31006: मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य

Padacheda: मान्-बध-दान्-शान्भ्यः | S | 5 | 3 |

दीर्घः | S | 1 | 1 |

च | S | 0 | 0 |

अभ्यासस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

The affix सन् comes after the verbs मान ‘to honour’, बध् ‘to bind’, दान् ‘to cut’, and शान् ‘to whet’, and long ई is the substitute of इ – सन्यतः (7.4.79) of the re-duplicate – पूर्वोऽभ्यासः (6.1.4) syllable.

Vasu English Translation

The affix सन् comes after the verbs मान ‘to honour’, बध् ‘to bind’, दान् ‘to cut’, and शान् ‘to whet’, and long ई is the substitute of इ – सन्यतः (7.4.79) of the re-duplicate – पूर्वोऽभ्यासः (6.1.4) syllable. The सन् is to be added only then, when the sense of the desiderative verb is as below: मीमांसते ‘he investigates’, बीभस्सते ‘he loathes’, दीदांसते ‘he straightens’, शीशांसते ‘he sharpens’. The verbs given in this and the preceding sutra, are Desiderative in form, but not in meaning. The word ‘optionally’ in the next sutra, may be read into this also, whereby the addition of सन् becomes optional. Thus मानयति, बाधयति, दानयति and निशानयति are also valid forms.

Bhashya

मान्बधदान् शान्भ्यो दीर्घश्चाभ्यासस्य (9623) (684 सन्विधिसूत्रम्॥ 6.1.1. आ. 5 सूत्रम्) (अभ्यासरूपसाधनाधिकरणम्) (1715 आक्षेपवार्तिकम्॥ 1 ॥) - अभ्यासदीर्घेऽवर्णस्य दीर्घप्रसङ्गः- (भाष्यम्) अभ्यासदीर्घत्वेऽवर्णस्य दीर्घत्वं प्राप्नोति - मीमांसते (अभ्यासरूपसाधनभाष्यम्) ननु च इत्वे कृते दीर्घत्वं भविष्यति॥ (अभ्यासरूपसाधनानुपपत्तिभाष्यम्) कथं पुनरुत्पत्तिसन्नियोगेन दीर्घत्वमुच्यमानमित्वं प्रतीक्षते॥ (प्रतिबन्दीभाष्यम्) अथ कथमभ्यासं प्रतीक्षते॥ अथ कथमिति। यथाभ्यासस्येति वचनाद्दीर्घत्वमभ्यासमपेक्षते तथा वचनान्तरविहितमित्वमपीति भावः॥ (प्रतिबन्द्युत्तरभाष्यम्) वचनादभ्यासं प्रतीक्षते। अभ्यासस्य दीर्घत्वविधानात्। इत्वं पुनर्न प्रतीक्षते॥ (1716 समाधानवार्तिकम्॥ 2 ॥) - न वाभ्यासविकारेषु अपवादस्योत्सर्गाबाधकत्वात्- (भाष्यम्) न वैष दोषः। किं कारणम्?। अभ्यासविकारेषु अपवादस्योत्सर्गाबाधकत्वात्। अभ्यासविकारेषु अपवादा उत्सर्गान्नबाधन्तेःइत्येवं दीर्घत्वमुच्यमानमित्त्वं न बाधिष्यते॥ (न्यासान्तरभाष्यम्) अथ वा मान्बधदान्शान्भ्य इर्चाभ्यासस्य इति वक्ष्यामि॥ (न्यासान्तरदूषकभाष्यम्) एवमपि हलादिः शेषापवाद ईकारः प्राप्नोति॥ (न्यासान्तरेण समाधानभाष्यम्) इर्चाचेति वक्ष्यामि॥ (न्यासान्तरेण समाधानभाष्यम्) अथ वा मान्बधदान्शान्भ्यो दीर्घश्चेतोभ्यासस्य इति वक्ष्यामि॥ (न्यासान्तरदूषकभाष्यम्) सिद्ध्यति। सूत्रं तर्हि भिद्यते (सिद्धान्तिभाष्यम्) यथान्यासमेवास्तु। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - अभ्यासदीर्घत्वे अवर्णस्य दीर्घत्वप्रसङ्गः इति॥ (परिहारस्मारणभाष्यम्) परिहृतमेतत् - न वाभ्यासविकारेषु अपवादस्योत्सर्गाबाधकत्वाद् इति॥ (परिहारान्तरभाष्यम्) अथवा नैवं विज्ञायते - दीर्घश्च अभ्यासस्येति॥ कथं तर्हि?। दीर्घश्च आभ्यासस्येति। किमदमाभ्यासस्येति?। अभ्यासस्य विकार आभ्यासः तस्येति॥ मानबधदान्॥ 6 ॥

Kashika

मान पूजायाम्, बध बन्धने, दान अवखण्डने, शान अवतेजने इत्येतेभ्यो धातुभ्यः सन् प्रत्ययो भवति, अभ्यासस्य चेकारस्य दीर्घादेशो भवति। मीमांसते। बीभत्सते। दीदांसते। शीशांसते। उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिद् न भवत्यपि। मानयति। बाधयति। दानयति। निशानयति॥ अत्रापि सन्नर्थविशेष इष्यते॥ मानेर्जिज्ञासायाम्, बधेर्वैरूप्ये, दानेरार्जवे, शानेर्निशाने॥

Siddhanta Kaumudi

सूत्रद्वयोक्तेभ्यः सन् स्यान्मानादीनामभ्यासस्येकारस्य दीर्घश्च ।<!गुपोर्निन्दायाम् !> (वार्तिकम्) ।<!तिजेः क्षमायाम् !> (वार्तिकम्) ।<!कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च !> (वार्तिकम्) ।<!मानेर्जिज्ञासायाम् !> (वार्तिकम्) ।<!बधेश्चित्तविकारे !> (वार्तिकम्) ।<!दानेरार्जवे !> (वार्तिकम्) ।<!शानेर्निशाने !> (वार्तिकम्) ॥ सनाद्यन्ता - (SK2304) इति धातुत्वम् ॥

Balamanorama

मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य - मान्बध । गुप्तिजी इह पठितौ । ‘कित निवासे’ इत्यनुपदमेव परसमैपदिषु पठिष्यते । एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः । मानधातुर्बधधातुश्च इह पठितौ । दान खण्डने, शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्येते । एभ्यश्चतुभ्र्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्याऽर्थः ।आभ्यासस्ये॑ति च्छेदः । अभ्यासस्य विकारः आभ्यासः । स च ‘सन्यतः’ इति इत्त्वमेव,न तु ह्रस्व इतिगुणो यङ्लुको॑रिति सूत्रे भाष्ये स्पष्टम् । ततश्च मान्बधदान्शानामब्यासावयवस्य इकारस्य सन् — संनियोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः । इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह — सत्रद्वयेति । अथ उक्तसनोर्वृत्तिकृदात्युपनिबद्धानर्थविशेषानाह — गुपेर्निन्दायामित्यादिना, शानेर्निशाने इत्यन्तेन । अत गोपानाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्या । जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते । ‘मानेर्विचारे’ इत्येव वृत्तिकृत् । सन्नन्तस्य धातुकार्यप्राप्त्यर्थमाह — सनाद्यन्ता इति ।

Tattvabodhini

मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य - मान्बध ।आभ्यासस्ये॑ ति च्छेदः । अभ्यासस्य विकार आभ्यासः । स चाऽत्रसन्यतः॑ इतीत्त्वमेव । यदि तु ह्रस्व इत्यव गृह्रेत तर्हि तद्धितनिर्देशो व्यर्थः स्यात् । तदेतदाह — अभ्यासेकारस्येति । वृत्तिकाराद्युपनिबद्धार्थान्दर्शयति-गुपेर्निन्दायामित्यादिना ।

Padamanjari

मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य॥ अत्र मान्बधी अनुदातेतौ, शेषौ स्वरितेतौ। अभ्यासस्य चेकारस्यदीर्घो भवतीति।’सन्यतः’ इतीत्वे दीर्घो भवतीत्यर्थः। ननु विशेषविहितो दीर्घः सामान्यविहितमित्वं बाधित्वाऽवर्णस्यैव प्राप्नोति? ज्ञापकात्सिद्धम्, यदयं’दीर्घो’ कितःऽ, इत्यत्राकित इत्याह, तज्ज्ञापयति - नाभ्यासविकारेषु बाध्यबाधकभाव इति। तद्धि यंयम्यते इत्यादौ नुकि कृते मा भूदिति। यदि चाभ्यासविकारेषु बाध्यबाधकभावः स्याततो विशेषविहितत्वान्नुकि कृतेऽनजन्तत्वादेव न भविष्यति दीर्घः, किं प्रतिषेधेन? अत एव डीढोक्यते इत्यादौ ह्रस्वत्वे कृते गुणो भवति, अन्यथा बबाधे चरितार्थं ह्रस्वं पापच्यते इत्यादौ चरितार्थो दीर्घः परत्वाद्वाधेत। अपर आह - सूत्रोपात एवार्थो वृत्तिकारेणोक्त इति कथमभ्यासस्येति पदच्छेदः, अभ्यासस्य विकार अभ्यासः, स चेत्वमेव। तथा हि - लोपस्य तावदभावरूपत्वाददैशो विधातुमशक्यः, यदि च ह्रस्वस्य दीर्घत्वं स्यात्च तद्धितनिर्देशोऽनर्थकः स्यात्, दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादजन्तस्य दीर्घविधानाद्दीर्घस्य ह्रस्वस्य वा दीर्घो विशेषाभावातस्मादित्वमेव तद्धितेन प्रत्याय्यते। अथ वा सन्याहत्य विहितस्य विकारस्य ग्रहणं तदाह - अभ्यासस्य चेकारस्येति। सर्वशेष इति । न केवलं तस्यैवापि तु पूर्वयोरपि द्वयोरित्यर्थः। तेन क्वचिन्न भवतीति। अर्थान्तरवृत्तिभ्यो दात्वन्तरेभ्य इत्यर्थः। एतच्च’पूर्ववत्सनः’ इत्यत्रोपपादितम्। मानयतीत्यादयश्चुरादिण्यन्ताः। निशान इति ण्यन्तादेव पचाद्यच्। मानेर्जिज्ञासायामिति। यद्येवम्, ज्ञानार्थवृतेर्मानेरुतरसूत्रेणैव सन् सिद्धः? सत्यम्, दीर्घविघानार्थ वचनमिडभावार्थ च। बधेर्वैरुप्ये इति। चितस्य दुर्गन्धाद्यनुभवनिमितो विकारो वैरूप्यम्। शानेनिंशाने इति। निशानमुतीक्ष्णीकरणम्, यत्रैवायं पठितः’शान तेजने’ इति तत्रैवेत्यर्थः॥

Nyaas

मान्बन्धी अनुदात्तेतौ, शेषौ स्वरितेतौ। इह दीर्घग्रहमात् अचश्च ( (1.2.28) इति परिभाषोपस्थानादचाऽभ्यासो विशिष्यत इत्यजन्तस्याभ्यासस्य दीर्घो विधीयमानो नियतं हलादिशेषमपेक्षते; विना तेनाजन्तत्वाभावात्। तस्मस्तु सति न किञ्चित् प्रतीक्षणीयमिति तत्समनन्तरमेव दीर्घेण भवितव्यम्, ततश्चाभ्यासस्यावर्णस्य स्थाने भवन् ब्धेरित्त्वस्य बाधकः स्यात्, शेषाणान्तु ह्रस्वस्य, ततश्चानिष्टं रूपं स्यादिति यो मन्येत तं प्रत्याह - अभ्यासस्य चेकारस्य दीर्घो भवति इति।कथं पुनरिकारस्य दीर्घो लभ्यते, यावता विशेषविधिः सामान्यविधेर्बाधको भवति, विशेषविहितश्च दीर्घः, ततोऽयं सामान्यविहितमित्त्वं बाधित्वाऽकारस्यैव प्राप्नोति? अत एवं मन्यते - दीर्घोऽकितः (7.4.83) इत्यत्र ज्ञापितमेतत् स्यात् - `अभ्यासविकारेष्वपवादानोत्सर्गान् विधीन्बाधन्ते (व्या।प।23) इति। अकिद्ग्रहणस्यैतत् प्रयोजनम्, इह मा भूत् - यंयम्यते, रंरम्यते इति। यदि चाभ्यासविकारेष्वपवादैरुत्सर्गा बाध्येरन्नेवं सत्यपवादत्वान्नुकि कृतेऽनजन्तत्वादेव दीर्घो न भविष्यति, किमकित इत्यनेन। कृतञ्च; अतस्ततो ज्ञापयति - नाभ्यासविकारेषु बाध्यबाधकभाव इति। बीभत्सते इति। एकाचो बशो भष् (8.2.37) इति बकारस्य भकारः, धकारस्य खरि च (8.4.54) इति तकारः।उत्तरसूत्रे इत्यादि। अत्र हि सनो विधिमात्रमपेक्ष्यते वावचनेन, न त्वनन्तर एव विधिः। तेन त्रयाणामपि योगानां शेषो विज्ञायते। सर्वग्रहणं गुपादिसूत्रस्यापि (3.1.5) शेषो विज्ञायत इति ज्ञापनार्थम्, अन्यथा ह्रनन्तरस्यैव सूत्रस्य शेषो विज्ञायेत। मानयति इति। हेतुमण्णिच्, चुरादिणिज्वा, चुरादावप्यस्य पाठात्। {निशानयति - काशिका} निशानम् इति। पचाद्यच्॥

Prakriyasarvasvam

एभ्यो नित्यं सन्, अभ्यासस्येत्त्वे कृते दीर्घश्च स्यात् । मान्बधयोः प्राग्वद- नुदात्तेत्त्वात् तङ् । परौ स्वरितेतौ । मानेः पूजितविचारेऽर्थे सन् । मीमांसते धर्मम् । बधेर्दुर्गन्धादिजचित्तविकारे । भष्भावजश्त्वचर्त्वानि । बीभत्सते । दानेरार्जवे । दीदासते, दीदांसति । शानेस्तीक्ष्णीकरणे । शीशांसते, शीशांसति वा शस्त्रम् । एभ्य इच्छायां पुनः सन् स्यादेव । अनभ्यासस्यैव द्वित्वोक्तेः पुनर्द्वित्वं न । जुगुप्सिषत इत्यादि । सनन्ताण्णिचि चङ्यपि सा²भ्यासस्य द्विरुक्तिर्न । बुभूषयति, अबुभूषत्३ ।