31005: गुप्तिज्किद्भ्यः सन्

Padacheda: गुप्-तिज्-किद्भ्यः | S | 5 | 3 |

सन् | S | 1 | 1 |

Sutrartha


Vasu English Summary

After the verbs गुप् , तिज् and कित् comes the affix सन्।

Vasu English Translation

After the verbs गुप् , तिज् and कित् comes the affix सन्। This affix is to be added to the above verbs, when they mean to ‘despise’, ‘to endure’ and ‘to heal’ respectively, though they ordinarily mean ‘to hide’, ‘to whet’ and ‘to dwell’. As जुगुप्सते ‘he censures or despises’; तितिक्षते ‘he endures patiently’; चिकित्सते ‘he heals’. But गोपायति ‘he protects’; तेजयति ‘he sharpens’; सङ्केतयति ‘he makes sign’. When सन् is added, there is reduplication of the root, by (VI.I.9). Thus, गुप् + सन् = जुगुप् + स (7.4.62) = जुगुप्स् to which is added the third person singular termination अते = जुगुप्सते.

Bhashya

गुप्तिज्किद्भ्यः सन् (622) (686 सन्प्रत्ययविधिसूत्रम्॥ 6.1.1 आ.4 ) (आक्षेपभाष्यम्) गुप्तिज्कितमाना अनुदात्तेतः। गुपादिष्वनुबन्धकरणं किमर्थम्?॥ (1714 प्रयोजनवार्तिकम्॥ 1 ॥) ॥ ॥ गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्- (भाष्यम्) गुपादिष्वनुबन्धाः क्रियन्ते। आत्मनेपदं यथा स्यात्॥ (अनुबन्धवैर्यथ्यभाष्यम्) अथ क्रियमाणेष्वप्यनुबन्धेषु आत्मनेपदं न प्राप्नोति। किं कारणम्?। सना व्यवहितत्वात्॥ (आत्मनेपदार्थमनुबन्धसार्थक्यभाष्यम्) पूर्ववत्सनः इत्येवं भविष्यति॥ (आत्मनेपदानुपपत्तिभाष्यम्) पूर्ववत्सनः इत्युच्यते। न चैतेभ्यः प्राक् सन आत्मनेपदम्, नापि परस्मैपदं पश्यामः॥ (आत्मनेपदोपपादनभाष्यम्) एवं तर्ह्यनुबन्धकरणसार्मथ्याद्भविष्यति॥ अथ वा अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति। तद्यथा - -गोः सक्थनि कर्णे वा कृतं लिङ्गं गोर्विशेषकं भवति॥ (अवयवलिङ्गस्य समुदायविशेषकत्वे दूषणभाष्यम्) यदि अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति। तदा जुगुप्सयति मीमांसयतीत्यत्रापि प्राप्नोति॥ (दूषणपरिहारभाष्यम्) अवयवे कृतं लिङ्गं तस्य समुदायस्य विशेषकं भवति यं समुदायं योऽवयवो न व्यभिचरति। सन्नन्तमेव च न व्यभिचरति। णिजन्तं पुर्नव्यभिचरति। तद्यथा। गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति,न गोमण्डलस्य॥ गुप्तिज्किद्भ्यः सन्॥ 5 ॥

Kashika

गुप गोपने , तिज निशाने , कित निवासे एतेभ्यो धातुभ्यः सन् प्रत्ययो भवति। प्रत्ययसंज्ञा चाधिकृतैव। जुगुप्सते। तितिक्षते। चिकित्सति॥ निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यतेऽन्यत्र यथाप्राप्तं प्रत्यया भवन्ति॥ गोपयति। तेजयति। सङ्केतयति। गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्॥

Balamanorama

गुप्तिज्किद्भ्यः सन् - गुप्तिज्किद्भ्यः ।

Padamanjari

गुप्तिज्किद्भ्यः सन्॥ गुप गोपने इति।’गुप व्याकुलत्वे’ ,’गुपू रक्षणे’ इत्येतयोस्तु ग्रहणं न भवति; तिजिना सह गणे पठितस्यानुदातेन एव गुपेरिहापि ग्रहणात्। प्रत्ययसंज्ञा चाधिकृतैवेति। का पुनरत्र विस्मरणाशङ्का, किन्त्वन्वर्था प्रत्ययसंज्ञा, अनर्थकस्य गुपादिसनो न स्यादित्याशङ्कानेन निवार्यते। अधिकारसामर्थ्यादनर्थकस्यापि भवतीत्यर्थः। अन्वर्थता त्वर्थवदनर्थकसम्भवेऽर्थवतो ग्रहणेहेतुः। निन्दादयस्तु गुपादीनामर्था न सनः, अन्यथा गुपादीनामानर्थक्यप्रसङ्गात्। धातूनां चानेकार्थत्वं तत्र तत्र द्दश्यते। प्रत्ययास्तु स्वार्थिका अपि भवन्ति समासान्तादिवत्। जुगुप्सते इति। धातोरित्येवमनभिधानादस्य सनोऽनाद्धधातुकत्वादिडभावः। निन्दाक्षमेति। प्रायिकमेतदुपाधिवचनम्। तथा च’क्षेत्रियच् परक्षेत्रे चिकित्स्यः’ इत्यत्र ग्रन्थः - ठथ वा क्षेत्रियाणि तृणानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि, अथ वा क्षेत्रियः पारदारिकः, परदाराः परक्षेत्रेम्, तत्र चिकित्स्यो निगृहीतव्यःऽ इति। संशयेऽपि द्दश्यते - तद्व्यचिकित्सन्, य एवं विद्वान्विचिकित्सति, तच्छुश्रुवानृषिर्व्यचिकित्सदिति च। अन्यत्रेति। अर्थान्तरवृतेर्द्धात्वन्तरादित्यर्थः। एतच्च’पूर्ववत्सनः’ इत्यत्र निपूणतरमुपपादितम्। गुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति। एतदपि तत्रैवोपपादितम्। गुपादीष्विति बहुवचनं मान्वधादिसूत्राभिप्रायम्। कितिस्तुपरस्मैपदी, तथा चानन्तरमेव प्रयोगा दर्शिताः। सनो नकारः स्वरार्थः, नित्करणसामर्थ्याद्धातुस्वरो न भवति - यत्स्तोतारं जिघांससि सखायम्। विशेषणार्थश्च - ठज्झनगमां सनिऽ’हनेः सः’ हंस इत्यत्र मा भूत्।’स्तौतिण्योरेव षण्यभ्यासात्’ ,सुषुपिष इन्द्रमित्यत्र मा भूत्।’सन्यङेः’ इत्यत्रापि’लिटि धातोः’ इत्यतो धातोरित्यनुवृतैर्यद्यपि तृणादिभ्यः सेऽप्रसङ्गः। हंसः, वत्स इत्यादौ तु स्यादेवोणादीनां व्युत्पत्तिपक्षे। प्रतीषिषतीत्यत्र प्रतिपूर्वादिणः सनि विहिते ठजादेर्द्वितीयस्यऽ इति शब्दस्य द्विर्वचनं यथा स्यादेवमर्थः।’यथष्ट्ंअ नामधातूनामिति वक्तव्यम्’ पुत्रीयिषिषति। अन्यत्र त्वार्द्धधातुके ठतो लोपःऽ सार्वधातुके शपा सहैकादेश इति नास्ति विशेषः॥

Nyaas

प्रत्ययसंज्ञा चाधिकृतैव इति। विस्पष्टार्थमेतत्। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते; आ पञ्चमाध्यायपरिसमाप्तेः (का।3.1.1) इत्यतो वचनादेव प्रतिपाद्यस्यावगतत्वात्। ननु च सत्यपि प्रत्ययसंज्ञाया इहोपस्थाने नैव तया सनो भवितव्यम्; यतः प्रत्यय इत्यन्वर्थसंज्ञेयम् - प्रतियन्त्यनेनार्थानिति प्रत्ययः, न च सना कञ्चनार्थं प्रतियन्ति; तस्यानर्थकत्वात्, न हीह सनः कश्चनार्थो निर्दिश्यते। न च अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भविष्यति (पु।प।पा।90) इतिस्वार्थ एव सन् भविष्यतीति युक्तं परिकल्पयितुम्; गोपनादेः स्वार्थस्य सन्नन्तादप्रतीतेः।अथानर्थकस्यापि प्रत्ययाधिकारे विधानसामर्थ्यात् संज्ञा भविष्यतीति चेत्? न; एवञ्च हनस्त च (3.1.108) त्रपुजतुनोः षुक् (4.3.138) इति विकारागमयोरपि स्यात्। नैष दोषः; अस्त्येव सनोऽर्थः, कः पुनरसो? निन्दादिः। यदाह - निन्दाक्षमाव्याधिप्रतीकारेषु सनिष्यते (वा। 178) इति। कुतः पुनरेतदवसितम् - सनोऽर्था निन्दादय इति? अन्वयव्यतिरेकाभ्याम्। सति हि सनि जुगुप्सत इत्यादौ तेऽर्थाः प्रतीयन्ते, असति तु सनि सत्स्वपि गुपादिषु गोपयतीत्यादौ ते न प्रतीयन्ते। तस्मादर्थवानेव सन्निति भवत्येव प्रत्ययसंज्ञा। जुगुप्सते इत्यार्धधातुकत्वाभावादिण् न भवति। आर्धधातुकत्वाभावस्तु सनो धातोरित्यविधानात्। कुहोश्चु (7.4.62) इति चुत्वम् - जकारः। तितिक्षते इति। जकारस्य चोः कुः (8.2.30) कुत्वम् - गकारः। तस्य खरि च (8.4.54) इति चर्त्वम् - ककारः।निन्दाक्षमा इत्यादि। कथं पुनर्निन्दादिष्विष्यमाणो लभ्यते? वक्ष्यमाणं वाग्रहणं सर्वस्य शेषो विज्ञायते, सा च व्यवस्थितविभाषा। तेन निन्दादिषु नित्यं सन् भवति, अन्यत्र न भवति। प्रायिकञ्चैतत् व्याधिप्रतीकारस्यार्थमन्यथा व्याख्यास्यति। अथ वा - क्षेत्रियाणि च तृणानि शस्यार्थे क्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि। अथ वा - क्षेत्रियः पारदारिकः। परदाराः परक्षेत्रम्,तत्र चिकित्स्यो निग्रहीतव्य इत्यर्थः। संशयेऽपि दृश्यते - विचिकित्सति मे मनः इति। यद्यप्यत्रोपसर्गसम्बन्धात् संशयः प्रतीयते, तथापि धातोरेव वाच्य इष्यते, उपसर्गस्य तु द्योत्यः। तस्मात् प्रायिकं व्याधिप्रतीकारग्रहणम्। प्रायेण हि लोके व्याधिप्रतीकारे चिकित्सतीति प्रयुज्यते। अन्यत्र इति। गोपनादौ। गोपयति इति। हेतुमण्णिच्। तेजयति, सङ्केतयति`इति। हेतुमण्णिच्, चुरादिण्ज्वाः; भ्वादौ चुरादौ चानयोः पाठात्।अथ जुगुप्सत इत्यादौ कथमात्मनेपदं सन्नन्ताद्विधीयते, न च गुपादिभ्य प्राक् सन आत्मनेपदं पश्यामः? इत्याह - `गुपादिष्वनुबन्धकरणम् इत्यादि। आत्मनेपदं यथा स्यादिति। गुपादिष्वनुबन्धोऽनुदात्तार्थः कृतः तस्मात् अनुदात्तङितः (1.3.12) इत्यात्मनेपदं भवतीति भावः। ननु च कृतेऽप्यनुबन्धे न भवितव्यमेव तेभ्य आत्मनेपदेन; सना व्यवहितत्वात्? नैतदस्ति; अनुबन्धकरणसामर्थ्याद्भविष्यति। अथ वा - अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति (है।ग।प।107) इति जुगुप्सादय एव समुदाया अनुदात्तेतः, तेनावयवधानेनैव तेभ्य आत्मनेपदं भविष्यति। एवं स्थिते यदत्र द्वेष्यमापद्यते तत् पूर्ववत्सनः (1.3.62) इत्यत्रोपन्यस्तमपास्तञ्च। अथ किमर्थं सनोऽकार उपदिश्यते, यावता तस्यार्धधातुके अतो लोपः (6.4.48) इति लोपेन भवितव्यम्, सार्वधातुकेऽपि शपा सहैकादेशेन, तत्र सत्यसति वाऽकारोपदेशे नास्ति कश्चिद्विशेषः? नैतदस्ति; इह प्रतीषिषतीति प्रपूर्वादिणः सनि विहिते यद्यकारोपदेशो न स्यात् अजादेर्द्वितीयस्य (6.1.2) इति द्वितीयस्यैकाचो द्वर्वचनं विधीयमानं स इत्यस्य न स्यात्, अनच्कत्वात् सनः। अकारोपदेशे सति स इत्यस्य द्वितीयस्यैकाचो भवति। तदर्थोऽपकारोपदेशः॥

Prakriyasarvasvam

गुपतिजकितां नित्यं सन् स्यात् । एषां निन्दाक्षमाव्याधिप्रतीकारेष्वेव सनिष्यते । कितेः संशयेऽपि । अस्य सनो ‘धातोः’ (३-१-९१) इत्यविहितत्वे- नार्धधातुकत्वाभावादिण् न । गुपतिजोरनुदात्तेत्त्वसामर्थ्यात् सनन्तस्यापि तङ् । कितिः परस्मैपद्येव । जुगुप्सते । तितिक्षते । ज्वरं चिकित्सति । अर्थे विचिकित्सति ।

Sutra Prayogas

  • तितिक्षासमम् (किरातार्जुनीयम्): गुप्तिज्किद्भ्य: सन् इति क्षमार्थे सन्प्रत्ययः।