24082: अव्ययादाप्सुपः¶
Padacheda: अव्ययात् | S | 5 | 1 |
आप्-सुपः | S | 6 | 1 |
Sutrartha¶
अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति ।
स्वरादिनिपातमव्यम् (1.1.37) इत्यतः अव्ययीभावश्च (1.1.41) इति यावत्सु सूत्रेषु ‘अव्यय’संज्ञा विधीयते । अव्ययानाम् यथायोग्यम् अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम् (1.2.45) तथा कृत्-तद्धित-समासाश्च (1.2.46) इत्यनेन प्रातिपदिकसंज्ञा भवति । अतः स्वौजस्.. (4.1.2) इत्यनेन एतेभ्यः सुप्-प्रत्ययाः विधीयन्ते, तथा स्त्रियाम् (4.1.3) अस्मिन् अधिकारे एतेभ्यः स्त्रीत्वं द्योतयितुम् टाप्/चाप्/डाप्-प्रत्ययः अपि भवति । एतेषाम् प्रत्ययानाम् वर्तमानसूत्रेण लुक् भवति । यथा, ‘तत्र शालायाम्’ - अस्मिन् वाक्ये ‘तत्र’ एतत् ‘शालायाम्’ इत्यस्य विशेषणमस्ति । अतः अत्र ‘तत्र’ शब्दस्य स्त्रीत्वं द्वोतयितुम् टाप्-प्रत्ययः, तथा, सप्तम्येकवचनं द्योतयितुम् ‘ङि’ प्रत्ययः - द्वावपि विधीयेते । परन्तु ‘तत्र’ इत्यस्य तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञा भवति, अतः एतयोः द्वयोरपि प्रत्यययोः अनेन सूत्रेण लुक् भवति । यथा - तत्र + टाप् + ङि → तत्र । अनेन सूत्रेण एतत् ज्ञाप्यते, यत् अव्ययसंज्ञकाः शब्दाः सर्वेषु लिङ्गेषु, सर्वेषु वचनेषु, सर्वासु विभक्तिषु च समानानि एव भवन्ति । अतएव एका कारिका उच्यते - सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ अत्र एकम् वार्तिकम् ज्ञातव्यम् - <!आब्ग्रहणम् व्यर्थमलिङ्गत्वात्!> । इत्युक्ते, अव्ययानाम् लिङ्गम् नास्ति, अतः तेषाम् परे स्त्रीप्रत्ययाः भवितुमेव न अर्हन्ति, अतः अनेन सूत्रेण ‘आप्’ प्रत्ययस्य यः लुक्-उच्यते सः अनावश्यकः - इति । अस्मिन् विषये भाष्यकारः वदति - निपातानाम् लिङ्गम् , कारकम् , सङ्ख्या च नास्ति, परन्तु अन्येषामव्ययानामस्ति कुत्रचित् भवितुमर्हत, अतः तदर्थम् ये प्रत्ययाः विधीयन्ते, तेषां लोपः अनेन सूत्रेण क्रियते । ज्ञातव्यम् - 1. यत्र समासे अप्रधानरूपेण (= गौणरूपेण) अव्ययमुपतिष्ठति, तत्र समस्तपदस्य अव्ययसंज्ञा न भवति, अतः तस्मात् परस्य आप्/सुप्-प्रत्यययोः लुक् अपि न भवति । यथा - <!अत्यादयाः क्रान्ताद्यर्थे द्वितीयया!> अनेन वार्त्तिकेन प्रादि-तत्पुरुषसमासेन ‘उच्चैः अतिक्रान्तः’ इत्यर्थे ‘अत्युच्चैस्’ इति समस्तपदम् सिद्ध्यति । अत्र ‘उच्चैस्’ इति अव्ययम् गौणपदे अस्ति, अतः तस्य अव्ययसंज्ञा न भवति, अतः ‘अत्युच्चैस्’ इत्यस्यापि अव्ययसंज्ञा न भवति, अतः अस्मात् शब्दात् विभक्तिप्रत्ययानाम् लुक् न भवति । यथा - अत्युच्चैस् + औ = अत्युच्चैसौ । 2. अनेन सूत्रेण अव्ययात् परस्य आप्-प्रत्ययस्य सुप्-प्रत्ययस्य च ‘लुक्’ कृतः अस्ति, ‘लोपः’ न । किम् प्रयोजनं ‘लुक्’ इत्यस्य ? प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन प्रत्ययलोपेऽपि निर्दिष्टे अङ्गकार्ये प्राप्ते लुक्-प्रक्रियायाम् न लुमताङ्गस्य (1.1.63) इति तस्य निषेधः भवति, अतः अङ्गकार्यम् न जायते । यथा - ‘भूयस्’ इति चादिगणस्य शब्दः अव्ययसंज्ञकः अस्ति । अस्य सुँ-प्रत्यये परे ‘भुयस् + सुँ’ इत्यत्र सुँ-प्रत्ययस्य अव्ययादाप्सुपः (2.4.82) इति लुक् कृते अत्वसन्तस्य चाधातोः (6.4.14) इत्यनेन अङ्गस्य उपधादीर्घे प्राप्ते न लुमताङ्गस्य (1.1.63) इति स निषिध्यते ।
Sutrartha (English)¶
The आप्-प्रत्ययाः and the सुप्-प्रत्ययाः attached to an अव्यय are removed by doing a लुक्.
Vasu English Summary¶
There is लुक् elision of आप् (the feminine termination) and सुप् (the case-affixes) after an अव्यय or indeclinable.
Vasu English Translation¶
There is लुक् elision of आप् (the feminine termination) and सुप् (the case-affixes) after an अव्यय or indeclinable. Thus, तत्र शालायाम् ‘in that hall’. Here the Indeclinable तत्र ‘there,’ does not take the feminine termination, although it is equivalent to तस्याम् ‘in that.’ So also कृत्वा ‘having done’ हित्वा &c. Here the case affix is elided.
Bhashya¶
अव्ययादाप्सुपः (613) (376 लुक्सूत्रम् ॥ 2.4.2 आ.11) (आप्ग्रहणस्यादृष्टार्थत्वाधिकरणम्) (1661 वार्तिकम् ॥ 1 ॥) - अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात् - (भाष्यम्) अव्ययादापः लुग्वचनमनर्थकम् ॥ किं कारणम्? लिङ्गाभावात्। अलिङ्गमव्ययम् ॥ (आक्षेपभाष्यम्) किमिदं भवान् सुपो लुकं मृष्यति, आपो लुकं न मृष्यति। यथैव ह्यलिङ्गमव्ययम्, एवमसंख्यमपि? (समाधानभाष्यम्) सत्यमेवमेतत्। प्रत्ययलक्षणमाचार्यः प्रार्थयमानः सुपो लुकं मृष्यति। आपः पुनरस्य लुकि सति न किंचिदपि प्रयोजनमस्ति ॥ (आक्षेपभाष्यम्) उच्यमानेप्येतस्मिन् स्वाद्युत्पत्तिर्न प्राप्नोति ॥ किं कारणम्? एकत्वादीनामभावात्। एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। न चैषामेकत्वादयः सन्ति ॥ (समाधानभाष्यम्) अविशेषेणोत्पद्यन्ते। उत्पन्नानां नियमः क्रियते ॥ अथ वा प्रकृतानर्थानपेक्ष्य नियमः क्रियते ॥ के च प्रकृताः? एकत्वादयः। एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु। द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु। बहुष्वेव बहुवचनं नैकस्मिन्न द्वयोरिति ॥ अथ वा आचार्यप्रवृत्तिर्ज्ञापयति - उत्पद्यन्तेऽव्ययेभ्यः स्वादय इति। यदयमव्ययादाप्सुप इति लुकं शास्ति ॥ अव्ययादा ॥ 82 ॥
Kashika¶
अव्ययादुत्तरस्यापः सुपश्च लुग् भवति। तत्र शालायाम्। यत्र शालायाम्। सुपः खल्वपि — कृत्वा। हृत्वा॥
Siddhanta Kaumudi¶
अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न गौणे ।<!आब्ग्रहणं व्यर्थमलिङ्गत्वात् !> (वार्तिकम्) ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति(भाष्योक्ता) श्रुतिर्लिङ्गसङ्ख्याकारकाभावपरा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ वगाहः । अवगाहः । पिधानम् । अपिधानम् ॥
Laghu Siddhanta Kaumudi¶
अव्ययाद्विहितस्यापः सुपश्च लुक् । तत्र शालायाम् ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ वहागः, अवगाहः । पिधानम्, अपिधानम् ॥
Balamanorama¶
अव्ययादाप्सुपः - अव्ययादाप्सुपः । आप्च सुप्च आप्सुप्, तस्य आप्सुपः, समाहारद्वन्द्वात्षष्ठी ।ण्यक्षत्रियार्षे त्यतोलु॑गित्यनुवर्तते । तदाह — अव्ययाद्विहितस्येति । तत्र शालायामिति । तत्रेत्यस्याव्ययत्वादापो लुक् । स्त्रीत्वबोधनायशालाया॑मिति । अथेति । अत्र सुपो लुक् । विहितेति । अव्ययात्परस्येत्यनुक्त्ता अव्ययाद्विहितस्येति व्याख्यानादिति भावः । अत्युच्चैसाविति । उच्चैरतिक्रान्त इति विग्रहेअत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अधिकरणशक्तिप्रधानान्यव्ययानिरेवृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यतादोषामन्यमहः,दिवाभूता रात्रि॑रिति । अतो द्वितीयासम्भवात् ‘अत्यादयः’ इति द्वितीयासमासस्याऽविरोधः । अत्र समासाद्विहितस्य सुपोऽव्ययभूतादुच्चेश्शब्दात्परत्वे ।ञपि ततो विहतत्वाऽभावान्न लुक् ।अत्युच्चे॑रिति समुदायस्य तु नाव्ययत्वं, स्वरादिगणे उच्चेश्शब्दस्य केवलस्य पाठादिति भावः । ननु स्वरादिगणे केवलोच्चैश्शब्दस्य पाठेऽपि ‘स्वरादिनिपातमव्यय’ मित्यव्ययसंज्ञा भवत्येव,प्रयोजनं सर्वनामाव्ययसंज्ञाया॑मिति वचनादित्याशङ्कते — अव्ययसंज्ञायामिति । परिहरति — तथापीति । सर्वनामसंज्ञायामुपसर्जनस्य नेति प्रकृतः प्रतिषेधोऽव्ययसंज्ञाविधावनुवर्तत इतितद्धितश्चासर्वविभक्तिः॑ इति सूत्रे भाष्ये स्पष्टमिति भावः । व्यर्थमिति । ‘अव्ययादाप्सुपः’ इति सूत्रे॑ इति शेषः । अलिङ्गत्वादिति । अव्ययानां लिङ्गाऽभावादित्यर्थः । तथाच वार्तिकम्,-॒अव्ययादाब्लुग्वचनानर्थक्यं, लिङ्गाऽभावात् इति । तथातद्धिताश्चासर्वविभक्तिः॑ इति सूत्रे भाष्येऽप्युक्तम् — स्त्रीनपुंसकत्वानि सत्त्वगुण एकत्वद्वित्ववहुत्वानि च-एतानर्थान् ये न वियन्ति तदव्ययमितित । ननु अव्ययानां लिङ्गाऽभावेसदृशं त्रिषु लिङ्गेषु॑ इत्याथर्वणश्रुतिविरोध इत्याशङ्क्य परिहरति-सदृशमिति । त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु, सर्वेषु वचनेषु च यत् न व्येति=विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति तदव्ययमिति आथर्वणश्रुतियोजना । अत्र विभक्तिवचनशब्दौ कारकसङ्ख्यापरौ नतु प्रत्ययपरौ, अन्यतरग्रहणवैयथ्र्यात् । लिङ्गकारकेति । लिङ्गकारकसङ्ख्याऽभावः परः=तात्पर्यविषयभूतो यस्या इति विग्रहः । लिङ्गेष्वित्यादिषु सप्तमी हि ‘षष्ठी चानादरे’ इति विहिता । तथाच लिङ्गकारकसङ्ख्या अनादृत्य यन्न व्येति विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति, तदव्ययमित्युदाहृतश्रुतेरर्थः ।तद्धितश्चासर्वविभक्तिः॑ इति सूत्रभाष्येस्त्रीपुंनपुंसकत्वानि सत्त्वगुणा एकत्वद्वित्वबहुत्वानि च । एतानर्थान् ये न वियन्ति तदव्ययम् इत्युपक्षिप्य तत्र प्रमाणतया अस्याः श्रुतेरुदाहृतत्वादिति भावः । अयं च लिङ्गकारकसङ्ख्याऽभावनियमो निपातानामेव, स्वरादीनां तु कतिपयानां लिङ्गकारकसङ्ख्यान्वयोऽस्त्येव,स्वरादिनिपातमव्यय॑मिति सूत्रे भाष्येचादीनामस्त्तववचनानामेव संज्ञा । स्वरादीनां तु सत्त्ववचनानामसत्त्ववचनानां चे॑त्युक्तत्वात्,स्वस्ति वाचयति॑, ‘स्वस्ति वाच्य’ इति,क्षीणे पुण्ये स्वः पतति॑, ‘प्रातर्यजते’ इत्यादौ कर्मकारकयोगदर्शनाच्च । अथ प्रसङ्गादाह — वष्टीति । अव अपि इकत्युपसर्गयोरकारस्य लोपं, हलन्तानामापं च भागुरिनामक आचार्यो वष्टि -इच्छतीत्यर्थः । एवशब्दस्तु पादपूरणः अवेत्युपसर्गे आदेरेवाकारस्य लोपो नान्त्यस्य, अपिना साहचर्यात् । भागुरिशब्दं दन्त्योष्ठआदिं केचित्पठन्ति । तत्त्वबोधिन्यां तु पव्गचतुर्थादिः पठितः । शब्देन्दुशेखरेऽप्येवम् । यथा वाचेति । परिगणनमिति केचित् । उदाहरणमात्रमित्यन्ये । यद्यपि ‘वश क्रान्तौ’ इत्यस्य छन्दोमात्रविषयत्वं वक्ष्यते, तथापि अस्माद#एव लिङ्गाल्लोकेऽपीत्याहुः । वस्तुतस्तुवष्टि भागुरि॑रिति श्लोको भाष्ये न दृश्यते । प्रत्युतङ्याप्प्रातिपदिका॑दिति सूत्रस्थभाष्यपर्यालोचनया नास्तीत्येव युक्तम् । तत्र ह्रेवमुक्तम्-॒आब्ग्रहणं न कार्यं, खट्वा मालेत्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम् इत्युक्त्वा, क्रुञ्चा उष्णिहा देवविशेति हलन्ताट्टापः स्वाद्यर्थमाब्ग्रहणस्त्वि॑ति आक्षिप्यक्रुञ्चानालभेत उष्णिहककुभौ देवविशं चे॑ति अकारान्तादेव तत्रापि टा॑बित्युक्त्ताडाबुभाभ्यामन्यतरस्या॑मिति बहुराजा, बहुराजे, बहुराजाः — इत्यर्थमाब्ग्रहण॑मिति समाहितम् । तस्मात्आपं चैव हलन्ताना॑मित्याश्रित्य वाचा निशा दिशेत्ययुक्तम् । अत्र निश्दिशोरिगुपधलक्षणे के अदन्तत्वाट्टापि निशेत्यादिरूपसंभवेऽपि वाचाशब्दोऽसाधुरेवेति शब्देन्दुशेखरे स्थितम् । ***इति बालमनोरमायामव्ययानि ।***सिद्धान्तकौमुद्याम् । — — — — — -अव्ययीभावप्रकरणम् । — — — — — — -
Tattvabodhini¶
अव्ययादाप्सुपः - अव्ययादाप्सुपः ।ण्यक्षन्त्रियार्षे॑ति सूत्राल्लुगत्रानुवर्तत इत्याह — लुक्स्यादिति ।अव्यय॑मिति महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम् । न व्येति — विविधं विकारं न गच्छति । सत्त्वधर्मान् लिङ्गसङ्ख्यादीन्न गृह्णातीति यावत् । तेनात्युच्चैसौ अत्युच्चैस इत्यादि सिद्धम् । अतिक्रान्तप्रधानत्वेन सत्त्वधर्मपरग्रहादव्ययसंज्ञाया अत्राऽभावात् । नन्वेमप्युच्चैः — शब्दस्याव्ययत्वानपायात्सुपो लुग्दुर्वार इत्यत आह — विहितविशेषणादिति । अत्युच्चैसाविति । ननु अत्यादयः क्रान्ताद्यर्थे द्विती ।यान्तेन समस्यन्ते, उच्चैःशब्दस्त्वधिकरणशक्तिमत्प्रधान इति कर्मत्वाऽयोगान्न तस्य द्वितीयान्तता । सत्यम् । शक्तिप्रधानान्यपि कानिचिदव्ययामि वृत्तिविषये शक्तिमत्प्रधानानि क्वचिद्भवन्ति । यथा दोषामन्यमहः । दिवामन्या रात्रिरिति । ततश्च प्रक्रियादशायमुच्चैःशब्दस्य द्वितीयान्तत्वं संभवतीति दिक् । ननु स्वरादिषु उच्चैःशब्दः पटते तत्र कथं तदन्तस्य प्रसङ्ग इति चेन्न, अन्वर्थसंज्ञयैव तदन्तविधेरपि ज्ञापनात् । अन्यथा उपसर्जने प्रसङ्गाऽभावेन तन्निवृत्त्यर्थाया अन्वर्थसंज्ञाया वैयथ्र्यापत्तेः । तेनपरमस्वः॒॑परमोच्चै॑रित्यादौ सत्त्वधर्मापरिग्रह#आदव्ययत्वं सिद्धम् । तदेतदाह — अव्ययसंज्ञायां यद्यपीत्यादि ।अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाऽभावा॑दिति वार्तिकं मनसि निधायाह — अब्ग्रहणं व्यर्थमिति । सूत्रस्योक्तिसंभवस्तुस्त्रिया॑मिति सूत्रे स्त्रीसमानाधिकरणादिति पक्षं गृहीत्वेति बोध्यः । स च न स्थितः,भूतमियं ब्राआहृणी॑त्यादावतिव्याप्तेः । यदि तुआमः॑इति सूत्रानन्तरंसुपो धातुप्रातिपदिकयोपव्यया॑दिति सूत्र्यते तदा सुब्ग्रहममपि व्यर्थं,सुप् इत्यनुवृत्तिसंभवादिति नव्याः । अलिङ्गत्वे आथर्वणप्रणवविद्यागतश्रुतिविरोधमाशङ्क्याह — सदृशमिति । एतेषु यन्न व्येति किंतु सदृशम् एकप्रकारं तदव्ययमिति योजना । यद्वा — यस्मान्न व्येति तस्मात्तदव्ययम् । लिङ्गकारकेति । विभक्तिवचनशब्दौ कारकसङ्ख्यापराविति भावः । यद्यप्यव्ययीभावस्य लिङ्गसङ्ख्याकारकयोगोऽस्ति तथापि वचनादव्ययत्वेम् । अव्ययविशेषे कार्यान्तरमाह — वष्टीति । भादुरिः आचार्यः । आपं चैवेति ।वष्टी त्यनुषज्यते । यथा वाचेति । परिगणनमिदमित्येके । अन्ये तूदाहरणमात्रमित्याहुः । वगाह इति । अपिना साहचर्यादादिरेवाऽकारो लुप्यते नान्त्य इति भावः ।इति तत्त्वबोधिन्यामव्ययप्रकरणम्॥
Padamanjari¶
अव्ययादाप्सुपः॥ तत्र शालायामिति। शालाशब्दसन्निधौ स्त्रीत्वयुक्तद्रव्यगतकारकशक्त्यभिधानातस्यामितिवतत्रेत्यत्रापि यदि स्त्रीप्रत्ययः स्यात्पदादेव स्त्रीत्वं प्रतीयेतेति व्यामोहनिवृत्यर्थ टापो लुग्वक्तव्यः, यथा - षट्सञ्ज्ञकेभ्यः प्रतिषेध इति भावः। वार्तिककारस्त्वाह - ठव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्ऽ इति। कृत्वा, हृत्वेति। यदा’बहुषु बहुवचनम्’ इत्यादेः स्वादिविधिवाक्येनैकवाक्यता, तदा निस्सङ्ख्येभ्यो निष्कारकेभ्यश्चाव्ययेभ्योऽस्मादेव लुग्विधानाल्लिङ्गत्स्वादयो भवन्ति, भिन्नवाक्यतायामपि नियमपक्षे तुल्यजातीयस्य नियमेन व्यावृत्तिः - बहुष्वेव बहुवचनं न द्वयोरेकस्मिन्, द्वयोरेव द्विचनं नैकस्मिन्न बहुषु, एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु, इत्यव्ययेभ्यः स्वादीनां सम्भवः। त्रिकपक्षे तु यत्र सङ्ख्या सम्भवति तत्रैव सा वाच्यत्वेन विधीयते, अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति सर्वथाव्ययेभ्यः सुबुत्पत्तिरेषितव्या - प्रत्ययलक्षणेन पदसञ्ज्ञा यथा स्यादिति। तुबिति च सप्तमीबहुवचनस्य पकारेण प्रत्याहारः, न कपः; आपः पृथगुपादानात्॥
Nyaas¶
तत्र शालायाम् इति। तच्छब्दात् सप्तम्यास्त्रल्। तस्य प्राग्दिशो विभक्ति (5.3.1) इति। विभक्तिसंज्ञा, त्यदाद्यत्वम्,टाप्, तसिलादिष्वाकृत्वसुचः (6.3.35) इति पुंवद्भावः। तद्धितश्चासर्वविभक्तिः (1.1.38) इति त्रलोऽव्ययत्वम्, ततौत्पन्नस्य टापो लुक्। केन पुनरव्ययाट्टाबुत्पद्यते? अजाद्यतष्टाप् (4.1.4) इति चेत्, नच स्त्रियां टापो विधानात्, अव्ययस्य चालिङ्गत्वात्। तस्मादव्ययाट्टापः सम्भव एव नास्तीत्यव्ययादपार्थकं टापो लुग्वचनम्? नापार्थकम्; स्त्रियाम् (4.1.3) गुणिप्रधाननिर्देशः - स्त्रीत्ववति पदार्थे टाबादय इति। स्त्रीत्ववति च तस्यां शालायमित्येतस्मिन् पदार्थे तत्रेत्येतदव्ययं वर्तते। यद्यपि वाक्यार्थोऽत्र स्त्रीत्वम्; तथापि वाक्यार्थतयैव तसय् स्त्रीप्रत्ययो द्योत्यते, सति च स्त्रीप्रत्यये पदार्थ एव स्त्रीत्वं भवति, ततष्टापो लुग्वक्तव्यः। कृत्वा, ह्मत्वा इति। क्त्वातोसुन्कसुनः (1.1.40) इति क्त्वाप्रत्ययस्याव्ययत्वम्, तत उत्पन्नस्य सुपो लुक्। केन पुरव्ययात् सुबुत्पत्तिः? स्वादि (4.1.2) सूत्रेणेति चेत्, न; तत्र बहुषु बहुवचनम् (1.4.21) इतयादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां नियत्वात्, अव्ययानाञ्चासंख्यत्वात्। स्यादेतत् - यत्र संख्यास्ति तत्र बहुषु वहुवचनम् (1.4.21) इत्येवमादिना स्वादिनियः कृतः, अव्ययेभ्यस्तु निःसंख्येभ्यः समान्यविहिताः स्वादयो विद्यन्त एवेति?वार्तमेतत्; स्वादिसूत्रेण (4.1.2) हि बहुषु बहुवचनम् (1.4.21) इत्यादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां विधानात्। तथा हि - तत्रोक्कतं संख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यतेति। एकवाक्यतायाञ्च कुतः स्वादीनां सामान्येन विधानाम्। न ह्रपरं लक्षणमस्ति येन स्वादयः सामान्येन विहिताः। एवं तह्र्रेतदेवाव्ययादुत्पन्नस्य सुपो लुग्वचनं ज्ञापकम् - भवन्त्यवययात् स्वादय इति। न ह्रनुत्पन्नस्य लुगुपपद्यते। एतदेव ज्ञापकं ह्मदि कृत्वोक्तम् - अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव इति॥
Praudhamanorama¶
आब्ग्रहणमिति। तथा च वार्तिकम्—‘अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्’ इति। सूत्रस्योक्तिसम्भवस्तु ‘स्त्रियाम्’ इति सूत्रे स्त्रीसमानाधिकरणादिति पक्षं गृहीत्वा बोध्यः। स च न स्थितः, भूतमियं ब्राह्मणीत्यादाविव्याप्तेः। अलिङ्गत्वे आथर्वणविद्यागतश्रुतिविरोधमाशङ्क्याह— लिङ्गकारकेति। विभक्तिवचनशब्दौ कारकसंख्यापराविति भावः। यथा वाचेति। परिगणनमिदमित्येके। अन्ये तूदाहरणमात्रमित्याहुः। वगाह इति। आदिरेवाकारो लुप्यते नान्त्यः, अपिना साहचर्यात्। इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामव्ययानि॥
Prakriyasarvasvam¶
अव्ययात् परस्य आपः सुपश्च लुक् स्यात् । भोक्तुं व्रजति । ण्वुलि भोजको व्रजति । अत्र भोजनक्रियार्था व्रजनक्रिया ॥
Sutra Prayogas¶
अभिशौरि (शिशुपालवधम्): अव्ययादाप्सुपः इति सुपो लुक्।
संत्रासयांचकाराऽरिं (भट्टिकाव्यम्): तस्य अव्ययात् इति लुक्।