31007: धातोः कर्मणः समानकर्तृकादिच्छायां वा¶
Padacheda: धातोः | S | 5 | 1 |
कर्मणः | S | 6 | 1 |
समानकर्तृकात् | S | 5 | 1 |
इच्छायाम् | S | 7 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix is optionally attached, in the sense of ‘wishing’ after a root expressing the object wished and having the same agent of the action as the wisher thereof.
Vasu English Translation¶
The affix is optionally attached, in the sense of ‘wishing’ after a root expressing the object wished and having the same agent of the action as the wisher thereof. As, कृ ‘to do’; चिकीर्षति = कर्तुमिच्छति ‘he wishes to do’. This is the Desiderative proper. It is optional to employ the desiderative affix, the same sense may be expressed by a phrase. The root must also be simple and not compounded with any upasarga, when the affix सन् is to be added. Thus प्रकर्तुमैच्छत् = प्राचिकीर्षत्.
Why do we say कर्मणः ‘after (a root expressing) an object’? The affix will not come after an Instrumental case. Thus गमनेनैच्छति; here there is no affix. But गन्तुमिच्छति will be जिगमिषति.
Why do we say समानकर्तृकात् ‘when the subject of the verb to wish, is also the subject of the verb denoted by the object wished’ ? Observe देवदत्तस्य भोजनमिच्छति यज्ञदत्तः. Here Yajnadatta is agent of the verb इच्छति; but he is not agent of the action भोजनं; hence there is no affixing.
Why do we say इच्छायाम् ‘when the sense is that of wishing’? Observe कर्तुं जानाति ‘he knows how to make’; here the sense being that of knowing, there is no affix.
The word वा ‘optionally’ shows that a sentence may also be employed to express the same idea. Thus कर्तुमिच्छति or चिकीर्षति.
The word धातोः being especially used in this sutra, shows that this सन् is an ardhadhatuka affix, while the सन् taught in the two preceding sutras, will not get this designation.
Vart: The affix सन् is added, when the sense is that of ‘in imminent danger’; as शङ्के पतिष्यति कूलम् = पिपतिषति कूलम् ‘the bank is in imminent danger of falling down’. So also श्वा मुमूर्षति.
Vart: There is no affixing of सन् after a verb which has alrcady taken सन् in the sense of wishing. As चिकीर्षितुमिच्छति. But the सन् of (III.I.5.6) not denoting wishing, we have जुगुप्सिषते, मिमांसिषते.
Bhashya¶
धातोः कर्मणः समानकर्तृकादिच्छायां वा (623) (685 सन्प्रत्ययविधिसूत्रम्॥ 6.1.1 आ. 6 सूत्रम्) (धातुग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) धातोरिति किमर्थम्?॥ (आक्षेपवारणभाष्यम्) प्रकर्तुमैच्छत् प्राचिकीर्षत्। सोपसर्गादुत्पत्तिर्मा भूदिति॥ (1717 धातुग्रहणानर्थक्यवार्तिकम्॥ 1 ॥) - कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यम्- (भाष्यम्) कर्मग्रहणात्सन्विधौ धातुग्रहणमनर्थकम्। कर्मणा समानकर्तृकादिच्छायां वा सन् भवतीत्येव धातोरुत्पत्तिर्भविष्यति॥ (1719 आनर्थक्यबाधकवार्तिकम्॥ 2 ॥) ॥ ॥ सोपसर्गं वै कर्म ॥ (भाष्यम्) सोपसर्गकमिह वै कर्म। तत उत्पत्तिः प्राप्नोति॥ (1719 आनर्थक्यसाधकवार्तिकम्॥ 3 ॥) - सोपसर्गं कर्मेति चेत् कर्मविशेषकत्वात् उपसर्गस्यानुपसर्गं कर्म- (भाष्यम्) सोपसर्गे कर्मेति चेत् कर्मविशेषक उपसर्गः अनुपसर्गमेव हि कर्म॥ अवश्यं चैतदेवं विज्ञेयम्। (1720 अनुपसर्गस्य कर्मत्वसाधकवार्तिकम्॥ 4 ॥) - सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वात्- (भाष्यम्) यो हि मन्यते सोपसर्गं कर्मेति क्रियमाणेऽपि तस्य धातुग्रहणे सनोऽविधिः स्यात्। किं कारणम्?। अकर्मत्वात्॥ (आनर्थक्यबाधकभाष्यम्) इदं तर्हि प्रयोजनम्। सुबन्तादुत्पत्तिर्मा भूत्॥ (1721 आनर्थक्यसाधकवार्तिकम्॥ 5 ॥) - सुबन्ताच्चाप्रसङ्गः क्यजादीनामपवादत्वात्- (भाष्यम्) सुबन्ताच्च सनोऽप्रसङ्गः। किं कारणम्? क्यजादीनामपवादत्वात्। सुबन्तात्क्यजादयो विधीयन्ते। ते अपवादत्वात् बाधका भविष्यन्ति॥ (1722 आनर्थक्यसाधकवार्तिकम्॥ 6 ॥) - अनभिधानाद्वा - (भाष्यम्) अथवा अनभिधानात्सुबन्तादुत्परत्तिर्न भविष्यति। न हि सुबन्तादुत्पद्यमानेन सना इच्छाभिधानमस्ति॥ इयं तावदगतिका गतिः - यदुच्यते अनभिधानादिति। यदप्युच्यते सुबन्ताच्चाप्रसङ्गः क्यजदीनामपवादत्वाद् इति, भवेत्कस्माच्चिदप्रसङ्गः स्यादिति आत्मेच्छायाम्। परेच्छायां तु प्राप्नोति राज्ञः पुत्रमिच्छतीति। एवं तर्हि इदमिह व्यपदेश्यम्। सदाचार्यो न व्यपदिशति। किं समावनकर्तृकादिच्छायां वा इत्युच्यते। न च सुबन्तस्य समानः कर्तास्ति। एवमपि भवेत् कस्माच्चिदप्रसङ्गः स्यात्, यस्य कर्ता नास्ति। इह तु प्राप्नोति - आसितुमिच्छति शयितुमिच्छतीति। (आनर्थक्यबाधकभाष्यम्) इच्छायामर्थे सन् विधीयते इच्छार्थेषु च तुमुन्। तत्र तुमुनोक्तत्वात्तस्यार्थस्य सन् न भविष्यति॥ (आनर्थक्यबाधकभाष्यम्) एवमपीह प्राप्नोति - आसनमिच्छति शयनमिच्छतीति॥ (आनर्थक्यसाधकभाष्यम्) इह यो विशेष उपादीयते उपाधिर्वा द्योत्ये तस्मिंस्तेन भवितव्यम्। यश्चेहार्थो गम्यते - आसितुमिच्छति शयितुमिच्छतीति - स्वयं तां क्रियां कर्तुमिच्छतीति। नासाविह गम्यते - आसनमिच्छति शयनमिच्छति शयनमिच्छतीति - अन्यस्याप्यासनमिच्छतीत्येषोऽर्थो गम्यते॥ अवश्यं चैतदेवं विज्ञेयम्। यो हि मन्यते - अद्योत्ये तस्मिंस्तेन भवितव्यमिति। क्रियमाणेऽपि हि तस्य धातुग्रहण इह प्रसज्येत - संगतमिच्छति यज्ञदत्तो देवदत्तेनेति॥ (कर्म - समानकर्तृकपदप्रयोजनाधिकरणम्।) (1723 कर्म - समानकर्तृकग्रहणानर्थक्यवार्तिकम्॥ 7 ॥) - कर्मसमानकर्तृकग्रहणानर्थक्यमिच्छाभिधाने प्रत्ययविधानात्- (भाष्यम्) कर्मसमानकर्तृकग्रहणमनर्थकम्। किं कारणम्? इच्छाभिधाने प्रत्ययविधानात्। इच्छायामभिधेयायां सन्विधीयते॥ (1724 आनर्थक्यसाधकवार्तिकम्॥ 8 ॥) - अकर्मणो ह्यसमानकर्तृकाद्वानभिधानात्- इच्छायामभिधेयायां सन्विधीयते। न चाकर्मणोऽसमानकर्तृकाद्वा उत्पद्यमानेन सना इच्छाया अभिधानं स्यात्। अनभिधानात् तत उत्पत्तिर्न भविष्यति॥ (1725 धातुग्रहणानर्थक्यबाधकवार्तिकम्॥ 9 ॥) - अङ्गपरिमाणार्थं तु - (भाष्यम्) अङ्गपरिमाणार्थे तर्ह्यन्यतरत्कर्तव्यं धातुग्रहणं कर्मग्रहणं वा। अङ्गपरिमाणं ज्ञास्यामीति॥ किं पुनरत्र ज्यायः?। धातुग्रहणमेव ज्यायः। अङ्गपरिमाणं चैव विज्ञातं भवति। अपि च धातोर्विहितः प्रत्ययः शेष आर्धधातुकसंज्ञो भवतीति सन आर्थधातुकसंज्ञापि सिद्धा भवति॥ (सिद्धान्तिकर्तृकमुपालम्भभाष्यम्) यच्चाप्येतदुक्तम् - कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यं सोपसर्गं कर्मेति चेत् कर्मविशेषकत्वादुपसर्गस्यानुपसर्गे कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वाद् - -इति॥ स्वपक्षोऽनेन वर्णितः. युक्तमिह द्रष्टव्यं - किं न्याय्यं कर्मेति॥ (सिद्धान्तिभाष्यम्) एतच्चात्र युक्तम् - यत्सोपसर्गकं कर्म स्यात्॥ (पूर्वदत्तदूषणोद्धारभाष्यमेकदेशिनः) ननु चोक्तम् - सोपसर्गस्य कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वाद् - इति॥ नैष दोषः। कर्मण इति नैषा धातुसमानाधिकरणा पञ्चमी कर्मणो धातोरिति। किं तर्हि? अवयवयोगे एषा षष्ठी - कर्मणो यो धातुरवयव इति॥ (अवयवयोगषष्ठीदूषणभाष्यम्) यद्यवयवयोगा षष्ठी। केवलादुत्पत्तिर्न प्राप्नोति चिकीर्षति जिहीर्षतीति॥ (अवयवयोगषष्ठीसमर्थनभाष्यम्) एषोऽपि व्यपदेशिवद्भावेन कर्मणो धातुरवयवो भवति॥ (व्यपदेशिवद्भावदूषणभाष्यम्) कामं तर्ह्यनेनैव हेतुना क्यजपि कर्तव्यः - महान्तं पुत्रमिच्छतीति कर्मणो यत्सुबन्तमवयवः इति॥ (व्यपदेशिवद्भावदूषणभाष्यम्) न कर्तव्यः। असार्मथ्यान्न भविष्यति॥ कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति॥ (1726 वावचनानर्थक्यवार्तिकम्॥ 10 ॥) - वा वचनाऽऽनर्थक्यं च तत्र नित्यत्वात्सनः- (भाष्यम्) वा वचनं चाऽनर्थकम्। किं करणम्? तत्र नित्यत्वात्सनः। इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्च। स्वभावतश्चैतद्भवति वाक्यं च प्रत्ययश्च। तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किमन्यच्छक्यमभिसंबन्धुमन्यदतः संज्ञायाः। न च संज्ञाया भावाभावाविष्येते। तस्मान्नार्थो वावचनेन॥ (1727 लघुन्यासप्रदर्शकपूर्तिवार्तिकम्॥ 11 ॥) - तुमुन्नन्ताद्वा तस्य च लुग्वचनम्- (भाष्यम्) तुमुन्नन्ताद्वा सन् वक्तव्यः तस्य च तुमुनो लुग्वक्तव्यः। कर्तुमिच्छति चिकीर्षतीति॥ (1728 लघुन्यासप्रदर्शकपूर्तिवार्तिकम्॥ 12 ॥) - लिङुत्तमाद्वा - (भाष्यम्) लिङुत्तमाद्वा सन्वक्तव्यः। तस्य च लिङो लुक् वक्तव्यः। कुर्यामितीच्छति चिकीर्षति॥ (1729 न्यूनतापूर्तिवार्तिकम्॥ 13 ॥) - आशङ्कायामचेतनेषूपसंख्यानम्- (भाष्यम्) आशङ्कायामचेतनेषूपसंख्यानं कर्तव्यम्। अश्मा लुलुठिषते। कूलं पिपतिषति॥ किं पुनः कारणं न सिध्यति॥ एवं मन्यते चेतनावत एतद्भवतीच्छेति। कूलं चाचेतनम्॥ (अचेतनग्रहणखण्डनभाष्यम्) अचेतनग्रहणेन नार्थः, आशङ्कायाम् इत्येव। इदमपि सिद्धं भवति - श्वा मुमूर्षतीति॥ (1730 आशङ्कायामितिवार्तिकप्रत्याख्यानवार्तिकम्॥ 14 ॥ ) - न वा तुल्यकारणत्वादिच्छाया हि प्रवृत्तित उपलब्धिः- (भाष्यम्) न वा वक्तव्यम्। किं कारणम्? तुल्यकारणत्वात्। तुल्यं हि कारणं चेतनावति देवदत्ते कूले चाचेतने ॥ किं कारणम्?। इच्छाया हि प्रवृत्तित उपलब्धिर्भवति। योऽप्यसौ कटं चिकीर्षुर्भवति नासावाघोषयति कटं करिष्यामीति। किं तर्हि? सन्नद्वं रज्जुकीलपूलपाणिं दृष्ट्वा तत इच्छा गम्यते॥ कूलस्यापि पिपतिषतो लोष्टाः शीर्यन्ते, भिदा उपजायते देशान्तरमुपसंक्रामति॥ श्वानः खल्वपि मुमूर्षवः एकान्तशीलाः शूनाक्षाश्च भवन्ति॥ (1731 आशङ्कावार्तिकवैर्यथ्यवार्तिकम्॥ 15 ॥) - उपमानाद्वा सिद्धम्- (भाष्यम्) उपमानाद्वासिद्धमेतत्। लुलुठिषत इव लुलुठिषते। पिपतिषति इव पिपतिषति॥ (आशङ्कावार्तिकसार्थक्यभाष्यम्) न वै तिङन्तेनोपमानमस्ति॥ (आशङ्कावार्तिकवैर्यथ्यभाष्यम्) एवं तर्हि इच्छेवेच्छा॥ (1732 आशङ्कावार्तिकवैर्यथ्यवार्तिकम्॥ 16 ॥) - सर्वस्य वा चेतनावत्त्वात्- (भाष्यम्) अथ वा सर्वे चेतनावत्॥ एवं ह्याह - कंसकाः सर्पन्ति, शिरीषोयं स्वपिति, सुवर्चला आदित्यमनुपर्येति। आस्कन्द कपिलकेत्युक्ते तृणमास्कन्दति। अयस्कान्तमयः संक्रामति॥ ऋषिः पठति - -शृणोत ग्रावाणः॥ (इष्धतुनिर्णयाधिकरणम्।) (आक्षेपभाष्यम्) इमे इषयो बहवः पठ्यन्ते। तत्र न ज्ञायते - कस्यायमर्थे सन् विधीयते इति?॥ (समाधानभाष्यम्) इषेश्छत्वभाविनः॥ (आक्षेपभाष्यम्) यद्येवं कर्तुमन्विच्छिति कर्तुमन्वेषणा अत्रापि प्राप्नोति॥ (सिद्धान्तिसमाधानभाष्यम्) एवं तर्हि यस्य स्त्रियामिच्छेत्येतद्रूपं निपात्यते॥ कस्य चैतन्निपात्यते?। कान्तिकर्मणः॥ (क्रियाप्राधान्याधिकरणम्) (आक्षेपभाष्यम्) अथेह ग्रामं गन्तुमिच्छतीति कस्य किं कर्म? (समाधानभाष्यम्) इषेरुभे कर्मणी। (उभयोरिषिकर्मत्वबाधकभाष्यम्) यद्येवं ग्रामं गन्तुमिच्छति ग्रामाय गन्तुमिच्छतीति। गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः॥ (ग्रामस्य गमिकर्मत्वाङ्गीकारभाष्यम्) एवं तर्हि गमेर्ग्रामः कर्म। इषेर्गमिः कर्म। (ग्रामस्य गमिकर्मत्वे दूषणभाष्यम्) एवमपीष्यते ग्रामो गन्तुमिति। परसाधन उत्पद्यमानेन लेन ग्रामस्याभिधानं न प्राप्नोति॥ एवं तर्हि गमेर्ग्रामः कर्म, इषेरुभे कर्मणी। (सन्नन्तात्सन्वारणाधिकरणम्) (आक्षेपभाष्यम्) अथ सन्नन्तात्सना भवितव्यम् - चिकीर्षितुमिच्छति जिहीर्षितुमिच्छतीति॥ (आक्षेपबाधकभाष्यम्) न भवितव्यम्। किं कारणम्?। अर्थगत्यर्थः शब्दप्रयोगः अर्थे प्रत्यायिष्यामीति शब्दः प्रयुज्यते। तत्रैकेनोक्तत्वात्तस्यार्थस्याऽपरस्य प्रयोगेण न भवितव्यम्। उक्तार्थानामप्रयोगः इति॥ (आक्षेपसाधकभाष्यम्) न तर्हीदानीमिदं भवति - -एषितुमिच्छति एषिषिषतीति॥ (आक्षेपबाधकभाष्यम्) अस्त्यत्र विशेषः - एकस्यात्र इषेरिषिः साधनं वर्तमानकालश्च प्रत्ययः। अपरस्य - बाह्यं साधनं सर्वकालश्च प्रत्ययः॥ (आक्षेपसाधकभाष्यम्) इहापि तर्ह्येकस्येषेः करोतिविशिष्ट इषिः साधनं वर्तमानकालश्च प्रत्ययः। अपरस्य बाह्यं साधनं सर्वकालश्च प्रत्ययः। येनैव खल्वपि हेतुना एतद्वाक्यं भवति - चिकीर्षितुमिच्छतीति, तेनैव हेतुना वृत्तिरपि प्राप्नोति। तस्मात्सन्नन्तात्सनः प्रतिषेधो वक्तव्यः। तं चापि ब्रुवता इषि सन इति वक्तव्यम्। भवति हि जुगुप्सिषते मीमांसिषते इति॥ (समाधानभूतेष्टिभाष्यम्) शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः। सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते इति॥ धातोः कर्मणः॥ 7 ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते महाभाष्ये तृतीयाध्यायस्य प्रथमे पादे प्रथमाह्निकम्॥
Kashika¶
इषिकर्म यो धातुरिषिणैव समानकर्तृकः, तस्मादिच्छायामर्थे वा सन् प्रत्ययो भवति। कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकम्। कर्तुमिच्छति, चिकीर्षति। जिहीर्षति। धातुग्रहणं किम्? सोपसर्गादुत्पत्तिर्मा भूत् — प्रकर्तुमैच्छत्, प्राचिकीर्षत्। कर्मण इति किम्? करणान् मा भूत् — गमनेनेच्छति। समानकर्तृकादिति किम्? देवदत्तस्य भोजनमिच्छति यज्ञदत्तः। इच्छायामिति किम्? कर्तुं जानाति। वावचनाद् वाक्यमपि भवति। धातोरिति विधानादत्र सन आर्धधातुकसंज्ञा भवति, न पूर्वत्र॥ आशङ्कायामुपसंख्यानम्॥ आशङ्के पतिष्यति कूलम्। पिपतिषति कूलम्। श्वा मुमूर्षति॥ इच्छासन्नन्तात् प्रतिषेधो वक्तव्यः॥ चिकीर्षितुमिच्छति। विशेषणं किम्? जुगुप्सिषते। मीमांसिषते॥
शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः।
सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते॥
Siddhanta Kaumudi¶
इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । सन्यतः (SK2317) । पठितुमिच्छति पिपठिषति । कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । लुङ्सनोर्घसॢ (SK2427) एकाच उपदेशे - (SK2246) इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिघत्सति ॥ ईर्ष्यतेस्तृतीयस्येति यिसनोर्द्वित्वम् । ईर्ष्यियिषति । ईर्ष्यिषिषति ॥
Laghu Siddhanta Kaumudi¶
इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्॥ {$ {! 1 पठ !} व्यक्तायां वाचि $} (धातुपाठे (01.0381)) ॥
Balamanorama¶
धातोः कर्मणः समानकर्तृकादिच्छायां वा - धातोः कर्मणः । ‘गुप्तिज्किद्भ्यः’ इत्यतः सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम् । तथा समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्दद्वारा धातौ सा मानाधिकरण्येनान्वेति । एवं च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारस्तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति । तदाह — इषिकर्मण इत्यादि । इषिरिच्छा । इषिणा एककर्तृकतत्वादिषैकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः । ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम्, धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत आह — धातोरिति । धातोरिति विहितस्यैव प्रत्ययस्यार्धधातुकत्वं, नतु धातोः परस्य । अन्यथा जुगुप्सते इत्यत्र आर्धधातुकत्वे फलमाह — इडिति । द्वित्वमिति ।सन्यङो॑रित्यनेनेति भावः । अभ्यासस्य इत्त्वविधिं स्मारयति — सन्यत इति । पठितुमिच्छतीति । भावस्तुमुनर्थः । ‘अव्ययकृतो भावे’ इत्युक्तेः । धात्वर्थ एव भाव इत्युच्यते । तथा च पठितुमित्यस्य पठनक्रियैऽवार्थः । तस्मिन् पठने #इच्छाकर्मत्वम्, इच्छासमानकर्तृकत्वं च सना गम्यते । तथा च स्वकर्तृकं फटनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तत इत्युक्तं भवति । अथ ‘अद भक्षणे’ इति धातोः सनि घस्लृभावं स्मारयति — लुङ्सनोर्घस्लृ इति । घस् स इति स्थिते इटमाशङ्क्य आह — एकाचेति नेडिति । घस् स इति स्थिते आह — सस्य तत्वमिति ।सः स्यार्धधातुके॑ इत्यनेनेति भावः । जिघत्सतीति । द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः । य्सनोर्द्वित्वमिति ।तृतीयस्य व्यञ्जनस्ये॑ ति पक्षे ईर्ष्य् इस इत्यत्र यकारमात्रस्य द्वित्वे, सनः षत्वेसं युक्तद्वियकारं रूपमिति भावः । तदाह — ईष्र्ययिषतीति । तथा च सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः । ‘तृतीयस्यैकाच’ इति पक्षे ईष्र्य इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्तवे सकारद्वयस्यापि षत्वे रूपं मत्वा आह — ईर्ष्यिषिषतीति । अत्र तु सन्नन्ते ईकाररेफषकारयकारेकारषकारेकारषकाराऽकाराः ।
Tattvabodhini¶
धातोः कर्मणः समानकर्तृकादिच्छायां वा - धातोः कर्मणः । इषिकर्मण इत्यादि । इच्छायामिति श्रुतत्वात्कर्मत्वं कर्तृत्वं च तदपेक्षमेव गृह्रत इति भावः । पठितुमिच्छतीति । एकनिष्ठा पाठगोचरा वर्तमानेच्छेत्यर्थः । यिसनोरिति ।तृतीयव्यञ्जनस्ये॑ति पक्षे यकारस्य द्वित्वं,तृतीयस्यैकाच॑ इति पक्षे तु सन इत्यर्थः ।
Padamanjari¶
धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ कर्मत्वसमानकर्तृकत्वयोः क्रियापेक्षत्वादिच्छायायश्च प्रत्ययार्थत्वेनापि तावच्छुतत्वातदपेक्षे एव ते विज्ञायेते इत्याह - इषिकर्म यो धातुरिषिणैव समानकर्तृक इति। अर्थद्धारकमिति। धात्वर्थस्य कर्मत्वात्समानकर्तृकत्वाच्च धातुस्तथा व्यपदिश्यते न स्वरूपेणेत्यर्थः, किं कारणम्? असम्भवात्। यद्यपि करोतिमिच्छतीत्यादौ धातोः स्वरूपेणापि कर्मत्वसम्भवः, तथापि न तस्य स्वरूपेणार्थद्वारेण वा समानकर्तृकत्वं सम्भवति। किं चात्र श्तिपा निर्देशात्स्वरूपपरत्वम्, सन्प्रकृतेस्तु लोकव्युत्पत्यनुसारेणार्थपरत्वमेव, अतः सुष्ठूअक्तम् - धातोरर्थद्वारकं विशेषणमिति। इच्छायाः क्रियायाः कर्मभूत इच्छयैव समानकर्तृकोऽर्थो यस्य धातोस्तस्मात्सन् भवतीत्यर्थः। चिकीर्षति, जिहीर्षतीति। कृहृञ्भ्यां सन्, ठिको झल्ऽ इति कित्वम्, ठज्झनगमां सनिऽइति दीर्घः, ठृत इद्वातोःऽ’हलि च’ इति दीर्घ;, सनः षत्वम्, द्विर्वचनम्, हलादिशेषः, ह्रस्वः,’कुहोश्चुः’ इति चुत्वम् - ककारस्य चकारः, हकारस्य झकारः, ठभ्यासे चर्चऽ इति जश्त्वम् - जकारः,’सनाद्यन्ता धातवः’ इति धातुसंज्ञायां लडादिः। धातुग्रहणं किमिति।’कर्मणः समानकर्तृकात्’ इति वचनाद्वाक्यान्न भविष्यति। न ह्यएतदुभयं वाक्यार्थस्य सम्भवति, सुबन्तादपि - पुत्रमिच्छतीत्यादौ असमानकर्तृकत्वान्न भविष्यति, यत्रापि समानकर्तृकत्वम् - गमनमिच्छति, आसनमिच्छतीत्यादौ, तत्रापि क्यज्बाधको भविष्यति। यद्यपि पुत्रमिच्छतीत्यादौ असमानकर्तृके क्यच् सावकाशः तथापि चिकीर्षतीत्यादावसुबन्ते सावकाशं सनं सुबन्तेषु समानकर्तृकेषु परत्वाद्वाधिष्यते। यत्रापि क्यच् प्रतिषिध्यते क्यचि मान्ताव्ययप्रतिषेध इति - कर्तुमिच्छतीति, तत्रापि काम्यज्बाधकः।ङ्याप्प्रातिपदिकेष्वपि खट्वाकुमारीपुत्रादिषु न समानकर्तृकत्वम्। आसनशयनादौ त्वकर्मत्वम्, न हि ङ्याप्प्रतिपदिकं कर्माभिधायि, विभक्त्यभिधेयत्वात्कर्मादीनाम्। धातोरपि तर्हि न स्यात्? अथ तत्र वस्तुतो धात्वर्थस्येच्छया व्याप्यमानत्वात्कर्मत्वम्, प्रातिपदिकादपि स्यात्, अथात्र कर्मरूपानभिधानान्न स्यात्, धातोरपि न स्यादिति समानं वचः? एवं तर्ह्यसमानकर्तृकत्वादेवात्र न भविष्यति। शयनासनादौ हि प्रकृत्यर्थस्यैव समानकर्तृकत्वक्रियारूपत्वाद्, न प्रत्ययार्थस्याक्रियारूपस्य,’क्रियारूपस्य सिद्धता नाम यो धर्मस्तत्र घञादयः’ इति स्मरणात्। तिङ्न्तादपि यत एव हेतोः पाकमिच्छतीत्यत्रार्थे पचतीच्छतीति न भवति, तत एव हेतोः सन्नपि न भविष्यति। तदेवं न धातुमपहाय क्वचिदपि प्रसङ्ग इति प्रश्नः। सोपसर्गादुत्पत्तिर्मा भूदिति। अन्यथा सङ्घातस्य विशिष्टक्रियावचनत्वातत एव सन्स्यात्, ततश्च सन्नन्तत्वेन तस्यैव धातुत्वातत एव लङ्युपसर्गात्पूर्वोऽडागमः प्राप्नोति। ननु लिङ्यप्युपसर्गस्य द्विर्वचनप्रसङ्गो दोषः शक्यो दर्शयितुम्? सत्यम्; अट्प्रसङ्गमप्यपरं दोषं दर्शयितुं लणुदाहृतः। ननु धातुरेव विशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारको न तु कस्यचिदर्थस्याभिधानेन, यथा - भुङ्क्ते इत्यत्र भुजिरेवाभ्यवहारे वर्तते, आत्मनेपदं तु कर्तरि, अथ चान्तरेणात्मनेपदं नाभ्यवहारो गम्यते; तद्वदुपपसर्गसन्निधाने धातुरेव विशिष्टां क्रियामाह, ततश्चार्थद्वारके कर्मत्वसमानकर्तृकत्वे अपि धातोरेव, न सङ्घातस्य, अवश्यं चैतदेवं विज्ञेयम् - धातुरेव च क्रियावची, कथम्? यो हि मन्यते सङ्घातः क्रियावाचीति, क्रियमाणेऽति, क्रियमाणेऽपि तस्य धातुग्रहणे योऽत्र धातुर्न तस्मादुत्पत्तिः प्राप्नोति, अकर्मत्वादसमानकर्तृत्वाच्च? एवं मन्यते - प्रशब्दसन्निधौ तावत्प्रकर्षाख्यो विशेषो गम्यते, न च प्रकर्षमपि धातुरेवाचष्टे; प्रशब्दस्य वैयर्थ्यप्रसङ्गात्; सति चैवं समुदायस्यैव कर्मत्वम्। न ह्यसौ करोत्यर्थमात्रेण सन्तुष्यति, नापि प्रकर्षमात्रेण। न चैवं योऽत्र धातुस्तस्मादनुत्पत्तिप्रसङ्गः, तस्यापि कर्मत्वात्। तथा च कट्ंअ करोति, भीष्ममुदारं दर्शनीयमिति समुदायचिकीर्षायामपि भीष्मादिभ्यो द्वितीया भवति; तेषामपि कर्मत्वात्। नन्वेवमपि यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यते, तथा कर्मसमुदायस्याकर्मत्वात्समुदायादुत्पत्तिर्न भविष्यति। यत्र तर्हि समुदायस्यैव कर्मत्वं तत्र कथम्, यथा - प्रस्थातुमिच्छति प्रतिष्ठासत इति, अत्र हि तिष्ठतीति गतिनिवृत्तिः प्रतीयते, प्रशब्दासन्निधौ तु गतिः, तत्र यथा जिगमिषतीत्येकमेव कर्म तद्वदत्रापि ततश्च समुदायादेव स्यात्? यद्येवम्, योऽत्र धातुः कथं ततः सन्, न ह्यसौ कर्म, कर्मण इति नैषा धातुसमानाधिकरणा पञ्चमी, किं तर्हि? षष्ठी - कर्मणोऽवयवाद्धातोरिति? चिकीर्षतीत्यादावपि केवलस्यापि व्यपदेशिवद्भावेन कर्मावयवत्वम्। एवमप्यसमानकर्तृत्वान्न प्राप्नोति, धातुमात्रस्याक्रियावाचित्वात्। अतः समानकर्तृकादित्यपि षष्ठ।ल्र्थे पञ्चमीति व्याख्येयम्। तदेवं सङ्घातनिवृत्यर्थ धातुग्रहणमिति स्थितम्। कर्मम इति किमिति। जिगमिषतीत्यादौ प्रयोगे प्रत्ययवाच्याया इच्छायाः कर्मापेक्षायां प्रत्यासत्या प्रकृत्यर्थ एव कर्म प्रत्येष्यते। यद्यपि क्रिया करणमप्यपेक्षते, स्फुटतरा त्विच्छायाः कर्मापेक्षेति सैव प्रकृत्यर्थेन पूरयिष्यते, नार्थः कर्मग्रहणेनेति प्रश्नः। गमनेनेच्छतीति। अस्यां विवक्षायां गमेर्मा भूदित्यर्थः। असति हि कर्मग्रहणे सत्यापरीच्छायाः कर्मापेक्षायां यथैतद्वाक्यं भवति - गमनेनेच्छतीति, तथा सन्नपि स्यादिति भावः। इच्छायामिति किमिति। शब्दवैरादिसूत्रे यत्’करणे’ इति तदिहैवास्तु, अभिधानशक्तिस्वाभाव्याच्च करणविशेष इच्छायामेव सन् भविष्यति, नमस्प्रभृतिभ्यः क्यजिति प्रश्नः। कर्तुजानातीति। लक्षणैकशरणो नैवं प्रतिपाद्येतेति भावः। वावचनाद्वाक्यमपि भवतीति। ननु’समानकर्तृकेषु तुमुन्’ इति तुमुन्विधानसामर्थ्यादेव वाक्यं भविष्यति, अस्ति तस्यावकाशः - चिकीर्षितुमिच्छतीति। न ह्यत्र सनः प्रसङ्गः;’सनन्तान्न सनिष्यते’ इति वक्ष्यमाणत्वात्। धातोरिति विधानादित्यादिना धातुग्रहणस्य प्रयोजनान्तरं दर्शयति। न पूर्वत्रेति। तथा च जुगुप्सते इत्यादाविडभावः। आशङ्कायामिति। आशङ्काउसम्भावना, प्रयोक्तृधर्मः, तद्विशिष्टक्रियावचनात्स्वार्थे प्रत्ययः। कूलं पिपतिषतीति। कूलस्याचेतनत्वादिच्छाया असम्भवः। श्वामुमूर्षतीति। शुनश्चेतनत्वेऽपि जीवितस्य प्रियत्वाद्व्याध्याद्यभिभवेऽपि तिर्यक्त्वान्मर्तुमिच्छा न भवतीति, शङ्के पतिष्यति कूलम्, शङ्के मरिष्यति श्वेत्यत्रार्थः। प्रत्याख्यानं तु - यो यदिच्छति स तस्य पूर्वरूपाणि करोति, यथा - देवदतः कट्ंअ चिकीर्षुः सन्नह्यति रज्जुकीलपूलादिकं चादते; कूलस्यापि च पूर्वरूपाणि द्दश्यन्ते - लोष्टाः शीर्यन्ते, भिदा जायन्ते। श्वानः खल्वपि मुमूर्षव एकान्तशीलाः स्थूलाक्षाश्च भवन्ति, तदिह पूर्वरूपदर्शनादिच्छाध्यारोप्यते - इच्छत्येवायं य एवमिच्छाविनाभूतानि पूर्वरूपाणि करोति। गौणमुख्यन्यायश्च क्वचिल्लक्ष्यापेक्षया नाश्रीयते, ततश्चाध्यारोपितेच्छाश्रयः प्रत्यय इति। विशेषणं किमिति। इच्छाग्रहणं किमित्यर्थः। शेषिकादिति। सन्प्रसङ्गादन्योऽनिष्टः प्रत्ययो वार्यते। शेषाधिकारविहितः शैषिकः मतुर्बन्थे भवो मतुबर्थीयः, गहादेराकृतिगमत्वाच्छः, मतुपोऽर्थो मतुबर्थः, सोऽस्यास्तीति मतुबर्थिकः। ठत इनिठनौऽ। शैषिकप्रत्ययान्ताच्छ्èअषिकः सरूपप्रत्ययो नेष्टः, तद्यथा - शालायां भवो घटः शालीयः, तत्र भवमुदकम्, पुनश्छाए न भवति; विरूपस्तु भवत्येव - अहिच्छत्रे भवमाहिच्छत्रम्, तत्र भवमाहिच्छत्रीयम्, अणन्ताच्छाए भवति। तथा दण्डोऽस्यास्तीति दण्डिकः, ठत इनिठनौऽ सोऽस्यास्तीति पुनष्ठन्न भवति; विरूपस्तु भवत्येव - दण्डिमती सेनेति। सननन्तान्न सनिष्यते इति। सरूप इत्येव। सारूप्येण चात्र साद्दश्यं लक्ष्यते, तच्चार्थद्वारकमिति इच्छासनन्तादिति पूर्वोक्त एवार्थो भवति, एतच्च न्यायसिद्धम्। तथा हि - जातौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, ततश्च तत्प्रवृतेः प्राक् तत्प्रत्ययान्तप्रकृत्यसम्भवातदन्तान्नास्ति तत्प्रत्ययप्रसङ्गः। इह यो ग्रामं गन्तुमिच्छति तस्य यद्यपि ग्रामो न स्वरूपेणेष्टः - ग्रामो मे स्यादिति, तथापि गम्यमानतारूपेण सोऽपीष्ट एव। ग्रामो जिगंस्यते, जिगमिषितः, जिगमिषितव्यः, सुजिगमिष इति इच्छा वाचिनः सनन्तात् ग्रामे कर्मणि लादयो भवन्ति। गमिं प्रति कर्मत्वं ग्रामस्य स्पष्टमेव। अत एव ग्रामं जिगमिषति, ग्रामाय जिगमिषतीति’गत्यर्थकर्मणि’ इति द्वितीयाचतुर्थ्यौ भवतः॥
Nyaas¶
कर्त्तृः क्रियया व्याप्तुमिष्टतमस्य कर्मभाव उपपद्यते। नान्यथेत्यवश्यं या काचित् क्रियाऽपेक्षितव्येति। इह चान्या न श्रूयते, प्रत्ययार्थत्वेन चेच्छा सन्निधापिता, अतः सैवापेक्षितुं युक्ता; प्रत्यासत्तेन्र्यायात्,तस्मात्, तयैव व्याप्यमानस्य कर्मभावो विज्ञायत इत्याह - इषिकर्म इत्यादि। इषेः कर्मेति षष्ठीसमासः। प्रतियोग्यपेक्षत्वात् समानत्वस्य नियोगतः प्रतियोग्यपेक्षितव्यः, न च सूत्रे प्रतियोगी श्रूयते, तत्र पूर्वोक्तन्यायेनेषेरेव प्रतियोगित्वं विज्ञायत इत्याह - इषिणैव इत्यादि। समान एकः कर्तास्येति बहुव्रीहिः, एककर्त्तृक इत्यर्थः। ननु चट धातोः कर्मत्वं नोपपद्यते, तस्यार्थधर्मत्वात्, धातोश्च शब्दात्मकत्वात्। अथ करोति धातुमिच्छतीत्यादौ प्रयोगे धातोरपि कर्मता दृष्टेति चेत्? न ब्राऊमः - सर्वथा धातोः कर्मत्वं न भवतीति, किं तर्हि? य इह सन्नुत्पत्तिनिमित्तभावनोपात्तः समानकर्त्तृकः, तस्य न सम्भवतीति ब्राऊमः; यस्मात् समानकर्त्तृकत्वं साध्यमानस्यार्थस्य भवति, कर्मत्वं तु सिद्धस्वभावस्य। अङ्गीकृत्य च समानकर्त्तृकत्वं धातोः कर्मत्वे दोष उक्तः इदानीं तदपि न सम्भवत्येव। तथा हि - धातुः शब्दः क्रिय#आयाश्च कर्ता भवति, न शब्दस्येतत् आह - कर्मत्वम् इत्यादि। अर्थद्वारकम् इति। अर्थो द्वारमुपायो यस्य तदर्थद्वारकमिति। अर्थस्य कर्मत्वात् समानकर्त्तृकत्वाच्च तद्वचनोऽपि धातुरर्थधर्मेणोपचारात् कर्मसमानकर्त्तृकश्चोच्यते, यथा - द्वन्द्वश्च प्राणितूर्य (2.4.2) इत्यत्रार्थस्य प्राण्यङ्गत्वात् तद्वचनोऽपि प्रामायङ्गमित्युच्यत इति भावः। चिकीर्षति इत्यत्र करोतेरर्थ इच्छया व्याप्यमानत्वात् समानत्वात् कर्मसमानकर्त्तृकश्चेषिणा; यस्मात् य एवेषेः कर्ता स एव तस्यापि। अतस्तद्द्वारेण करोतिरपि कर्मसमानकर्त्तृकश्चेति भावः। ततः सन्, इको झल् (1.2.9) इति सनः कित्त्वात् गुणभावः, अज्झनगमां सनि ( (6.4.16) इति दीर्घः, ऋत इद्धातोः (7.1.100) इतीत्त्वम्, रपरत्वम्, हलि च (8.2.77) इति दीर्घः, इण्कोः (8.3.57) इत्यनुवर्तमाने आदेशप्रत्यययोः (8.3.59) इति षत्वम्, द्विर्वचनम्, अभ्यासकार्यम्।धातुग्रहणं किमिति। धातुग्रहणं ह्रेवमर्थं क्रियते - गमनमिच्छतीति सुबन्थान्मा भूदिति। ननु चासत्यपि धातुग्रहणे ततः सन् भवितुं नोत्सहते; सुप आत्मनः क्यच् (3.1.8) इत्पपवादेन बाधितत्वात्, तस्मात् पारिशेष्याद्विनापि धातुग्रहणेन धातोरेव भविष्यतीत्यभिप्रायेणाह - सोपसर्गादुत्पत्तिर्मा भूत् इति। यदोपसर्गविशिष्टो धात्वर्थ इषिणा व्याप्यते तदासावुपसर्गविशिष्ट एव कर्मत्वमनुभवतीति तदद्वारेणासौ सोपसर्ग एव धातुः। कर्मेति सोपसर्गादुत्पत्तिः स्यात्,ततश्च प्राचिकीर्षदित्यत्र द्विर्वचनं क्रियमाणं सन्नन्तस्यैकाचः प्रथमस्य द्विर्वचनं भवतीति सन्यङोः (6.1.9) इति समुदायादेः प्रशब्दस्य स्यात्। लङि च सोपसर्गस्याङ्गसंज्ञायां ततः प्रागडागमः स्यात्। यदि तर्हि सोपसर्गः, कर्मधातोरुत्पत्तिर्न स्यात्, तस्याकर्मकत्वात्? नैतदस्ति, समुदायस्य हि कर्मत्वेऽवयवा अपिक्मत्वमनुभवन्ति;अवयवात्मकत्वात् समुदायस्य। अभ्युपाय एव ह्रवयवकर्मता समुदायकर्मतायाः; अन्यथा यदि समुदाये कर्मण्यवयवाः कर्मभावापन्ना न भवेयुः, तदा महान्तं पुत्रमिच्छतीत्यत्र कर्मलक्षणावयवा द्वितीया न स्यात्। ` गमेनेनेच्छति` इति। करणत्वप्रदर्शनार्थं ल्युहन्तोपन्यासः। धातोरेव हि सनोऽनुत्पत्तिः प्रत्युदाहरणम्। अस्त्यत्र समानकर्त्तृकत्वम्। तथा हि - य एवेषेः कर्ता स एव गमनस्य, स ह्रात्मीयेन गमनेन करणभावमापन्नेन किमपि वस्त्विच्छति। क्मत्वं तु गमेरर्थद्वारकं नास्तीति न भवत्यतः सन्। देवदत्तस्य भोजनमिच्छति इति। देवदत्तस्येति कर्तकर्मणोः कृति (2.3.65) इति कर्तरि षष्ठी। अत्र हि भोजनस्य देवदत्तः कर्ता, इषेस्तु यज्ञदत्त इति समानकर्त्तृकत्वं नास्ति। कर्तुं जानाति इति। इच्छाग्रहणादिह ज्ञानेऽर्थे सन्न भवति। ननु चेषिकर्मा यो धातु रिषिणैव समानकर्त्तृकस्तत इच्छाया वा सन् भवतीत्युक्तम्। इह च यथेच्छा प्रत्ययार्थो नास्ति तथा धातोरिषिकर्मत्वमपि, इषिणा समानकर्त्तृकत्वञ्च, तदयुक्तं प्रत्युदाहरणम्, अङ्गत्रयवैकल्यात्? नैतदस्ति, सति हीच्छाग्रहणे तद्विशेषणद्वयं प्रत्यासत्तेर्लभ्यते। असति तु तस्मिन् यां काञ्चित् क्रियां प्रति धातोः कर्मत्वं विज्ञायते, प्रतियोगिमात्रापेक्षया च समानकर्त्तृकत्वमिति काऽत्रायुक्तता !`वावचनाद्वाक्यमपि भवति` इति। उत्तरसूत्र इति शेषः। इह तु समानकर्त्तृकेषु तुमुन् (3.3.158) इत्यत एव विधानात् कर्त्तृमिच्छतीति वाक्यं भविष्यति। नित्यत्वेहि सनस्तस्य वचनस्यानर्थक्यं स्यात्। अन्यदपि वावचनप्रयोजनमुक्तमेव, तस्यै समुच्चयार्थोऽपिशब्दः। धातोरिति विधानात् इत्यादि। आर्धधातुके शेषः (3.4.114) इत्यनेन धातोरित्येवं धातुशब्दमुच्चार्य विहितस्य प्रत्ययस्यार्धधातुकसंज्ञाविधानात्। इह धातोरित्येव सनो विधानमित्यार्धधातुकसंज्ञा न भवति, न हि तस्य तथा विधानमस्ति।आशङ्कायामुपसंख्यानम् इति। आशङ्का = सम्भावना, सा च प्रयोक्तृधर्मः। नदीकूलं पिपतिषति इत्यचेतनत्वात् कूलस्येच्छा न सम्भवतीति न प्राप्नोति। आशङ्के कूलं पतिष्यति इत्यस्मिन् विषय एवं प्रयोगः। आआ मुमूर्षति इति। पूर्ववत् कित्त्वदीर्घत्वे। उदोष्ठपूर्वस्य (7.1.102) इत्त्युक्तम्; रपरत्वञ्च। अत्र सत्यपि चेतनत्वे जीनस्य प्रियत्वाच्छुनो मर्तुमिच्छा न सम्भवतीति न प्राप्नोति। एष च प्रयोगः अहमाशङ्केमरिष्यति आआ इत्यत्रार्थे वेदितव्यः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। कर्तव्य इत्यव्याहार्यम्। प्रतिपादनं तु - धातोरिति योगविभागः कर्तव्यः, तेनाशङ्कायामपि सन् भविष्यति।इच्छासनन्तात् इत्यादि। इच्छायामर्थे यो विहितः सन् तदन्तात् सनः प्रतिषेधो व्याख्येयः। व्याख्यानं तूत्तरत्र करिष्यामः। स्वार्थे यः सन् तदन्तात् सनिष्यत एवेतीच्छाविशेषणं कृतम्। जुगुप्सिषते इति। अतो लोपः (6.4.48) इत्यकारलोपः। शैषिकात् इत्यादि। अआप्तयादिभ्योऽर्थेभ्योऽदूरभव इत्येतत्पर्यन्तेभ्योऽन्यो योऽर्थः स शेषः, तत्र भवः शैषिकः, अध्यात्मादिभ्यष्ठञ् (वा।456)। तस्माच्छैषिकः सरूपः प्रत्ययो नष्टः। शालायाम्भव इति वृद्धाच्छः (4.2.114) शालीयः, शालीये भव इति पुनश्छो न भवति। विरूपस्तु भवत्येव - अहिच्छत्रे भव आहिच्छत्रः, प्राग्दीव्यतोऽण् (4.1.83) आहिच्छत्रे भव आहिच्छत्रीयः - अणन्ताद्वृद्धाच्छो (4.2.113) भवति। मतुबर्थे भवः प्रत्ययो मतुबर्थीयः, गहादिभ्यश्च (4.2.138) इति च्छः, मतुबर्थोऽस्यास्तीति मतुबर्थिकः प्रत्ययः, अत इनिठनौ (5.2.115) इति ठन्। मतुबर्थोऽस्यास्तीतिमतुबर्थीयात् प्रत्ययान्मतुबर्थिकः सरूपः प्रत्ययो नेष्टः। दण्डोऽस्यास्तीति दण्डिकः, पूर्ववट्ठन्, दण्डिकोऽस्यास्तीति मतुबर्थीयात् पुनष्ठन् न भवति। विरूपस्तु भवत्येव - दण्डोऽस्यास्तीति दण्डी, दण्डिनोऽस्यां शालायां सन्तीति दण्डमती शाला, इन्नन्तान्मतुप् भवति। सन्नतान्न सनिष्यते इति। सरूपः इति सम्बध्यते। तत्र यद्यपि सनो रूपसारूप्यव्यभिचारो नास्ति, तथापि विशेषणसामर्थ्यादर्थसारूप्यमाश्रीयते। तेनेच्छासनन्तादिति गम्यते, पूर्वम् इच्छासनन्तात्प्रतिषेधो वक्तव्यः (वा।181) इत्यभिधानाच्च। यस्तु निन्दादिषु गुपादिभ्यः सन् तत् इच्छासन् भवत्येव। तथा चैवं वृत्तादुदाहृतम्।एतत्सर्वं न्यायप्राप्तमेवोदाहृतम्। कथम्? निष्पन्ना हि प्रकृतिः प्रत्ययविधेर्निमित्तं भवति। न च सरूपशैषिकप्रत्ययविधानकाले तथाविधप्रत्ययानता निष्पन्ना प्रकृतिरस्ति, नापि सरूपमतुबर्थिकप्रत्ययविधानकाले तथाविधप्रत्ययान्ता निष्पन्ना प्रकृतिः, नापीच्छासनि विधीयमान इच्छासनन्तात् प्रकृतिर्लब्धसत्ताकास्ति; इदानीमेव हि तत्र भवः (4.3.53) इत्यादिभिर्लक्षणैः सरूपाणां शैषिकादीनां भाव्यमानत्वात्। तस्मादविद्यमानप्रकृतिकत्वात् ते यथोक्तप्रकारायाः प्रकृतेर्न सम्भवन्तीति॥
Prakriyasarvasvam¶
इच्छाकर्मभूतादिच्छतिना समानकर्तृकाद्धाटोरिच्छार्थे सन्प्रत्ययो वा स्यात् । भू स । इटि प्राप्ते,
Sudha¶
** धातोः कर्मण इति** गुप्तिज्किद्भ्यः सन् (3.1.5) इत्यतः सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम् । तथा समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्दद्वारा धातौ सामानाधिकरण्येनान्वेति । तथा च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारः तद्वाचकाद्धतोरिच्छायां सन् वा स्यादिति फलति । तदाह - इषि कर्मण इत्यादि । इषिणा एककर्तृकात् इषिकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः ।
Vartika¶
आशङ्कायां सन्वक्तव्यः ।