24083: नाव्ययीभावादतोऽम्त्वपञ्चम्याः ==================================== **Padacheda:** न | S | 0 | 0 | अव्ययीभावात् | S | 5 | 1 | अतः | S | 5 | 1 | अम् | S | 1 | 1 | तु | S | 0 | 0 | अ-पञ्चम्याः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is not लुक् elision of the case-affix after an अव्ययीभाव compound that ends in आ ; आम् is the substitute of its case-affix es, but not when it is the 5th case-affix. Vasu English Translation ------------------------ There is not लुक् elision of the case-affix after an अव्ययीभाव compound that ends in अ ; आम् is the substitute of its case-affix es, but not when it is the 5th case-affix. This debars *luk*-elision which was to have taken place by the last *sutra* instead of *luk*-elision, we have आम् added to the words ending in short अ; for examples of this, see *sutra* (2.1.6); as उपकुम्भं तिष्ठति '*upakumbha* is standing'; उपकुम्भं पश्य 'see the *upakumbha*.' Why do we say 'after words ending in short अ'? Because after *Avyayibhava* compound ending in any other vowels there is not substitution, but there is total-elision of the case-affixes; as अधिस्त्री, अधिकुमारी. But the ablative case-affix is not elided after *Avyayibhava* compound ending in short अ, nor is there the अम् substitution; as उपकुम्भादानय. Bhashya ------- नाव्ययीभावादतोऽम्त्वपञ्चम्याः (614) (377 लुक्प्रतिषेधाम्विधिसूत्रम् ॥ 2.4.2 आदृ 12) (योगविभागार्थसाधनाधिकरणम्) (1662 वार्तिकम् ॥ 1 ॥) - नाव्ययीभावादत इति योगव्यवसानम् - (भाष्यम्) नाव्ययीभावादतः इति योगो व्यवसेयः। नाव्ययीभावादकारान्तात्सुपो लुग् भवति। ततः - अम् त्वपञ्चम्याः इति ॥ (आक्षेपभाष्यम्) किमर्थो योगविभागः? (1663 वार्तिकम् ॥ 2 ॥) - पञ्चम्या अम्प्रतिषेधार्थः - (भाष्यम्) पञ्चम्या अमः प्रतिषेधो यथा स्यात् ॥ (1664 वार्तिकम् ॥ 3 ॥) - एकयोगे ह्युभयोः प्रतिषेधः - (भाष्यम्) एकयोगे ह्युभयोः प्रतिषेधः स्यात्। अमः अलुकश्च ॥ (आक्षेपभाष्यम्) स तर्हि योगविभागः कर्तव्यः? (समाधानभाष्यम्) न कर्तव्यः ॥ (1665 वार्तिकम् ॥ 4 ॥) - तुर्नियामकः - (भाष्यम्) तुः क्रियते। स नियामको भविष्यति - अमेवापञ्चम्या इति ॥ (अपादानपञ्चमीनिर्णयाधिकरणम्) (1666 शेषपूरकवार्तिकम् ॥ 5 ॥) - अमि पञ्चमीप्रतिषेधेऽपादानग्रहणम् - (भाष्यम्) अमि पञ्चमीप्रतिषेधे अपादानग्रहणं कर्तव्यम्। अपादानपञ्चम्या इति वक्तव्यम्। किं प्रयोजनम्? (1667 शेषपूर्त्तिप्रयोजनवार्तिकम् ॥ 6 ॥) - कर्मप्रवचनीययुक्तेऽप्रतिषेधार्थम् - (भाष्यम्) कर्मप्रवचनीययुक्ते मा भूद् - आपाटलिपुत्रं वृष्टो देवः ॥ (1668 शेषपूर्तिवैर्यथ्यवार्तिकम् ॥ 7 ॥) - न वोत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चम्यभावः - (भाष्यम्) न वा वक्तव्यम् ॥ किं कारणम्? उत्तरपदमत्र कर्मप्रवचनीययुक्तम्। उत्तरपदस्य कर्मप्रवचनीययोगात्समासात्पञ्चमी न भविष्यति। यदा च समासः कर्मप्रवचनीययुक्तः, भवति तदा प्रतिषेधः। तद्यथा - आ उपकुम्भात्। आ उपमणिकात् इति ॥ नाव्ययीभावा ॥ 83 ॥ Kashika ------- पूर्वेण लुक् प्राप्तः प्रतिषिध्यते। अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः। एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति। उपकुम्भं तिष्ठति। उपकुम्भं पश्य। उपमणिकं तिष्ठति। उपमणिकं पश्य। अत इति किम्? अधिस्त्रि। अधिकुमारि। अपञ्चम्या इति किम्? उपकुम्भादानय॥ Siddhanta Kaumudi ----------------- अदन्तादव्ययीभावात्सुपो न लुक् किंतु तस्य पञ्चमीं विना अमादेशः । दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियामित्यमरः ॥ Laghu Siddhanta Kaumudi ----------------------- अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात् ॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम् ॥ Balamanorama ------------ **नाव्ययीभावादतोऽम्त्वपञ्चम्याः** - तथाच अव्ययीभावसमासादुत्पन्नानां सुपामव्ययादाप्सुप इति लुक् स्यादिति शङ्कायामाहनाव्ययीभावात् । 'अम् तु अपञ्चम्या' इति छेदः । 'नाव्ययीभावदतः' इत्येकं वाक्यम् ।ण्यक्षत्रियार्षे॑त्यतो लुगित्यनुवर्तते । 'अव्ययादाप्सुपः' इत्यतः 'सुप' इति च । अता अव्ययीभावो विशेष्यते । तेन तदन्तविधिः । तदाह अदन्तादव्ययीभावात्सुपो न लुगिति । 'अम् तु अपञ्चम्याः' इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपोऽमादेशः स्यात् । पञ्चम्यास्तु अम्न भवतीति लभ्यते । तदाह — तस्य पञ्चमीं विना अमादेश इति । अत्राऽपञ्चम्या इति प्रतिषेधोऽयमनन्तरत्वादम एव भवति, न तु लुङ्निषेधस्यापि । एवंचाऽदन्तादव्ययीभावात्परस्य सुपो न लुक्, किंत्वमादेशः । पञ्चम्यास्तु लुगमादेशश्च न भवतीति स्थितिः । सूत्रे एतत्सूचनार्थमेव तुशब्दः ।अव्ययीभावादतोऽम्त्वपञ्चम्याः॑ इत्येवोक्तौ तु अदन्तादव्ययीभावात्परस्य पञ्चमीभिन्नस्य सुपो लुकोऽपवादोऽमादेशः स्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे 'अव्ययादाप्सुपः' इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तां तावत् । अपदिशमिति । पञ्चमीभिन्नविभक्तीनामुदाहरणम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसकह्रस्वत्वेनाऽप्येतत्सिध्यति,अव्ययीभावश्चे॑ति नपुंसकत्वस्य वक्ष्यमाणत्वात् । तथापिगोस्त्रियो॑रिति सूत्रं चित्रगु अतिखट्व इत्याद्यर्थमावश्यकमितीहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्याऽदृष्टेनापि योगविभागेनाऽपदिशमिति रूपसाधनं वृद्धसंमतमित्याह-क्लीबेऽव्ययमिति । Tattvabodhini ------------- **नाव्ययीभावादतोऽम्त्वपञ्चम्याः** - नाव्ययी । अत्रअपञ्चम्याः॑ इथि प्रतिषेधोऽनन्तरत्वादम एव न तु व्यवहितस्याऽलुकोऽपि । अमुमेवार्थं द्योतयितुं सूत्रेतु॑ शब्दः । तस्य पञ्चमीं विनेति । एवं चाऽदन्तादव्ययीभावात्परस्य पञ्चमभिन्नस्य सुपो लुङ् न, पञ्चम्यास्तु लुगमादेशावुभावपि न भवत इति स्थितम् । अतः किम् । अधिहरि । दिशयोरिति । दिशोरिति हलन्तेन विग्रहेऽपि एतदेव रुपम् । दिश्शब्दस्य शरदादिषु पाठाट्टच् । Padamanjari ----------- नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ किमर्थः प्रतिषेधः? पूर्वसूत्रेण लुङ्माभूदिति। अमत्र विधीयते, स नाप्राप्ते लुकारभ्यमाणस्तस्य बाधको भविष्यति, यत्र तर्हि प्रतिषिध्यते, पञ्चम्यास्तत्र लुक् प्राप्नोति। प्रतिषेधे तु सतित तत्सामर्थ्याद् द्वे वाक्ये भवतः - -नाव्ययीभावादित्येकम्, अम्त्वपञ्चम्या इति द्वितीयम्। अत्र चात इत्यपेक्ष्यते। तत्रापञ्चम्या इत्यनेनानन्तरस्य विधिर्वा भवति प्रतिषेधो वेति पञ्चम्या आदेशः प्रतिषिद्ध्यते, न पूर्ववाक्यविहितः प्रतिषेधः। इममेवार्थ तुशब्देन द्योतयति - अविशेषेण प्रितषेधः अम्त्वपञ्चम्या इति, तदेतदुक्तम् - तस्मिन्प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवतीति। वाक्यभेदस्तु वृतावेव स्पष्टः। उपकुम्भादिति। समीपभूतात्कुम्भादित्यर्थः। कुम्भस्य समीपादित्यपरे। उन्मतगङ्गादिरन्यपदार्थप्रधानः सत्ववाच्यव्ययीभावः क्रियासम्बन्धसद्भावादपादानत्वात्पञ्चम्या मुख्यमुदाहरणम्॥ Nyaas ----- `एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति` इति। कथम्? इह द्वोयरर्थयोर्विधानात्, विधायके च वाक्ये द्वे एव। तत्र `नाव्ययीबावादतः` इत्येतत् प्रतिषेधस्य विधायकमेकं वाक्यम्। `अम् त्वपञ्चम्याः` इत्येतदमो विधायकं द्वितीयं वाक्यम्, तत्र चात इत्येतदपेक्षते। अत एव वृत्तौ वाक्यद्वयमुपन्यस्तम् - `अदन्तादवययीभावदुत्तरस्य सुपो न लुग्भवति` इत्येकं वाक्यम्, `अमादेशस्तु तस्य भवत्यपञ्चम्याः` इति द्वितीयम्। तत्रापञ्चम्या इत्यनेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति पञ्चम्या अमादेश एव प्रतिषिध्यते, न त्वलुक् पूर्ववाक्येन विहितः। अत एवालुकि सति पञ्चम्याः श्रवणमेव बवति। एकवाक्यतायां हि सत्यां कार्यद्वयस्यैकया पाठप्रवृत्या विधीयमानत्वात् कार्यद्वयस्यापञ्चम्या इति प्रतिषेधः स्यात्। पञ्चमीं वर्जयित्वैतत् कार्यद्वयं वेदितव्यम्। वाक्यभेदे त्वपञ्चमम्या इत्येतत् प्रत्यासन्नममादेशमपेक्षते, न तु वाक्यान्तरविहितमलुकम्। तेनापञ्चम्या इत्यनेन सम्बध्यमानः सामान्येन विधीयमानः सन्नलुक् पञ्चमीमप्यवगाहते; तस्मात् पञ्चम्याः श्रवणमेव युक्तम्। तुशब्देनाप्ययमर्थो लभ्यते।ननु च क्रियायाः कारकाणि भवन्ति, पूर्वपदार्थप्रधानश्चाव्ययीभाव उक्तः,पूर्वपदार्थस्य चासत्त्वभूतत्वात् क्रियामन्तरेण सम्बन्धाभावादपादानादिभावो नास्ति, तत् कुतोऽव्ययीभावात् पञ्चम्यादयो विभक्तयो भवेयुः?नैतदस्ति; पूर्वपदार्थप्राधान्येऽपि गुणभूतोत्तरपदार्थपेक्षः क्रियायोग उपपद्यते, यथा - पञ्चपूलीमानयेति। तत्र भावप्राधान्येऽपि गुणभूत द्रव्यापेक्षः क्रियासम्बन्धः॥ Praudhamanorama --------------- **दिशयोरिति।** दिशोरिति हलन्तेन विग्रहेऽप्येतदेव रूपम्। दिश्शब्दस्य शरदादित्वाट्टच्। Prakriyasarvasvam ----------------- अदन्तादव्ययीभावात् सुपो लुङ् नास्ति किं पुनः । पञ्चमीवर्जितानां तु सुपामम्भाव इष्यते ॥ ३७२ ॥ उपकृष्ण अम्, Sutra Prayogas -------------- * **आयतीगवम्** (भट्टिकाव्यम्): `नाव्ययीभावात्` इति सप्तम्या अम्भावः। * **अन्तर्-गिरं** (भट्टिकाव्यम्): `नाव्ययीभावात्` इत्यमेव भवति। * **पारे-समुद्रं** (भट्टिकाव्यम्): `नाव्ययीभावात्` इत्यम्भावः।