24083: नाव्ययीभावादतोऽम्त्वपञ्चम्याः

Padacheda: न | S | 0 | 0 |

अव्ययीभावात् | S | 5 | 1 |

अतः | S | 5 | 1 |

अम् | S | 1 | 1 |

तु | S | 0 | 0 |

अ-पञ्चम्याः | S | 6 | 1 |

Sutrartha


Vasu English Summary

There is not लुक् elision of the case-affix after an अव्ययीभाव compound that ends in आ ; आम् is the substitute of its case-affix es, but not when it is the 5th case-affix.

Vasu English Translation

There is not लुक् elision of the case-affix after an अव्ययीभाव compound that ends in अ ; आम् is the substitute of its case-affix es, but not when it is the 5th case-affix. This debars luk-elision which was to have taken place by the last sutra instead of luk-elision, we have आम् added to the words ending in short अ; for examples of this, see sutra (2.1.6); as उपकुम्भं तिष्ठति ‘upakumbha is standing’; उपकुम्भं पश्य ‘see the upakumbha.’

Why do we say ‘after words ending in short अ’? Because after Avyayibhava compound ending in any other vowels there is not substitution, but there is total-elision of the case-affixes; as अधिस्त्री, अधिकुमारी.

But the ablative case-affix is not elided after Avyayibhava compound ending in short अ, nor is there the अम् substitution; as उपकुम्भादानय.

Bhashya

नाव्ययीभावादतोऽम्त्वपञ्चम्याः (614) (377 लुक्प्रतिषेधाम्विधिसूत्रम् ॥ 2.4.2 आदृ 12) (योगविभागार्थसाधनाधिकरणम्) (1662 वार्तिकम् ॥ 1 ॥) - नाव्ययीभावादत इति योगव्यवसानम् - (भाष्यम्) नाव्ययीभावादतः इति योगो व्यवसेयः। नाव्ययीभावादकारान्तात्सुपो लुग् भवति। ततः - अम् त्वपञ्चम्याः इति ॥ (आक्षेपभाष्यम्) किमर्थो योगविभागः? (1663 वार्तिकम् ॥ 2 ॥) - पञ्चम्या अम्प्रतिषेधार्थः - (भाष्यम्) पञ्चम्या अमः प्रतिषेधो यथा स्यात् ॥ (1664 वार्तिकम् ॥ 3 ॥) - एकयोगे ह्युभयोः प्रतिषेधः - (भाष्यम्) एकयोगे ह्युभयोः प्रतिषेधः स्यात्। अमः अलुकश्च ॥ (आक्षेपभाष्यम्) स तर्हि योगविभागः कर्तव्यः? (समाधानभाष्यम्) न कर्तव्यः ॥ (1665 वार्तिकम् ॥ 4 ॥) - तुर्नियामकः - (भाष्यम्) तुः क्रियते। स नियामको भविष्यति - अमेवापञ्चम्या इति ॥ (अपादानपञ्चमीनिर्णयाधिकरणम्) (1666 शेषपूरकवार्तिकम् ॥ 5 ॥) - अमि पञ्चमीप्रतिषेधेऽपादानग्रहणम् - (भाष्यम्) अमि पञ्चमीप्रतिषेधे अपादानग्रहणं कर्तव्यम्। अपादानपञ्चम्या इति वक्तव्यम्। किं प्रयोजनम्? (1667 शेषपूर्त्तिप्रयोजनवार्तिकम् ॥ 6 ॥) - कर्मप्रवचनीययुक्तेऽप्रतिषेधार्थम् - (भाष्यम्) कर्मप्रवचनीययुक्ते मा भूद् - आपाटलिपुत्रं वृष्टो देवः ॥ (1668 शेषपूर्तिवैर्यथ्यवार्तिकम् ॥ 7 ॥) - न वोत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चम्यभावः - (भाष्यम्) न वा वक्तव्यम् ॥ किं कारणम्? उत्तरपदमत्र कर्मप्रवचनीययुक्तम्। उत्तरपदस्य कर्मप्रवचनीययोगात्समासात्पञ्चमी न भविष्यति। यदा च समासः कर्मप्रवचनीययुक्तः, भवति तदा प्रतिषेधः। तद्यथा - आ उपकुम्भात्। आ उपमणिकात् इति ॥ नाव्ययीभावा ॥ 83 ॥

Kashika

पूर्वेण लुक् प्राप्तः प्रतिषिध्यते। अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः। एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति। उपकुम्भं तिष्ठति। उपकुम्भं पश्य। उपमणिकं तिष्ठति। उपमणिकं पश्य। अत इति किम्? अधिस्त्रि। अधिकुमारि। अपञ्चम्या इति किम्? उपकुम्भादानय॥

Siddhanta Kaumudi

अदन्तादव्ययीभावात्सुपो न लुक् किंतु तस्य पञ्चमीं विना अमादेशः । दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियामित्यमरः ॥

Laghu Siddhanta Kaumudi

अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात् ॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम् ॥

Balamanorama

नाव्ययीभावादतोऽम्त्वपञ्चम्याः - तथाच अव्ययीभावसमासादुत्पन्नानां सुपामव्ययादाप्सुप इति लुक् स्यादिति शङ्कायामाहनाव्ययीभावात् । ‘अम् तु अपञ्चम्या’ इति छेदः । ‘नाव्ययीभावदतः’ इत्येकं वाक्यम् ।ण्यक्षत्रियार्षे॑त्यतो लुगित्यनुवर्तते । ‘अव्ययादाप्सुपः’ इत्यतः ‘सुप’ इति च । अता अव्ययीभावो विशेष्यते । तेन तदन्तविधिः । तदाह अदन्तादव्ययीभावात्सुपो न लुगिति । ‘अम् तु अपञ्चम्याः’ इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपोऽमादेशः स्यात् । पञ्चम्यास्तु अम्न भवतीति लभ्यते । तदाह — तस्य पञ्चमीं विना अमादेश इति । अत्राऽपञ्चम्या इति प्रतिषेधोऽयमनन्तरत्वादम एव भवति, न तु लुङ्निषेधस्यापि । एवंचाऽदन्तादव्ययीभावात्परस्य सुपो न लुक्, किंत्वमादेशः । पञ्चम्यास्तु लुगमादेशश्च न भवतीति स्थितिः । सूत्रे एतत्सूचनार्थमेव तुशब्दः ।अव्ययीभावादतोऽम्त्वपञ्चम्याः॑ इत्येवोक्तौ तु अदन्तादव्ययीभावात्परस्य पञ्चमीभिन्नस्य सुपो लुकोऽपवादोऽमादेशः स्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे ‘अव्ययादाप्सुपः’ इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तां तावत् । अपदिशमिति । पञ्चमीभिन्नविभक्तीनामुदाहरणम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसकह्रस्वत्वेनाऽप्येतत्सिध्यति,अव्ययीभावश्चे॑ति नपुंसकत्वस्य वक्ष्यमाणत्वात् । तथापिगोस्त्रियो॑रिति सूत्रं चित्रगु अतिखट्व इत्याद्यर्थमावश्यकमितीहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्याऽदृष्टेनापि योगविभागेनाऽपदिशमिति रूपसाधनं वृद्धसंमतमित्याह-क्लीबेऽव्ययमिति ।

Tattvabodhini

नाव्ययीभावादतोऽम्त्वपञ्चम्याः - नाव्ययी । अत्रअपञ्चम्याः॑ इथि प्रतिषेधोऽनन्तरत्वादम एव न तु व्यवहितस्याऽलुकोऽपि । अमुमेवार्थं द्योतयितुं सूत्रेतु॑ शब्दः । तस्य पञ्चमीं विनेति । एवं चाऽदन्तादव्ययीभावात्परस्य पञ्चमभिन्नस्य सुपो लुङ् न, पञ्चम्यास्तु लुगमादेशावुभावपि न भवत इति स्थितम् । अतः किम् । अधिहरि । दिशयोरिति । दिशोरिति हलन्तेन विग्रहेऽपि एतदेव रुपम् । दिश्शब्दस्य शरदादिषु पाठाट्टच् ।

Padamanjari

नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ किमर्थः प्रतिषेधः? पूर्वसूत्रेण लुङ्माभूदिति। अमत्र विधीयते, स नाप्राप्ते लुकारभ्यमाणस्तस्य बाधको भविष्यति, यत्र तर्हि प्रतिषिध्यते, पञ्चम्यास्तत्र लुक् प्राप्नोति। प्रतिषेधे तु सतित तत्सामर्थ्याद् द्वे वाक्ये भवतः - -नाव्ययीभावादित्येकम्, अम्त्वपञ्चम्या इति द्वितीयम्। अत्र चात इत्यपेक्ष्यते। तत्रापञ्चम्या इत्यनेनानन्तरस्य विधिर्वा भवति प्रतिषेधो वेति पञ्चम्या आदेशः प्रतिषिद्ध्यते, न पूर्ववाक्यविहितः प्रतिषेधः। इममेवार्थ तुशब्देन द्योतयति - अविशेषेण प्रितषेधः अम्त्वपञ्चम्या इति, तदेतदुक्तम् - तस्मिन्प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवतीति। वाक्यभेदस्तु वृतावेव स्पष्टः। उपकुम्भादिति। समीपभूतात्कुम्भादित्यर्थः। कुम्भस्य समीपादित्यपरे। उन्मतगङ्गादिरन्यपदार्थप्रधानः सत्ववाच्यव्ययीभावः क्रियासम्बन्धसद्भावादपादानत्वात्पञ्चम्या मुख्यमुदाहरणम्॥

Nyaas

एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति इति। कथम्? इह द्वोयरर्थयोर्विधानात्, विधायके च वाक्ये द्वे एव। तत्र नाव्ययीबावादतः इत्येतत् प्रतिषेधस्य विधायकमेकं वाक्यम्। अम् त्वपञ्चम्याः इत्येतदमो विधायकं द्वितीयं वाक्यम्, तत्र चात इत्येतदपेक्षते। अत एव वृत्तौ वाक्यद्वयमुपन्यस्तम् - अदन्तादवययीभावदुत्तरस्य सुपो न लुग्भवति इत्येकं वाक्यम्, अमादेशस्तु तस्य भवत्यपञ्चम्याः इति द्वितीयम्। तत्रापञ्चम्या इत्यनेन अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या।प।19) इति पञ्चम्या अमादेश एव प्रतिषिध्यते, न त्वलुक् पूर्ववाक्येन विहितः। अत एवालुकि सति पञ्चम्याः श्रवणमेव बवति। एकवाक्यतायां हि सत्यां कार्यद्वयस्यैकया पाठप्रवृत्या विधीयमानत्वात् कार्यद्वयस्यापञ्चम्या इति प्रतिषेधः स्यात्। पञ्चमीं वर्जयित्वैतत् कार्यद्वयं वेदितव्यम्। वाक्यभेदे त्वपञ्चमम्या इत्येतत् प्रत्यासन्नममादेशमपेक्षते, न तु वाक्यान्तरविहितमलुकम्। तेनापञ्चम्या इत्यनेन सम्बध्यमानः सामान्येन विधीयमानः सन्नलुक् पञ्चमीमप्यवगाहते; तस्मात् पञ्चम्याः श्रवणमेव युक्तम्। तुशब्देनाप्ययमर्थो लभ्यते।ननु च क्रियायाः कारकाणि भवन्ति, पूर्वपदार्थप्रधानश्चाव्ययीभाव उक्तः,पूर्वपदार्थस्य चासत्त्वभूतत्वात् क्रियामन्तरेण सम्बन्धाभावादपादानादिभावो नास्ति, तत् कुतोऽव्ययीभावात् पञ्चम्यादयो विभक्तयो भवेयुः?नैतदस्ति; पूर्वपदार्थप्राधान्येऽपि गुणभूतोत्तरपदार्थपेक्षः क्रियायोग उपपद्यते, यथा - पञ्चपूलीमानयेति। तत्र भावप्राधान्येऽपि गुणभूत द्रव्यापेक्षः क्रियासम्बन्धः॥

Praudhamanorama

दिशयोरिति। दिशोरिति हलन्तेन विग्रहेऽप्येतदेव रूपम्। दिश्शब्दस्य शरदादित्वाट्टच्।

Prakriyasarvasvam

<karika>अदन्तादव्ययीभावात् सुपो लुङ् नास्ति किं पुनः । पञ्चमीवर्जितानां तु सुपामम्भाव इष्यते ॥ ३७२ ॥</karika> उपकृष्ण अम्,

Sutra Prayogas

  • आयतीगवम् (भट्टिकाव्यम्): नाव्ययीभावात् इति सप्तम्या अम्भावः।

  • अन्तर्-गिरं (भट्टिकाव्यम्): नाव्ययीभावात् इत्यमेव भवति।

  • पारे-समुद्रं (भट्टिकाव्यम्): नाव्ययीभावात् इत्यम्भावः।