकरणाश्च ॥ (विकरणार्थवादिभाष्यम्) अत्राप्युक्ते कर्तृत्वे लुग्भविष्यति ॥ (सार्वधातुकार्थसाधकभाष्यम्) यस्मिंस्तर्हि ले विकरणा नैवोत्पद्यन्ते कस्तत्र भावकर्मकर्तॄनभिधास्यति। क्व च नैवोत्पद्यन्ते?। लिङ्लिटोः ॥ तस्मान्नैवं शक्यं वक्तुं न लेनाप्यभिधानं भवतीति। भवति चेदभिहिते विकरणाभाव इत्येव ॥ (विकरणार्थसाधकभाष्यम्) एवं तर्हीदं स्यात् - यदा भावकर्मणोर्लः, तदा कर्तरि विकरणाः। यदा कर्तरि लः, तदा भावकर्मणोर्विकरणाः ॥ (सार्वधातुकार्थवादिभाष्यम्) इदमस्य यद्येव स्वाभाविकम्, अथापि वाचनिकम् प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः इति। न चास्ति संभवो यदेकस्याः प्रकृतेर्द्वयोर्नानार्थयोर्युगपत्सहायीभावः स्यात्। एवं च कृत्वा एकपक्षी भूतमेवेदं भवति सार्वधातुकार्था एवेति ॥ (सार्वधातुकार्थपक्षदूषणस्मारणभाष्यम्) ननु चोक्तम् भावकर्मकर्तारः सार्वधातुकार्था इति चेदेकद्विबहुषु नियमानुपपत्तिरतदर्थत्वाद् इति ॥ (दूषणपरिहारभाष्यम्) नैष दोषः। (1854 सिद्धान्तवार्तिकम् ॥ 3 ॥) - सुपां कर्मादयोप्यर्थाः संख्या चैव तथा तिङाम्- (भाष्यम्) सुपां तिङां च संख्या चैवार्थः कर्मादयश्च ॥ (1855 वार्तिकम् ॥ 4 ॥) - प्रसिद्धो नियमस्तत्र - (भाष्यम्) प्रसिद्धस्तत्र नियमः ॥ (1856 वार्तिकम् ॥ 5 ॥) - नियमः प्रकृतेषु वा- (भाष्यम्) अथ वा प्रकृतानर्थानपेक्ष्य नियमः ॥ के च प्रकृताः?। एकत्वादयः। एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु। द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु। बहुष्वेव बहुवचनं नैकस्मिन्न द्वयोरिति ॥ (1857 यग्विधिवार्तिकम् ॥ 6 ॥) - भावकर्मणोर्यग्विधाने कर्मकर्तर्युपसंख्यानम्- (भाष्यम्) भावकर्मणोर्यग्विधाने कर्मकर्तर्युपसंख्यानं कर्तव्यम्। पच्यते ओदनः स्वयमेव। पठ्यते विद्या स्वयमेव ॥ किं पुनः कारणं न सिध्यति?। (1858 शपोबलीयस्त्वप्रतिपादकं वार्तिकम् ॥ 7 ॥) - विप्रतिषेधाद्धि शपो बलीयस्त्वम्- (भाष्यम्) विप्रतिषेधाद्धि शपो बलीयस्त्वं प्राप्नोति। शपोऽवकाशः - पचति पठति। यकोऽवकाशः - -पच्यते ओदनो देवदत्तेन, पठ्यते विद्या देवदत्तेनेति। इहोभयं प्राप्नोति - पच्यते ओदनः स्वयमेव, पठ्यते विद्या स्वयमेवेति। परत्वात् शप् प्राप्नोति ॥ (1859 कर्मकर्तरियग्विधिवार्तिकवैर्यथ्यवार्तिकम् ॥ 8 ॥) - योगविभागात् सिद्धम् - (भाष्यम्) योगविभागः करिष्यते - चिण्भावकर्मणोः। ततः सार्वधातुके यक् भावकर्मणोः। ततः कर्तरि। कर्तरि च यक् भवति, भावकर्मणोः। (योगविभागदूषणभाष्यम्) यथैव तर्हि कर्मणि कर्तरि यक् भवति। एवं भावेऽपि कर्तरि यग् प्राप्नोति - एति जीवन्तमानन्दो नरं वर्षशतादपि। नास्य किं चिद्रुजति रोग इति ॥ (दूषणोद्धारभाष्यम्) द्वितीयो योगविभागः करिष्यते - चिण् भावे। ततः कर्मणि कर्मणि च चिण् भवतीति। ततः सार्वधातुके यक्। सार्वधातुके यक् भवति भावे कर्मणि च। ततः कर्तरि कर्तरि च यग्भवति। कर्मणीत्यनुवर्तते। भाव इति निवृत्तम् ॥ ततः शप्। शप् च भवति कर्तरीत्येव। कर्मणीति निवृत्तम् ॥ (यगुपसंख्यानवादिभाष्यम्) एवमप्युपसंख्यानं कर्तव्यम्। (1860 उपसंख्यानहेतुवार्तिकम् ॥9 ॥) - विप्रतिषेधाद्धि श्यनो बलीयस्त्वम्- (भाष्यम्) विप्रतिषेधाद्धि श्यनो बलीयस्त्वं प्राप्नोति। श्यनोऽवकाशः - दीव्यति सीव्यतीति। यकोऽवकाशः - - पच्यते ओदनो देवदत्तेन, पठ्यते विद्या देवदत्तेनेति। इहोभयं प्राप्नोति - दीव्यते स्वयमेव सीव्यते स्वयमेवेति। परत्वात् श्यन् प्राप्नोति ॥ (उपसंख्यानवैर्यथ्यभाष्यम्) ननु चैतदपि योगविभागेनैव सिद्धम्। (उपसंख्यानसार्थक्यभाष्यम्) न सिध्यति। अनन्तरा या प्राप्तिः सा योगविभागेन शक्या निवारयितुम्। कुत एतत्?। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति। परा प्राप्तिरप्रतिषिद्धा तया श्यन् प्राप्नोति। (उपसंख्यानवैर्यथ्यभाष्यम्) ननु चेयं प्राप्तिः परां प्राप्तिं बाधेत ॥ (उपसंख्यानसार्थक्यभाष्यम्) नोत्सहते प्रतिषिद्धा सती बाधितुम् ॥ (उपसंख्यानवैर्यथ्यभाष्यम्) एवं तर्हि शबादेशाः श्यन्नादयः करिष्यन्ते। शप् च यका बाध्यते। तत्र दिवादिभ्यो यग्विषये शबेव नास्ति कुतः श्यन्नादयः ॥ (प्रत्याक्षेपभाष्यम्) तत्तर्हि शपो ग्रहणं कर्तव्यम् ॥ (प्रत्याक्षेपसमाधानभाष्यम्) न कर्तव्यम्। प्रकृतमनुवर्तते ॥ क्व प्रकृतम्। कर्तरि शबिति ॥ (आदेशत्वानुपपत्तिभाष्यम्) तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ॥ (आदेशत्वोपपादकभाष्यम्) दिवादिभ्यः इत्येषा पञ्चमी शबिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति ॥ (आदेशत्वानुपपत्तिभाष्यम्) प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति ॥ (आदेशत्वोपपादकभाष्यम्) नायं प्रत्ययविधिः विहितः प्रत्ययः प्रकृतश्चानुवर्तते ॥ (उपसंख्यानवैयर्यभाष्यम्) अथ वा भावकर्मणोरित्यननुवृत्त्यैव सिद्धे सत्यनुवृत्तिर्यको भावाय। इह सार्वधातुके यगिति अन्तरेण भावकर्मणोरित्यनुवृत्तिं सिद्धम्। सोऽयमेवं सिद्धे सति यद्भावकर्मग्रहणमनुवर्तयति तस्येतत्प्रयोजनं कर्मकर्तर्यपि यग् यथा स्यादिति ॥ (1861 योगविभागान्तरवार्तिकम् ॥ 10 ॥) - कर्तरीति च योगविभागः श्यनः पूर्वविप्रतिषेधावचनाय- (भाष्यम्) कर्तरीति च योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधं मा वोचमिति। (उपसंख्यानवैर्यथ्ययुक्त्यन्तरभाष्यम्।) अथ वा कर्मवद्भाववचनसार्मथ्याद्यक् भविष्यति ॥ अस्त्यन्यत् कर्मवद्भाववचने प्रयोजनं किम्। आत्मनेपदं यथा स्यात्। (युक्त्यनुपपत्तिभाष्यम्) वचनादात्मनेपदं भविष्यति ॥ (युक्त्यनुपपत्तिभाष्यम्) चिण् तर्हि यथा स्यात् ॥ (सार्मथ्योपपत्तिभाष्यम्) चिणपि वचनाद्भविष्यति ॥ (सार्मथ्यानुपपत्तिभाष्यम्) चिण्वद्भावस्तर्हि यथा स्यात् ॥ (सार्मथ्योपपत्तिभाष्यम्) नैकं प्रयोजनं योगारम्भं प्रयोजयति ॥ तत्र कर्मवद्भाववचनसामर्थ्याद् यक् भविष्यति ॥ (उपसंख्यानवैर्यथ्ययुक्त्यन्तरभाष्यम्) अथ वा आचार्यप्रवृतिर्ज्ञापयति कर्मकर्तरि यग् भवतीति यदयं न दुहस्नुनमां यक्चिणौ इति यक्चिणोः प्रतिषेधं शास्ति ॥ सार्वधातुके ॥ 67 ॥
Kashika¶
भावकर्मवाचिनि सार्वधातुके परतो धातोर्यक् प्रत्ययो भवति। आस्यते भवता। शय्यते भवता। कर्मणि — क्रियते कटः। गम्यते ग्रामः। ककारो गुणवृद्धिप्रतिषेधार्थः। यग्निवधाने कर्मकर्तर्युपसंख्यानम्, विप्रतिषेधाद्धि यकः शपो बलीयस्त्वम्। क्रियते कटः स्वयमेव। पच्यत ओदनः स्वयमेव॥
Siddhanta Kaumudi¶
धातोर्यक् प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना, उत्पादना क्रिया सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां समानाधिकरण्याभावात्प्रथमपुरुषः । तिङ्वाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । किंत्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात् ॥ अनभिहिते कर्तरि तृतीया । त्वया मयाऽन्यैश्च भूयते । बभूवे ॥
Laghu Siddhanta Kaumudi¶
धातोर्यक् भावकर्मवाचिनि सार्वधातुके। भावः क्रिया। सा च भावार्थकलकारेणानूद्यते। युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः पुरुषः। तिङ्वाच्यक्रियाया अद्रव्यरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि किंत्वेकवचनमेवोत्सर्गतः। त्वया मया अन्यैश्च भूयते। बभूवे॥
Balamanorama¶
सार्वधातुके यक् - सार्वधातुके यक् । धातोरिति । ‘धातोरेकाचः’ इत्यतस्तदनुवृत्तेरिति भावः । भावकर्मवाचिनीति ।चिण्भावकर्मणो॑रित्यतस्तदनुवृत्तेरिति भावः । घटस्य भावो घटत्वमित्यादौ प्रकृतिज्नयबोधे प्रकारो भावः । कवेरयं भाव इत्यादौ अभिप्रायः ।भावः पदार्थसत्तायां क्रियाचेष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु॑ इति नानार्थरत्नमाला ।भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्तुषु॑ इत्यमरः । इह तु ‘लः कर्मणि’ इत्यत्र भावशब्दो भावनायां यौगिक इत्याह — भावो भावनेति । लः कर्मणी॑त्यत्र भावशब्देन भावना विवक्षितेति भावः । भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह — उत्पादनेति । उत्पत्त्यनुकूलो व्यापार इत्यर्थः । एवं च भूधातोरुत्पत्त्यर्थकाद्धेतुमण्णौ वृद्ध्यावादेशयोर्भाविशब्दात्एर॑जिति भावे अचि णिलोपे भावशब्दः, भावयतेरुत्पत्त्यर्थकाद्धेतुमण्ण्यन्तात् स्त्रियामित्यधिकारेण्यासश्रन्थो यु॑जिति युचि अनादेशे टापि भावनाशब्द इति बोध्यम् । उत्पादना चेयं धात्वर्थान्नातिरिच्यते इति दर्शयतुमाह — क्रियेति । धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः । तथाहिफलव्यापारयोर्धातु॑रिति सिद्धान्तः । पचधातोः पाकोऽर्थः । पाको — विक्लित्त्यनुकूलव्यापारः । तत्र विक्लित्त्यंशः फलम् । अधिश्रयणादिस्तदनुकूलो व्यापारः । तथाविधव्यापाराश्रयो देवदत्तादिः कर्ता,धातूपात्तव्यापाराश्रय कर्ते॑ति सिद्धान्तात् । अधिश्रयणादिव्यापारजन्या विक्लत्तिः फलं, तदाश्रयत्वादोदनं कर्म,व्यापारजन्यफलशालि कर्मे॑ति सिद्धान्तात् । एवं सकर्मकेषु सर्वत्र ज्ञेयम् ।एध वृद्धौ॑इत्यस्मिन्नकर्मकेऽपि वृद्ध्यनुकूलव्यापारो धात्वर्थः । नचैवं सति ‘एधते देवदत्त’ इत्यत्र धातूपात्तव्यापाराश्रयत्वाद्व्यापारव्यधिकरणफलाश्रयत्वं कर्मत्व॑मिति सिद्धान्तात् । एवं च फलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् । एतेन क्रियावाची धातुः, धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः । उत्पत्त्यनुकूलव्यापारस्यैव क्रियात्वात् । तदुक्तं — व्यापारो भावना सैवोत्पादना सैव च क्रिये॑ति । ननूत्पत्त्यनुकूलव्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः । विक्लित्त्यादितत्तत्फलोत्पत्त्यनुकूलव्यापार्थकत्वं तु न संभवति, एकैकस्य धातोर्विक्लित्त्यादितत्तत्फलांशे, तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्वानुपपत्तेरित्यत आह — सा चेत्यादि । पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिकं क्रियामाहुः । पचित्वादितविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः । तथा च वाचकतावच्छेदकबेदाद्विक्लित्त्यादिफलविशेषस्य, क्रियासामान्यस्य च वाच्यता सङ्गच्छते इति भावः । तथा च भट्टिराह — विभज्य सेनां परमार्थ सेनापतींश्चापि पुरन्दरोऽथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून्॥॑ इति । अस्तिभवतिविद्यतीनामपि सत्तानुकूलव्यापार एवार्थः । तत्र सत्ता आत्मभरणम् । तदनुकूलव्यापारस्तु जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति वाष्र्यायणिप्रणीतषड्भावविकारेष्वन्यतमो यथायथं ज्ञेयः । भूवादिसूत्रे भाष्ये स्पष्टमेतत् । प्रपञ्चतं च मञ्जूषायामित्यलम् । ननूत्पादनात्मकक्रियारूपस्य भावस्य धातुवाच्यत्वेलः कर्मणि च भावे चे॑ति भावे कथं लकारविधिः । अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह — भावार्थकलकारेणानूद्यते इति । ‘द्वौ’ ‘त्रयः’ इत्यादौ द्विवचनबहुवचनवदति भावः । युष्मदस्मद्भ्यामिति । युष्मदि अस्मिद च तिङ्समानाधिकरणे उपपदे मध्यमोत्तमपुरुषौ विहितौ । युष्मदस्मदोस्तिङ्सामानाधिकरण्यं च तिङ्वाच्यकारकवाचित्वमेव । भावे लकारे तु ‘आस्यते त्वया’आस्यते मये॑त्यादौ भाव एव तिङ्वाच्यो नतु युष्मदस्मदर्थौ, अतो न मध्यमोत्तमावित्यर्थः । कर्मलकारे तुत्वं वन्द्यसे॑,॒अहं वन्द्ये॑ इत्यादौ लकारस्य, युष्मदस्मदोश्च सामनाधिकरण्यसंभवात्पुरुषत्रयमपि यथायथमुदाहरिष्यते । तिङ्वाच्येति । सत्त्वं = द्रव्यं — लिङ्गसङ्क्यान्वययोग्यम् । तिङ्वाच्या या भावना क्रिया सा असत्त्वरूपा = लिङ्गसङ्ख्यान्वयाऽयोग्या, शब्दशक्तिस्वभावात् । ततश्च तस्यां तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेर्युवाभ्यां युष्माभिर्वा आस्यते इत्यादौ न द्विवचनं, बहुवचनं चेत्यर्थः । तिङ्वाच्येत्यनेन कृद्वाच्यायाः क्रियाया लिङ्गसङ्ख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तं भवति । तद्यथा - पाकौ पाका इत्यादि । तदुक्तं — ॒सार्वधातुके य॑गिति सूत्रे भाष्ये -कृदभिहितो भावो द्रव्यवत्प्रकाशते॑ इति । द्रव्यवल्लिङ्गसङ्ख्यान्वयं लभते इत्यर्थः, शब्दशक्तिस्वभावादिति भावः । ननु तिङ्वाच्यभावनाया असत्त्वरूपतया द्विवहुवचनाऽभावे आस्यते इत्यादौ एकवचनं च न स्यादित्यत आह — किं त्वेकवचनमेवेति ।तिङ्वाच्यभावलकारस्ये॑ति शेषः । तस्येति ।द्वेयकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मिति सूत्रन्यासं भङ्क्त्वा ‘एकवचनं’ द्विबहुषु द्विबहुवचने॑ इति सूत्रन्यासः कर्तव्यः । तत्र द्वित्वबहुत्वयोर्द्विबहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्ये स्पष्टम् । एवं च एकवचनस्य एकत्वमुत्सृज्य द्विबहुवचनान्यविषये विहितत्वेन औत्सर्गिकतया एकत्वसङ्ख्यानपेक्षत्वाद्भावलकारस्य असत्त्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः । अनभिहिते इति । भावलकारे कर्तुस्तिङ्वाच्यत्वाऽभावेन अनभिहितत्वात्तृतीयेत्यर्थः । त्वया मयेति । त्वत्कर्तृकं मत्कर्तृकमन्यकर्तृकं भवनमित्यर्थः ।
Tattvabodhini¶
सार्वधातुके यक् - सार्वधातुके यक् ।धातोरेकाचः॑ इत्यतो धातोरिति,चिण् भावकर्मणो॑रित्यतो बावकर्मणोरिति चानुवर्तते । भावो भावनेति । उत्पत्त्यर्थद्भवतेर्णिजन्तादेरजिति भावः ।एरजण्यन्ताना॑मिति त्वनार्षमिति तस्मिन्नेव सूत्रे कैयटः । भवतेरुत्पत्त्यर्थत्वं, ण्यन्तस्य भवतेः शुद्धेन करोतिना तुल्यार्थत्वं च दर्शयति — उत्पादना क्रियेति । यथा करोति घटमित्यादावुत्पत्त्यनुकूलो व्यापारः कुलालनिष्ठः, तथा भावयति घटमित्यादावपि । भवति घट इत्यत्रापि घटनिष्ठ उत्पत्त्यनुकूलो व्यापारोऽस्त्येव, परंतु फलसमानाधिकरणः सः, कुलालनिष्ठस्तु फलव्यधिकरण इतीयान्भेदः । अत एव फलव्यापरयोः सामानाधिकरण्याद्भवत्यादिरकर्मकः, तयोस्तु वैयधिकरण्यात्करोत्यादिः सकर्मक इत्याहुः । एतेनभावो भावने॑ त्यादिग्रन्थेनभूवादयो धातवः॑ इत्यत्र क्रियावाचिनः किम् । विकल्पार्थकवाशब्दाद्भावे लिण् माभूत् । अन्यथा भ्वादिगणे वाशब्दमात्रपठनादक्रियावाचिनोऽपि वाशब्दस्य धातुत्वेधात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते॑ इति विकल्पस्यापि बावत्वापत्त्या तद्वाचकवाशब्दाल्लिट् स्यादेवेति केषांचिद्व्याख्यानं परास्तम्, भावनावाचकादेव भावे लिटः स्वीकारात् । विकल्पस्य तु भावनाभिन्नत्वात् । अन्यथाक्रियावाचिन॑ इति विशेषणे दत्तेऽपि तद्दोषतादवस्थ्यात् । विकल्पवाचकाल्लिडभावेऽपि लडादयः स्युरिति तु न शङ्कनीयमेव, वर्तमानक्रियादिवृत्तेरेव लडादीनां विधानात् । किम्रथं तर्हि क्रियावाचिनो भ्वादय इति सर्वैरेव तत्र व्याख्यातम् ।याः पश्यसी॑त्यत्रापि लक्षणप्रतिपदोक्तपरिभाषया याशब्दस्य धातुत्वाऽसंभवात्आतो धातोः॑ इति तत्राऽऽल्लोपाप्रसक्तिरिति चेत् । अत्राहुः — कार्यकालं संज्ञापरिभाष॑मिति पक्षेआतो धातुत्वाऽसंभवात्आतो धातोः॑ इति तत्राऽल्लोपाप्रसक्तिरिति चेत् । अत्राहुः — कार्यकालं संज्ञापरिभाष॑मिति पक्षेआतो धातो॑रिति कार्यप्रदेशे भ्वादयो धातव इत्युपतिष्ठते भ्वादिषु याशब्दमातर्पठनाद्द्रव्यवाचकोऽपि याशब्दस्तत्रोपतिष्ठते । वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषाया अप्रवृत्तेः,आतो धातो॑रित्यत्र त्वात् इति वर्णग्रहणात् । तस्माद्द्व्यवचाकस्य याशब्दस्य धातुसंज्ञा माभूदिति क्रियावाचिन इति विशेषणमवश्यं वक्तव्यमेवेति ।उत्पादना क्रिये॑ त्यनेन तु क्रियावाची धातुर्धात्वर्थः क्रियेत्यन्योन्याश्रयोऽत्र दुष्परिहर इति केषांचिदाक्षेपो निरस्तः । उत्पत्त्यनुकूलव्यापारस्य क्रियात्वात् । तद#उक्तम् — व्यापारो भावना सैवोत्पादना सैव च क्रिये॑ति । धातुत्वेनेति । सकलधातुषु धातुत्वं जातिरखण्डोपाधिर्वेत्यन्यदेतत् । तच्च वाचकतावच्छेदकम् । क्रियात्वं तु वाच्यतावच्छेदकमिति भावः । धातुवाच्येति । नन्वेवं पचतीत्यादावेककर्तृका वर्तमाना पचिक्रियेति क्रियाविशेष्यको बोधो न स्यात्, प्रत्ययार्थं प्रति प्रकृत्यर्थस्यविशेषणताया औपगवादौ कॢप्तत्वात् । तथा चभावना तिङ् प्रत्ययवाच्ये॑ति मीमांसकमतमेव रमणीयमिति चेत् । अत्राहुः — प्रत्ययार्थः प्रधान॑मिति उत्सर्गः, स चेह त्यज्यते,॒क्रियाप्रधानमाख्यात॑स्मरात् । टाबाद्यर्थत्वेन मीमांसकैरभ्युपगतस्य स्त्रीत्वस्य पाचिकादौ विशेषणत्वाब्युपगमात्प्रत्ययार्थः प्रधानमिति नियमस्य त्यक्तत्वाच्च । किं च भोक्तव्यमित्यादौ तिङं विनापि भावना प्रतीयते, कारकापेक्षा च दृश्यते । अस्ति च करोतिसामानाधिकरण्यम् । किं च भोक्तव्यमित्यादौ तिङं विनापि भावना प्रतीयते, कारकापेक्षा च दृश्यते । अस्ति च करोतिसामानाधिकरण्यम् । किं कर्तव्यं , भोक्तव्यम्, किं कृतवान् , भुक्तवानिति । नच कृतामपि तव्यदादीनां भावनावाचकत्वमस्त्विति शङ्क्यम्, नामार्थयोरभेदान्वयानुरोधेनकर्तरि कृ॑दिति तव्यदादयः कर्म#आदाविति परैरप्यभ्युपगमात् । अन्यथा पाचको देवदत्तः, पक्तव्य ओदन इत्यत्राऽभेदबोधो न स्यात् । तथा च धातुवाच्यत्वं भावनाया इत्येव मतं रमणीयतरमिति । लकारस्य सामानाधिकरण्यं कर्तृकर्माभिधायिन एव संभवति न भावाभिधायिन इत्याशयेन व्याचष्टे — सामानाधिकरणयाभावादिति । न चैवं युष्मदस्मद्भिन्नोपपदे समानाधिकरणे देवदत्तः पतीत्यादाविव प्रथमपुरुषेण भाव्यमिति प्रथमपुरुषोऽप्यत्र न स्यादिति वाच्यं,शेषे प्रथमः॑ इत्यत्रमध्यमोत्तमयोरविषये प्रथमः स्या॑दिति व्याख्यानात् । तिङ्वाच्येति । घञादितवाच्यायास्तु सत्त्वरूपत्वमिष्टमेवेति पाकं पाकेनेत्यादौ यथायथं द्वितीयादयः प्रवर्तन्ते । अत एव भाष्यकृतोक्तंकृदभिहितो भावो द्रव्यवत्प्रकाशते॑ इति । द्रव्यधर्मांल्लिङ्गसङ्ख्याकारकादीन् गृह्णातीत्यर्थः । एकवचनमेवेति । प्रायोवादोऽयम् । अन्यथाउष्ट्रासिका आस्यन्ते॑हतशायिकाः शय्यन्ते॑ इति भाष्ये धात्वर्थनिर्देशे ण्वुलि कृदभिहितो भावो द्रव्यवत्प्रकाशत इत्यासिकाः शायिका इत्यत्र बहुवचनसिद्धावपि आस्यन्ते शय्यन्ते इत्यत्र तन्न सिध्येत् । न च कर्मण्येवाऽत्र लकारोऽस्त्विति शङ्क्यम्, धातुद्वयस्याप्यकर्मकत्वेन तदसंभवात्, अर्थाऽसङ्गतेश्च । तत्र ह्रुष्ट्राणां यादृशान्यासनानि हतानां यादृशानि शयनानि तादृशानि देवदत्तादि कर्तृकान्यासनादीनीत्यर्थः । सादृश्यावगमादिह आख्यातवाच्यस्यापि भावस्य भेदाऽवभासाद्बहुवचनम् । न चैवं सङ्क्यान्वयित्वे असत्त्वरूपता न स्यादिति वाच्यम्, लिङ्गक्रियाऽनाधारकारकयोगाऽभावमात्रेणाऽसत्त्वरूपत्वमुपपद्यत इति कारकेषूक्तत्वात् । केचिदिह उष्ट्रासिका — हतशायिकाशब्दयोस्तत्सदृशे लक्षणां स्वीकृत्य आस्यन्त इत्यादिना अभेदान्वयमाहुः । मनोरमायां तु आसिकाः शायिका इति च द्वितीयाबहुवचनं, क्रियाविशेषणत्वेन कर्मत्वात् । न चैवं क्लीबत्वमेकवचनान्तत्वं च स्यादिति वाच्यम्,स्त्रियां क्त॑न्नित्यधिकारात्स्त्रीत्वाऽवधारणेनसामान्ये नपुंसक॑मित्यस्याऽप्रवृत्तेः । बहुवचनत्वावधारणेनैकवचनाप्रवृत्तेश्चेत्युक्तम् ।
Padamanjari¶
सार्वदातुके यक्॥ इहाशिषि लिङ् इलिटि चान्तरेणापि विकरणं सर्वेष्वेव धातुषु तिङमेव सद्भावे भावकर्मकर्तारस्त्रयोऽपि प्रतीयन्ते - -भविषीष्ट त्वया, कृषीष्ट घटः, भूयात्, क्रियात्, बभूवे, चक्रे घटः, बभूव, चकारेति। अतिजुहोल्यादौ कर्ता। क्वचितिङमभावेऽपि प्रतीयन्ते त्रयोऽप्यमी। अशाय्यकारि गच्छेति चिणः सन्निधिमात्रतः॥ अधोगबिभरित्यादौ धातुमात्रेऽपि कर्तृधीः। तथा व्यतिस इत्यादौ धात्वभावेऽपि कर्तृधीः॥ एवं स्थिते भूयोविषयाभ्यामन्तवयव्यतिरेकाभ्यां शब्दार्थावसायः। व्यभिचारभूमिषु तु तस्मिंस्तस्मिन्विषये तस्य तस्य शब्दस्य स स महिमेति कल्पयितुमुचि तम्। न पुनः क्वचिद्व्यभिचारदर्शनेन सर्वत्रानाश्वासः। ताद्दशौ चान्वयव्यतिरेकौ तिङमेवेति तेषामेव भावकर्मकर्तारो वाच्याः। सूत्रकारोऽप्याह -‘लः कर्मणि च भावे चाकर्मकेभ्यः’ इति, लादेशाश्च तिङ्ः, ततोऽपि तेषामेव तेऽर्था इति मन्यमान आह - भावकर्मवाचिगि सार्वधातुके परत इति। उतरसूत्रे च कर्तृवाचिनि सार्वधातुके परत इति शय्यत इति। ठयङ् चि क्ङितिऽ। अथ यदा द्वौ कर्तारौ बहवो वा, तदा कथमास्यते भवद्भ्याम्, आस्यते भवद्भिः - द्विवचनबहुवचने कस्मान्न भवतः? भावे भेदाभावाद्। धत्वर्थो हि भावः। कर्तृभेदेऽपि नावश्यं धात्वर्थो भिद्यते यतः। एकामेव क्रियाव्यक्ति बहुषूत्पादयत्स्वपि॥ द्दष्टमेते पचन्तीति कर्मभेदोऽपि ताद्दशः। पश्यैकस्यां क्रियाव्यक्तौ पच्यन्ते तण्डुला इति॥ न कालभेदे शब्दैक्यमास्यासिष्यत आस्यते। पाकौ पाका इति त्वत्र शब्दैक्यादेकशेषता॥ अतश्च - निवुतभेदा सर्वैव क्रियाऽऽख्यातेभिधीयते। श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना॥ इति। तदेवमाख्यातेन भावस्वरूपगतो भेदः प्रतीयत इति द्विवचनबहुवचनाभावः। यत्र तु स्वरूपगत एव भेदस्तत्र भवत्येव, यथा - उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते इति। उष्ट्राणां ह्यासिकाः स्वत एव विलक्षणाः, हताश्च नानाप्रकारं शेरते उताना अवाताना विकीर्णकशा विस्रस्तवस्त्रा इति तत्साम्यादाख्यातवाच्यस्यापि भावस्य स्वरूपगतभेदावभासाद् बहुवचनम्। इवशब्दप्रयोगमन्तरेणापि चेवार्थावगतिर्भवति, तदयमर्थः - याद्दशानि हतानामनेकप्रकाराणि शयनानि ताद्दशानि देवदतादिभिः क्रियन्त इति। केचित्वत्र कर्मणि लकारमिच्छन्ति, उष्ट्रासिकाहतशायिकालक्षणस्य भावस्यः’कालाभावाध्वगन्तव्याः’ इति कर्मत्वात्, यथा - गोदोहः सुप्यते इति। ककारो गुणवृद्धिप्रतिषेधार्थ इति। मृज्यत इत्यत्र वृद्धिप्रतिषेधः। यग्विधान इति। ननु च’कर्मवत्कर्मणा तुल्यक्रियः’ इत्यतिदेशादेव यक् सिद्धः, किमुपसङ्ख्यानेन तत्राह - विप्रतिषेधाद्धीति। यदा’कर्मवत्कर्मणा’ इत्ययं शास्त्रातिदेशः, तदा तेनतेन शास्त्रेण कर्मकार्याणि भवन्ति। तत्र कर्मणि यग्भवतीत्यस्यावकाशः - शुद्धं कर्म, पच्यते ओदन इति; कर्तरि शबित्यस्यावकाशः - शुद्धः कर्ता, भवति पचतीति; कर्मकर्तर्युभयप्रसङ्गे परत्वाच्छबेव स्यादित्यर्थः। ततर्हि उपसङ्ख्यानं कर्तव्यम्? न कर्तव्यम्;’न दुहस्नुनमां यक्चिणौ’ इति यक्प्रतिषेधो ज्ञापयति - भवति कर्मकर्तरि यगिति। कार्यातिदेशे तु तस्मिंस्तेनैव सूत्रेण भवन्यगेव परो भवति॥
Nyaas¶
भावकर्मणोरित्यनुवर्तते,तच्चेह सार्वधातुकस्य विशेषणमिति दर्शयन्नाह - भावकर्मवाचिनि इत्यादि। भावकर्मणोरर्थयोर्वर्तते यत् सार्वधातुकं तद्भावकर्मवाचि। ताच्छील्य आवश्नके णिनिः। अथैवं कस्मान्न भवति - भावकर्मणोरभिधेययोः सार्वधातुके परतो यग्भवतीति? अशक्यमेवं वक्तुम्; सार्वधातुकवाच्यत्वेन भावकर्मणोः शास्त्रे प्रतिज्ञानात्। कुत एतदिति चेत्? लः कर्मणि च भावे चाकर्मकेभ्यः (3.4.69) इति वचनात्। ननु चाकारि कटो भवता, अशायि भवता, अबिभर्भवानित्यादौ सार्वधातुकाभावेऽपि कर्मादीनां प्रतीयमानत्वात् सार्वधातुकार्थता नोपपद्यते; न हि यो यदभावे प्रतीयते स तस्यार्थो युज्यते, अन्वयव्यतिरेकसमधिगम्यत्वादर्थस्य? नैष दोषः; न ह्रयं नियमः - अन्वयव्यतिरेकसमधिगम्यत्वादर्थवत्तया। भवितव्यमिति, किं तर्हि? प्रतिज्ञा। प्रापिता च सा भवति यथा क्विबादीनाम्। अस्ति च सार्वधातुकस्येति यत्किञ्चिदेतत्। शय्यते इति।अयङयि क्ङिति (7.4.22) इत्ययङादेशः।ययग्विधाने इत्यादि। ननु च कर्मवदित्यतिदेशादेव यग्भविष्यतीति किमुपसंख्यानेनेत्यत आह - विप्रतिषेधाद्धि इत्यादि। कर्तरि शप् (3.1.68) इत्यस्यावकाशः - शुद्धः कर्ता भवतीति; सार्वधातुके यक् (3.1.67) इत्यस्यावकाशः- शुद्धं कर्म, पच्यत ओदन इति। पच्यत ओदनः स्वयमेवेत्यत्र कर्मवद्भावाद्यक्? प्राप्नोति, वत्करणात् स्वाश्रयकमपि यथा स्यादिति कर्त्तृत्वस्य सम्भवाच्छबपि, तत्र परत्वाच्छबेव स्यात्। शशास्त्रं यक्शास्त्रात् परं भवति, तस्मात् कर्मकर्तरि यक उपसंख्यानम् = प्रतिपादनं कर्तव्यम्। प्रतिपादनं त्विदम् - ज्ञापकात् कर्मकर्तर्यपि यग्भविष्यतीति। किं तज्ज्ञापकम्? न दुहस्नुनमां यक्चिणौ (3.1.89) इति प्रतिषेधः। यदि हि कर्मकर्तरि यग्न स्यात् प्रतिषेधोऽनर्थकः स्यात्। विप्रतिषेधाद्धि शपो बलीयस्त्वं शास्त्रातिदेशत्वमभ्यपेत्योक्तम्, न त्वसौ शास्त्रातिदेशः, किं तर्हि? कार्यातिदेशः। कार्यातिदेशसूत्रमेव स्वतन्त्रं यगादेः कार्यस्य विधायकम्, तच्च परम्; अतो विप्रतिषेधाद्यक एव बलीयस्त्वम्॥
Prakriyasarvasvam¶
भावकर्मार्थे सार्वधातुके परे धातोर्यक्प्रत्ययः स्यात् । इति शस्य भावार्थत्वाद् यक् । कृ य अ ।।
Sutra Prayogas¶
विद्येवाऽनुष्ठित-क्रियान् (भट्टिकाव्यम्): सार्वधातुके यक् इति यक् ।