31066: चिण् भावकर्मणोः

Padacheda: चिण् | S | 1 | 1 |

भावकर्मणोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

चिण् is the substitute of च्लि when त -3rd Person Singular आत्मनेपद follows, denoting the action (भाव) or the object कर्म्म।

Vasu English Translation

चिण् is the substitute of च्लि when त -3rd Person Singular आत्मनेपद follows, denoting the action (भाव) or the object कर्म्म। A verb is said to denote an action when it is used impersonally; and it is said to denote an object when used in the Passive sense. As अशयि भवता ‘it was lain by you i.e. you lay’; अकारि कटो देवदत्तेन; the mat was made by Devadatta’. The repetition of चिण् here is for the sake of distinctness.

Bhashya

चिण् भावकर्मणोः (683) (421 च्लेश्चिणादेशविधिसूत्रम्। 3.1.4 आ .9) (चिण्ग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) चिणिति वर्तमाने पुनश्चिण्ग्रहणं किमर्थम्?। (समाधानभाष्यम्) नेत्येवं तदभूद् विध्यर्थमिदम्॥ (भाष्यम्) अथ वा चिणिति वर्तमाने पुनश्चिण्ग्रहणस्यैतत्प्रयोजनं चिणेव यथा स्याद् यदन्यत्प्राप्नोति तन्माभूत्। चिण् भाव॥ 66 ॥

Kashika

धातोः परस्य च्लेश्चिणादेशो भवति भावे कर्मणि तशब्दे परतः। भावे तावत् — अशायि भवता। कर्मणि खल्वपि — अकारि कटो देवदत्तेन। अहारि भारो यज्ञदत्तेन। चिण्ग्रहणं विस्पष्टार्थम्॥

Siddhanta Kaumudi

च्लेश्चिण् स्वाद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत । अभविष्यत । तिङोक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दश्चैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम् । अन्वभविषाताम् । णिलोपः । भाव्यते । भावयांचक्रे । भावयांबभूवे । भावयामासे । इह तशब्दस्य एशि इट एत्वे च कृते ह एतीति हत्वं न । तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादौ सार्वधातुके एव ह एति (SK2250) इति हत्वप्रवृत्तेरित्याहुः । भाविता । चिण्वदिट आभीयत्वेनासिद्धत्वाण्णिलोपः । पक्षे भावयिता । भाविष्यते । भावयिष्यते । भाव्यताम् । अभाव्यत । भाव्येत । भाविषीष्ट । भावयिषीष्ट । अभावि । अभाविषाताम् । अभावयिषाताम् । बुभूप्यते । बुभूषांचक्रे । बुभूषिता । बुभूषिष्यते । बोभूय्यते । यङ्लुगन्तात्तु । बोभूयते । बोभवांचक्रे । बोभाविता । बोभविता । अकृत्सार्व-(SK2298) इति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता । स्तोता । स्ताविष्यते । स्तोष्यते । अस्तावि । अस्ताविषाताम् । अस्तोषाताम् । गुणोर्ति (SK2380) इति गुणः । अर्यते । स्मर्यते । सस्मरे । परत्वान्नित्यत्वाच्च गुणे रपरे कृतेऽजन्तत्वाभावेऽप्युपदेशग्रहणाच्चिण्वदिट् । आरिता । अर्ता । स्मारिता । स्मर्ता । गुणोऽर्ति-(SK2380) इत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुणः । संस्क्रियते । अनिदिताम्-(SK415) इति नलोपः । स्रस्यते । इदितस्तु नन्द्यते । संप्रसारणम् । इज्यते । अयङ् यिक्ङिति (SK2649) । शय्यते ॥

Laghu Siddhanta Kaumudi

च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे। अभावि। अभाविष्यत, अभविष्यत। अकर्मकोऽप्युपसर्गवशात्सकर्मकः। अनुभूयते आनन्दश्चैत्रेण त्वया मया च। अनुभूयेते। अनुभूयन्ते। त्वमनुभूयसे। अहमनुभूये। अन्वभावि। अन्वभाविषाताम्, अन्वभविषाताम्। णिलोपः। भाव्यते। भावयाञ्चक्रे, भावयाम्बभूवे, भावयामासे। चिण्वदिट्। आभीयत्वेनासिद्धत्वाण्णिलोपः। भाविता, भावयिता। भाविष्यते, भावयिष्यते। अभाव्यत। भाव्येत। भाविषीष्ट, भावयिषीष्ट। अभावि। अभाविषाताम्, अभावयिषाताम्॥ बुभूष्यते॥ अकृत्सार्वधातुकयोर्दीर्घः। स्तूयते विष्णुः। स्ताविता, स्तोता। स्ताविष्यते, स्तोष्यते। अस्तावि। अस्ताविषाताम्, अस्तोषाताम्॥ ऋ गतौ। गुणोऽर्तीति गुणः। अर्यते॥ स्मृ स्मरणे। स्मर्यते। सस्मरे। उपदेशग्रहणाच्चिण्वदिट्। आरिता, अर्ता। स्मारिता, स्मर्ता। अनिदितामिति नलोपः। स्रस्यते। इदितस्तु नन्द्यते। संप्रसारणम्। इज्यते॥

Balamanorama

चिण् भावकर्मणोः - चिण्भावकर्मणोः । च्लेरिति ।च्लेः सि॑जित्यतस्तदनुवृत्तेरिति भावः । तशब्दे परे इति । तशब्दे परे इति । ‘चिण् ते पदः’ इत्यतस्तदनुवृत्तेरिति भावः अभावीति । च्लेश्चिणि कृतेचिणो लु॑गिति तशब्दस्य लोपः । चिण्विधौ तशब्दे किम् । अभाविषात् । अथ अनुपूर्वाद्धूधातोरुपभोगार्थकात्सकर्मकात्कर्मणि लकारे विशेषमाह - तिङोक्तत्वादिति । कर्तुस्त्वनभिहित्वात्तृतीयैवेति भावः । युष्मदस्मदुपात्तयोः कत्र्रोस्त्वनभिहितत्वातत्तृतीया । अनूभूयेते इति । ‘सुखदुःखे’ इति शेषः । अनुभूयन्ते इति ।सुखानी॑ति शेषः । णिलोप इति । भूधातोर्णौ वृद्दधौ आवादेशे भावीति ण्यन्तात्कर्मणि लटस्तादेशे यकि णिलोप इत्यर्थः । भावयामासे इति । प्रथमपुरुषैकवचने, उत्तमपुरुषैकवचने च रूपम् । इहेति । ‘भावयामासे’ इत्यत्र प्रथमैकवचनतशब्दस्यलिटस्तझयो॑रिति एशादेशे उत्तमपुरुषैकवचनस्य इटश्चटित आत्मनेपदाना॑मित्येत्त्वे च कृते भावयमामास् ए इति स्थितेह एती॑ति सकारस्य हकारः प्राप्तो न भवतीत्यर्थः । कुत इत्यत आह — तासीति ।ह एती॑त्यत्र तासस्त्योरित्यनुवर्तते । तत्र एधिताहे इत्यादौ तासेः सार्वधातुक एव एति परे हकार इति निर्विवादम् । तथाविधतासिसाहचर्यादस्तेरपि सकारस्य ‘व्यत#इहे’ इत्यादौ सार्वधातुक एव परे प्रवृत्तिः । अतोभावयामासे इत्यत्र नाऽस्तेः सकारस्य हकारः, एकारस्यार्धधातुकत्वादित्यर्थः । भावितेति । ण्यन्तात् भावि- ता इति स्थिते परत्वाद्वलादिलक्षणमिटं बाधित्वा चिण्विदिटि तस्याऽऽभीयत्वेनाऽसिद्धत्वादनिटीति निषेधाऽभावाण्णिलोपे भावितेति रूपम् । अतएव चिण्वदिड्विधौउपदेशे योऽ॑जित्येव व्याख्यातम्, नतुउपेदशे अजन्तस्ये॑ति, तथा सति हि णिजन्तस्य उपदेशाऽभावान्न स्यादिति भावः । वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन असिद्ध्तवाऽभावादनिटीति निषएधाण्णिलोपाऽभावे णेर्गुणाऽयादेशयोः कृतयोर्भावयितेति रूपमिति मत्वा आह — पक्षे भावयितेति । अथ सन्न्नताद्भूधातोर्भावलकारे उदाहरति — बूभूष्यते इति । यकि सनोऽकारस्य ‘अतो लोपः’ इति लोपः । बूभूषिता । बुभूषिष्यते इति । चिण्वदिटि वलादिलक्षणे इटि च रूपं तुल्यम् । चिण्वदिड्भावपक्षे ।ञपि तदतिदेशेन प्राप्तां वृदिंध बाधित्वा परत्वादतो लोपः । अथ यङन्ताद्भूधातोर्भावलकारे उदाहरति — बोभूय्यते इति । यकि यङोऽकारस्य पूर्ववदतो लोपः । द्वियकारकं रूपम् । यङलुगन्ताद्बोभूयते इति एकयकारं रूपम् । ष्टुञ्धातोः कर्मलकारे यकि तस्यार्धधातुकत्वात्अतो दीर्घो यञी॑त्यप्राप्तावाह — अकृत्सार्वेति । स्ताविता स्तोतेति । चिण्वदिडभावपक्षेऽनिट्कत्वान्नेट् । अथ ऋधातोः कर्मणि लकारे यकि कृते कित्त्वाद्गुणनिषेधे प्राप्ते आह - गुणोऽर्तीति । अर्यते इति । गुणे कृते रपरत्वम् ।स्मृ॑धातोः कर्मणि लकारे आह — — स्मर्यते इति ।गुणेऽर्ती॑ति संयोगादित्वाद्गुणे रपरत्वमिति भावः । ननु लुटि ऋ ता, स्मृ इति स्थिते चिण्वदिटं बाधित्वा परत्वाद्गुणः प्राप्नोति, नित्यत्वाच्च, अकृते कृते च चिण्वदिटिगुणस्य प्राप्तेः । कृते तु गुणे रपरत्वेऽजन्तत्वाभावच्चिण्वदिडभावे अनिट्त्वाद्वलादिलक्षणेऽभावे अत स्मर्तेत्येव स्यात्, आरिता स्मारितेति न स्यादित्यत आह — परत्वादित्यादि । कृते गुणे रपरत्वे अजन्तत्वाऽभावेऽपि उपदेशे योऽच् तदन्तस्येत्युक्तेश्चिण्वदिण्निर्बाध इत्यर्थः । आरितेति । कृतेऽपि गुणे रपरत्वे चिण्वदिटि उपधावृद्धिः । अर्तेति । चिण्वदिडभावे रूपम् । एवं स्मारिता स्मर्तेत्यपि । ननु संपूर्वात्कृञः कर्मणि लकारे यकिरिङ् शयग्लिङक्षुट इति रिङादेशेसंपरिभ्यां करोतौ भूषणे, समवाये चे॑ति सुटि संस्क्रियते इति वक्ष्यते । तत्रगुणोऽर्ती॑ति संयोगादित्वाद्गुणः स्यादित्यत आह — नित्यग्रहणानुवृत्तेरिति ।नित्यं छन्दसी॑त्यतो नित्यमित्यनुवृत्तेः गुणो॑र्ती॑त्यत्र नित्यं यः संयोगादित्यस्यैव संयोगादिस्तस्यैव संयोगादिलक्षणो गुण इति लभ्यते । कृञ्तु न नित्यं संयोगादिः, संपरिपूर्वकत्वाऽभावे तदभावादिति भावः । अथ रुआंस्धातोर्भावलकारे यकि विशेषमाह — अनिदितामिति नलोप इति । इदितस्त्विति । ‘टु नदि समृद्धौ’ इत्यस्माद्भावलकारे यकि इदित्त्वान्नलोपो नेत्यर्थः । अथ यजधातो कर्मलकारे यकि विशेषमाह — संप्रसारणमिति ।वचिस्वपियजादीना॑मित्यनेनेति भावः । शीङ्धातोर्भावलकारे यकि विशेषमाह — अयडि क्ङितीति ।

Tattvabodhini

चिण् भावकर्मणोः - चिण्भावकर्मणोः ।च्लेः सि॑जित्यश्च्लेरिति,चिण्ते पदः॑ इत्यतस्ते इति चानुवर्तते । तत्रत्यं तु चिण्ग्रहणंन रुवः॑ इति निषेधेन तिरोहितमिति पुनरत्र चिण्ग्रहणं कृतम् । तशब्दे किम् । अभाविषाम् । चिण्वदिट इति । ण्यन्तस्य धातोरुपदेशाभावेऽप्युपदेशे योऽजिति व्याख्यानाच्चिण्वदिडिह प्रवर्तत एवेति भावः । परत्वादिति । चिण्विदिडपेक्षया । नित्यत्वादिति । न च कृते चिण्वदिटि वृद्धिप्रवृत्त्या गुणस्य नित्यत्वं नेति शङ्क्यम्,अचो ञ्णिती॑ ति वृदिंध बाधित्वा परत्वाद्गुणे रपरत्वे च पश्चात्अत उपधायाः॑ इति वृद्धिप्रवृत्त्या गुणस्य नित्यत्वाऽनपायात् । उपदेशग्रहणादिति । तत्सामर्थ्यादुपदेशे योऽच्, तदन्तत्वमृधातोव्र्यपदेशिवद्भावेन यत्स्थितं तदादाय ण्यन्तादप्यारितेत्यादौ चिण्वदिट् प्रवर्तत इति भावः । नन्वेवं स्मारितेत्यादिर्न सिध्येत्,स्म॑ इत्यस्य उपदेशे योऽच् तदन्तत्वाऽभावात् ।उपदेशेऽजन्ताना॑मिति व्याख्याने तु ण्यन्तस्य न स्यादित्युक्तत्वादिति चेत् । सत्यम् । अत एवाऽपरितोषामन्मनोरमायामुक्तम् — अस्तु वा उपदेशे यदजन्तं तस्ये॑ति व्याख्यानम् ।अङ्गस्ये॑ति व्यधिकरणषष्ठी ।अङ्गावयवस्याजन्तस्येत्यर्थ॑ इति । एवं च णिजन्तेऽपि शामितेत्यादौ चिण्वदिट् सिध्यति, व्यपेशिवद्भावेन णिजेव णिजन्तः, तदवयवकं शामीत्यङ्गमित्याश्रयणात् । आरिता स्मारितेत्याद्यपि सिध्यति । ऋधातुः स्मृधातुश्चोपदेशेऽजन्तस्तदवयवकं भवत्यार् स्मारित्यङ्गमिति दिक् । नित्यग्रहणानुवृत्तेरिति ।नित्यं छन्दसी॑ति सूत्रात् । काशिकायां तु — सुटो बहिरङ्गलक्षणस्याऽसिद्धत्वादभक्ताद्वा संयोगादिंत्वमङ्गस्य नास्तीति गुणोऽत्र न प्रवर्तत इत्युक्तम् ।सुट्कात्पूर्व॑ इति विधीयमानः कभक्तो, न त्वङ्गभक्तस्तेनाऽसंयोगाद्येव अङ्गमित्यभक्तत्वादित्यस्याशयः ।

Padamanjari

चिण् भावकर्मणोः॥ चिण्ग्रहणं विस्पष्टार्थमिति।’चिण् ते पदः’ इत्यतस्तेशब्दवदनुवृतेः। यतु दीपजनेत्यादावन्यतरस्यांग्रहणम्, तन्न; रुधऽ इति तत्प्रतिषेधविधावेव निवृतम्, अन्यथा प्रतिषेधविधानमनर्थकं स्यात्। न च प्रतिषेधस्यानुवृत्तिशङ्का, प्राप्तिपूर्वको हि प्रतिषेधः। न च भावकर्मणोः केनचिच्चिणः प्राप्तिरस्ति॥

Nyaas

भावकर्मणोरर्थयोः इति। तशब्दस्येदं विशेषणम्। भावकर्मणोर्यस्तशब्दः इति। अथ चिण्ग्रहणं किमर्थम्? यावता चिण् ते पदः (3.1.60) इत्यतश्चिण्ग्रहणमनुवर्तत एव? स्यादेतत् - दीपजन (3.1.61) इत्यन्यतरस्यांग्रहणेन न रुधः (3.1.64) इति निषेधेन च सम्बद्धं तत्, अतो यदि तदनुवर्तेत तत्सम्बद्धमेवानुवर्तेतेति, एतच्च नास्ति; अनयतरस्यांग्रहणस्य पूर्वयोरेव योगयोर्निवर्तितत्वात्, प्राप्तिपूर्वकत्वाच्च निषेधस्य। यदि भावकर्मणोश्चिणः प्राप्तिः स्यात्, तदा तत्प्रतिषेधार्थं नेत्यस्यानुवृत्तिः स्यात्। न च तयोस्तस्य केनचित् प्राप्तिः; चिण्विधौ सर्वत्र कर्तरित्यनुवृत्तेः। तदपार्थकं पुनश्चिण्ग्रहणमित्याह - चिण्ग्रहणं विस्पष्टार्थम् इति। असति चिण्ग्रहणे मन्दधियः प्रतिपत्तिगौरवं स्यात्, अतस्तमनुग्रहीतुं न्यायप्राप्तस्यैवार्थस्य स्पष्टीकरणाय पुनश्चिण्ग्रहणम्॥

Prakriyasarvasvam

भावकर्मणोस्तशब्दे परे च्लेश्चिण् स्यात् । चणावितौ । भू इ त ।

Sutra Prayogas

  • अकारि (शिशुपालवधम्): चिण् भावकर्मणोः इति चिण् ।

  • समपादि (शिशुपालवधम्): चिण् भावकर्मणोः इति चिण्प्रत्ययः।

  • अन्वभावि (भट्टिकाव्यम्): चिण् भावकर्मणोः इति चिण्।

  • समभावि (भट्टिकाव्यम्): चिण् भावकर्मणोः इति भावे चिण्।

  • प्रत्यवादि (भट्टिकाव्यम्): चिण् भावकर्मणोः इति चिण् ।