31019: नमोवरिवश्चित्रङः क्यच्¶
Padacheda: नमो-वरिवस्-चित्रङः | S | 5 | 1 |
क्यच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix in the sense of ‘making’, comes after these words, as the object of the action, viz. नमस् ‘adoration’, वरिवस् ‘honour’, चित्र ‘wonder’.
Vasu English Translation¶
The affix in the sense of ‘making’, comes after these words, as the object of the action, viz. नमस् ‘adoration’, वरिवस् ‘honour’, चित्र ‘wonder’. Thus नमस्यति देवान्, ‘he worships the gods’; वरिवस्यति गुरून्, ‘he honors or serves the elders’; चित्रीयते ‘he astonishes (makes it wonderful)’. The ङ् in चित्रङ् indicates that it takes the affixes of the Atmanepada. (चित्र + य = चित्री + य (7.4.33) = चित्रीय).
Bhashya¶
नमोवरिवश्चित्रङः क्यच् (636) (397 क्चच्प्रत्ययविधिसूत्रम् ॥ 6.1.2 आ. 10 सूत्रम्) (वृत्तिघटकनमः शब्दयोगे द्वितीयोपपत्त्यधिकरणम्।) (1758 द्वितीयानुपपत्तिवार्तिकम् ॥ 1 ॥) - नमसः क्यचि द्वितीयानुपपत्तिः- (भाष्यम्) नमसः क्यचि द्वितीया नोपपद्यते। नमस्यति देवानिति ॥ किं कारणम्?। नमः शब्देन योगे चतुर्थी विधीयते सा प्राप्नोति ॥ (1759 चतुर्थीप्राप्त्यभाववार्तिकम् ॥ 2 ॥) - प्रकृत्यन्तरत्वात् सिद्धम्- (भाष्यम्) नमः शब्देन योगे चतुर्थी विधीयते। नमस्यतिशब्दश्चायम् ॥ (चतुर्थीप्राप्तिसाधकभाष्यम्) ननु च नमस्यतिशब्दे नमः शब्दोऽस्ति। तेन योगे प्राप्नोति ॥ (चतुर्थीप्राप्तिबाधकभाष्यम्) नैष दोषः। अर्थवतो नमः शब्दस्य ग्रहणम्। न च नमस्यतिशब्दे नमः शब्दोर्थवान् ॥ (एकदेशिसमाधानभाष्यम्) अथ वा - उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति द्वितीया विभक्तिर्भविष्यति ॥ अथ वेति ॥ (प्रत्ययार्थनिर्देशाधिकरणम्) (1760 न्यूनतापूरकवार्तिकम् ॥ 3 ॥) - क्यजादिषु प्रत्ययार्थनिर्देशः- (भाष्यम्) क्यजादिषु प्रत्ययार्थनिर्देशः कर्तव्यः। नमसः पूजायाम्। वरिवसः सपर्यायाम्। चित्रङ आश्चर्ये। भाण्डात्समाचयने। चीवरादर्जने परिधाने च। पुच्छादुदसने व्यसने पर्यसने चेति। किं प्रयोजनम्? । क्रियावचनता यथा स्यात् ॥ (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति - -क्रियावचनाः क्यजादयः इति। यदयं सनाद्यन्ता धातवः इति धातुसंज्ञां शास्ति ॥ कथं कृत्वा ज्ञापकम्?। धातुसंज्ञावचन एतत्प्रयोजनं धातोः इति तव्यदादीनामुत्पत्तिर्यथा स्यात्। यदि चात्र क्रियावचनता न स्याद् धातुसंज्ञावचनमनर्थकं स्यात्। सत्यामपि धातुसंज्ञायां तव्यदादयो न स्युः। किं कारणम्?। साधने तव्यदादयो विधीयन्ते। साधनं च क्रियायाः। क्रियाया अभावात्साधनाभावः। साधनाभावात्सत्यामपि धातुसंज्ञायां तव्यदादयो न स्युः। पश्यति त्वाचार्यः क्रियावचनाः क्यजादयः इति, ततः सनाद्यन्ता धातवः इति धातुसंज्ञां शास्ति ॥ (प्रयोजनान्तरभाष्यम्) ननु चेदं प्रयोजनं स्यात् परसाधने तव्यदादीनामुत्पत्तिं वक्ष्यामीति ॥ (प्रयोजनान्तरनिराकरणभाष्यम्) न परसाधने उत्पत्त्या भवितव्यम्। किं कारणम्?। साधन इति संबन्धिशब्दोऽयम्। संबन्धिशब्दाश्च पुनरेवमात्मका यदुत संबन्धिनमाक्षिपन्ति। तद्यथा - मातरि वर्तितव्यं पितरि शुश्रूषितव्यमिति। न चोच्यते - स्वस्यां मातरि स्वस्मिन् पितरीति। संबन्धाच्चैतद् गम्यते - -या यस्य माता, यश्च यस्य पितेति। एवमिहापि संबन्धादेतद् गन्तव्यम् - यस्य धातोर्यत् साधनमिति ॥ (प्रत्ययार्थनिर्देशवैर्यथ्यभाष्यम्) अथ वा धातव एव क्यजादयः ॥ (आक्षेपभाष्यम्) न चैव ह्यर्था आदिश्यन्ते ॥ (उत्तरभाष्यम्) क्रियावचनता च गम्यते। कः खल्वपि पचादीनां क्रियावचनत्वे यत्नं करोति येनैव खल्वपि हेतुना पचादयः क्रियावचनाः, तेनैव क्यजादयोऽपि। एवमर्थे खल्वप्याचार्यश्चित्रयति क्वचिदर्थानादिशति, क्वचिन्नेति ॥ (अर्थादेशावश्यकताभाष्यम्) एवमप्यर्थादेशनं कर्तव्यम्। कथमिमे अबुधा बोध्येरन्निति ॥ (अर्थादेशवैर्यथ्यभाष्यम्) अथ वा शक्यमेवार्थादेशनमकर्तुम्। कथम्?। करणे इति वर्तते। करणं च करोतेरर्थः। करोतिश्च क्रियासामान्ये वर्तते ॥ नमो वरि ॥ 19 ॥
Kashika¶
करण इति वर्तते। नमस् वरिवस् चित्रङ् इत्येतेभ्यो वा क्यच् प्रत्ययो भवति, करणविशेषे पूजादौ। नमसः पूजायाम् — नमस्यति देवान्। वरिवसः परिचर्यायाम् — वरिवस्यति गुरून्। चित्रङ आश्चर्ये — चित्रीयते। ङकार आत्मनेपदार्थः॥
Siddhanta Kaumudi¶
करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥
Balamanorama¶
नमोवरिवश्चित्रङः क्यच् - नमोवरिवस् । नमस्, वरिवस्, चित्रङ् एषां समाहारद्वन्द्वात्पञ्चमी । आत्मनेपदार्थं चित्रशब्दो ङिन्निर्दिष्टः ।शब्दवैरे॑त्यतः करणे इत्यनुवर्तते । करणं - क्रिया । सा च पूजापरिचर्याऽऽश्चर्यात्मिका विवक्षिता,नमसः पूजायां॑वरिवसः कारकविभक्तेर्बलीयस्त्वाद्द्वितीया । परिचर्या शुश्रूषेति मत्वाह — शुश्रूषते इत्यर्थ इति । आश्चर्यशब्दो विस्मयवाचीति मत्वाह- विस्मयते इत्यर्थ इति । विस्मापयते इत्यन्ये इति । आश्चर्यशब्दो विस्मापनपर इति भावः ।ततश्चित्रीयमाणोऽसा॑विति भट्टिः । असौ — मायामृगो विस्मयमुत्पादयन्नित्यर्थः ।
Tattvabodhini¶
नमोवरिवश्चित्रङः क्यच् - नमोवरिवः । चित्रङः क्य्जविधानामीत्वार्थं, ङित्करणं तु तङर्थम् । विस्मापयत इत्यन्य इति । तथा च भट्टिः — ततश्चित्रीयमाणोऽसौ॑ इति । असौ = मायामृगश्चित्रीयमाणो = विस्मयमुत्पादयन्नित्यर्थः ।
Padamanjari¶
नमोवरिवश्चित्रडः क्यच्॥ करणविशेषे पूजादाविति।’करणे’ इति सामान्यानुवृतावप्यभिधानशक्तिस्वाभाव्याद्विशेष उपलभ्य इति भावः। नमस्यति देवानिति।’नमः स्वस्तिस्वाहा’ इति चतुर्थी न भवति, प्रत्ययार्थे गुणीभूतस्य नमः शब्दस्य निष्कृष्य सम्बन्धाभावात्। अथ वा - नमस्यति नमस्कारेण पूजयतीत्यर्थः। तत्र ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति द्वितीयेव भवति। एवं च नमस्करोति देवानित्यादावपि द्वितीयेव भवति। परिचर्यायामिति। परिचर्याउ शुश्रूषा। चित्रीयते इति। अवयवकृतं लिङ्गं समुदायस्य विशेषकं भवतीति क्यजन्तादात्मनेपदं भवति,’क्यचि च’ इतीत्वम्। एतदर्थमेव च शब्दवैरादिसूत्रे चित्रशब्दो न पठितः। चित्रीयत इति। विस्मयत इत्यर्थ इत्येके। विस्मापयत इत्यर्थ इत्यन्ये। तथा च भट्टिकाव्ये मायामृगं प्रकृत्य भवति’ततश्चित्रीयमाणो’ सौऽ इति॥
Nyaas¶
करणविशेषे पूजाद्वौ इति। आदिशब्देन परिचर्याश्चर्ययोग्र्रहणम्। नमसः इत्यादिनाऽनन्तरस्योक्तार्थस्य विषयविभागं दर्शयति। एष चार्थो यद्यपि करण इति करणसामान्यमनुवर्तते, तथाप्यभिधानशक्तिस्वाभाव्यल्लभ्यते विनापि वचनेन, यथा - पचादीनां विक्लेदादिषु वृत्तिः, बहुव्रीहेश्च मत्वर्थे। नमस्यति देवान् इति। ननु च नमस्यतिशब्दे नमःशब्दोऽस्ति, अतस्तद्योगे नमः स्वस्ति (2.3.16) इत्यादिना चतुथ्र्या भवितव्यम्? नैतदस्ति; अर्थवद्ग्रहणे नानर्थकस्य (व्या।प।1) इत्यर्थवतो नमःशब्दस्य कर्त्तुमशक्यत्वात्। अथ वा - उपपदविभक्तेः कारकविभक्तिर्बलीयसी (चां।प।69) इति द्वितीयैव भवति। उपपदसम्बन्धनिरपेक्षत्वात् कारकविभक्तेर्बलीयस्त्वम्। उपपदविभक्तेस्तु पदान्तरसापेक्षत्वाद्दुर्बलत्वम्। नमस्यति इति। नमस्कारं करोतीत्यर्थः। वरिवस्यति। परिचरीत्यर्थः। चित्रीयते इति। विस्मापयत इत्यर्थः॥
Prakriyasarvasvam¶
एभ्यः कृञर्थे क्यच् । ‘नमः पूजायाम्’ (वा) । नमस्यति कृष्णम् । “वरिवसः परिचर्यायाम्” (वा) । वरिवस्यति गुरुम् । ‘चित्रङ आश्चर्यानुभवे” (वा) परस्या- श्चर्यकरणे वा । ङिदुक्त्या तङ् । चित्रीयते द्रष्टारः । चित्रीयते शूरः । लेखने चेति कौमुदी । चित्रीयते शिल्पी ।
Vartika¶
नमसः पूजायाम् ।
Sutra Prayogas¶
वरिवस्यत (किरातार्जुनीयम्): नमोवरिवश्चित्रङः क्यच् इति क्यच्।
चित्रीयमाणान् (किरातार्जुनीयम्): नमोवरिवश्चित्रङः क्यच् इति क्यच्प्रत्ययः।
चित्रीयमाणो (भट्टिकाव्यम्): नमोवरिव इत्यादिना क्यच्।
अचित्रीयता (भट्टिकाव्यम्): नमो - वरिवः इति ‘चित्रङ् आश्चर्ये’।
अवरिवस्यंश्च (भट्टिकाव्यम्): नमोवरिवश्चित्रङः क्यच् इति वरिवसः परिचर्यायामिति क्यच्।
नमस्यन्ति (भट्टिकाव्यम्): नमो वरिवश्चित्रङः क्यच् इति क्यच्।