24081: आमः

Padacheda: आमः | S | 5 | 1 |

Sutrartha

‘आम्’ प्रत्ययात् परस्य लकारस्य लुक् भवति ।

‘आम्’ इति कश्चन प्रत्ययः अस्ति । कास्प्रत्ययादाममन्त्रे लिटि (3.1.35) इत्यतः भीह्रीभृहुवां श्लुवच्च (3.1.39) इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य वर्तमानसूत्रेण लोपः भवति । यथा - एध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - एध् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → एध् + आम् + ल् [इजादेश्च गुरुमतोऽनृच्छः (3.1.36) इति आम्-प्रत्ययः] → एध् + आम् [आमः (2.4.81) इति लकारस्य लुक्] → एध् + आम् + चक्रे [कृञ्चानुप्रयुज्यते लिटि (3.1.40) इति कृ-धातोः अनुप्रयोगः । आम्प्रत्ययवत् कृञोनुप्रयोगस्य (1.3.63) इति तस्य आत्मनेपदम् । तस्य प्रथमपुरुषैकवचनम् ‘चक्रे’ इति] → एधांचक्रे [मोऽनुस्वारः (8.3.23) इति मकारस्य अनुस्वारः] → एधाञ्चक्रे [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] ज्ञातव्यम् - अत्र निर्दिष्टः ‘आम्’ इति प्रत्ययः अस्ति, आगमः न । तथा च, अत्र मकारः इत्संज्ञकः अपि नास्ति ।

Sutrartha (English)

The लकार that follows the ‘आम्’ प्रत्यय is removed.

Vasu English Summary

There is लुक् elision in the room of that tense-affix (लि) which comes after आम् of the लिट् (Perfect Tense).

Vasu English Translation

There is लुक् elision in the room of that tense-affix (लि) which comes after आम् of the लिट् (Perfect Tense). आम् is used in forming Periphrastic Perfect ईहांचक्रे ‘he endeavoured.’ Here, after the verb ईहाम् all tense-affixes are elided, and the Perfect of कृ is added to form its Perfect. Similarly ऊहांचक्रे, ईक्षांचक्रे ॥

Bhashya

आमः (612) (375 लुक्सूत्रम् ॥ 2.4.2 आ.10) (लुङ्लोटोर्लुक्साधनाधिकरणम्) (1649 शेषवार्तिकम् ॥ 1 ॥) - आमो लेर्लोपे लुङ्लोटोरुपसंख्यानम् - (भाष्यम्) आमः लेर्लोपे लुङ्लोटोरुपसंख्यानं कर्तव्यम्। तां वैजवापयो विदामक्रन्। अस्य भवन्तो विदांकुर्वन्तु ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम्। लिग्रहणं निवर्तिष्यते ॥ (आक्षेपभाष्यम्) यदि निवर्तते। प्रत्ययमात्रस्य लुक् प्राप्नोति ॥ (समाधानभाष्यम्) इष्यत एव प्रत्ययमात्रस्य ॥ आतश्चेष्यते। एवं ह्याह कृञ्ञ्चानुप्रयुज्यते लिटिइति। यदि च प्रत्ययमात्रस्य लुग् भवति तत एतदुपपन्नं भवति ॥ (आङ्ग्रहणनिर्णयाधिकरणम्) (1650 आक्षेपवार्तिकम् ॥ 2 ॥) - आमन्तेभ्यो णलः प्रतिषेधः - (भाष्यम्) आमन्तेभ्यो णलः प्रतोषेधो वक्तव्यः। शशाम तताम। वृद्धौ कृतायम्आमइति लुक् प्राप्नोति ॥ (1651 समाधानवार्तिकम् ॥ 3 ॥) - आमन्तेभ्योर्थवद्ग्रहणाण्णलोऽप्रतिषेधः - (भाष्यम्) आमन्तेभ्योर्थवद्ग्रहणाण्णलः। अप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः ॥ लुक् कस्मान्न भवति - शशाम ततामेति? अर्थवद्ग्रहणात्। अर्थवत आम्शब्दस्य ग्रहणम्। न चैषोर्थवान् ॥ (1652 समाधानबाधकवार्तिकम् ॥ 4 ॥) - आमन्तेभ्योर्थवद्ग्रहणाण्णलोप्रतिषेध इति चेदमः प्रतिषेधः - (भाष्यम्) आमन्तेभ्योऽर्थवद्ग्रहणाण्णलोऽप्रतिषेध इति चेत् अमधातोः प्रतिषेधो वक्तव्यः। आम ॥ (समाधानसाधकभाष्यम्) उक्तं वा ॥ किमुक्तम्? सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति ॥ (लुकआदेशापवादत्वाधिकरणम्) (आक्षेपभाष्यम्) किं पुनर्लुगादेसापवादः, आहोस्वित्-कृतेष्वादेशेषु भवति ॥ (1653 समाधानवार्तिकम् ॥ 5 ॥) - लुगादेशापवादः - (भाष्यम्) लुग् आदेशानामपवादः ॥ (1654 समाधानबाधकवार्तिकम् ॥ 6 ॥) - तिङ्कृताभावस्तु - (भाष्यम्) तिङ्कृतस्य तु अभावः ॥ कस्य? पदत्वस्य ॥ (1655 समाधानसाधकवार्तिकम् ॥ 7 ॥) - सुबन्तत्वात्सिद्धम् -) (भाष्यम्) सुबन्तं पदम् इति पदसंज्ञा भविष्यति ॥ (आक्षेपभाष्यम्) कथं स्वाद्युत्पत्तिः? (1656 समाधानवार्तिकम् ॥ 8 ॥) - लकारस्य कृत्त्वात् प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम् - (भाष्यम्) लकारः कृत्, कृत्प्रातिपदिकम् इति प्रातिपदिकसंज्ञा, तदाश्रयं प्रत्ययविधानम्, प्रातिपदिकाश्रयत्वात्स्वाद्युत्पत्तिर्भविष्यति ॥ (समाधानबाधकभाष्यम्) (यद्येवं) सुपः श्रवणं प्राप्नोति ॥ (समाधानसाधकभाष्यम्) अव्ययादिति लुग् भविष्यति ॥ (आक्षेपभाष्यम्) कथमव्ययत्वम्? ॥ (1657 समाधानवार्तिकम् ॥ 9 ॥) - अव्ययत्वं मकारान्तत्वात् ॥ 8 ॥ (भाष्यम्) कृदन्तं मान्तमव्ययसंज्ञं भवतीति अव्ययसंज्ञा भविष्यति ॥ (आक्षेपभाष्यम्) स्वरः कथम् - यत्प्रकारयांचकार? (1658 समाधानवार्तिकम् ॥ 10 ॥) - स्वरः कृदन्तप्रकृतिस्वरत्वात् - (भाष्यम्) कृदन्तमुत्तरपदं प्रकृतिस्वरं भवतीत्येष स्वरो भविष्यति ॥ (1659 फलान्तरवार्तिकम् ॥ 11 ॥) - तथा च निघातानिघातसिद्धिः - (भाष्यम्) तथा च निघातानिघातसिद्धिर्भवति। चक्षुष्कामं याजयांचकार तिङ्ङतिङ इति तस्य चानिघातः। तस्माच्च निघातः सिद्धो भवति ॥ (1660 आक्षेपवार्तिकम् ॥ 12 ॥) - नञ्ञा तु समासप्रसङ्गः - (भाष्यम्) नञ्ञा तु समासः प्राप्नोति - नकारयाम् नहारयाम्। नञ्ञ् सुबन्तेन सह समस्यत इति समासः प्राप्नोति ॥ (समाधानभाष्यम्) उक्तं वा ॥ किमुक्तम्? असार्मथ्यादिति। नात्र नञ्ञ आमन्तेन सार्मथ्यम् ॥ केन तर्हि? लिडन्तेन न चकार कारयाम् न जहार हारयामिति ॥ आमः ॥ 81 ॥

Kashika

आमः परस्य लेर्लुग् भवति। ईहांचक्रे। ऊहांचक्रे। ईक्षांचक्रे॥

Siddhanta Kaumudi

आमः परस्य लेर्लुक् स्यात् ॥

Laghu Siddhanta Kaumudi

आमः परस्य लुक्॥

Balamanorama

आमः - आमः ।मन्त्रे घसह्वरे॑त्यतो लेरिति,ण्यक्षत्रियार्षञित॑ इत्यतो लुगिति चानुवर्तते । तदाह — आमः परस्य लेरिति । अत्रेदमवधेयम् — ‘कृन्मेजन्त’ इत्यत्र कृद्यो मान्तस्तदव्ययमिति व्याख्याने एधामित्यादि नाऽव्ययं , लिट एव कृत्त्वात्, तस्य च मान्तत्वाऽभावात् । तथा च प्रत्ययलक्षणेन कृदन्तत्वात्प्रातपदिकत्वे स्वाद्युत्पत्तौ ‘आम’ इति लुक् । लेरित तु नानुवर्तते ।मान्तं कृदन्तमव्यय॑मिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वादेधामिति मान्तमव्ययम् । ततः सुबुत्पत्तावव्ययादाप्सुप इति लुक् । ‘आम’ इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरितिनानुवर्तनीयम् ।आमः परस्य ले॑रिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवं च एधामित्यव्ययं न वेति पक्षद्वयम्, उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम् ।

Tattvabodhini

आमः - ॒लक्षणप्रतिपदोक्त॑परिभाषया,प्रत्ययग्रहण॑परिभाषया च नेह- आम । आमतुः । परसय् लुगिति ।मन्त्रे घसे॑ति सूत्राल्लेरित्यनुवर्त्त्यलेर्लु॑गिति काशिकादौ व्याख्यातं, तदत्रोपेक्षितं, व्यावर्त्त्याऽलाभात् । तिङाद्यपवादत्वाल्लावस्थायायमेवायं लुक् । तेन आमन्तस्याऽतिङ्न्तत्वाद्देवदत्तादिपदात्परत्वेऽपितिङ्ङतिङः॑ इति न निघातः । आमन्तात्परस्य निघातश्च तिङन्तस्येत्यर्थः । न चाऽतिङन्तत्वे पदत्वाऽभावादामन्तात्परस्य निघातो न सिध्यतीति शङ्क्यं, लिटः कित्त्वात्प्रत्ययलक्षणेन कृदन्ततया प्रातिपदिकत्वे सोरुत्पत्तावामन्तस्याऽव्ययत्वात्सुपो लुक्यपि प्रत्ययलक्षणेन सुबन्ततया पदत्वात् ।

Padamanjari

आमः॥ आम उतरस्य लेर्लुग्भवतीति। यद्यपि सिचा लिर्विशेषितः, तथापीह लेरित्येवानुवर्तत इति भावः। विदामक्रन्विदाङ्गुर्वन्त्वित्यत्र लुङ्लोटोर्निपातनाल्लुग्भवति। तरबादीनां चामन्तादनुत्पत्तिरेव, तस्यानभिव्यक्तपदार्थत्वात्। अयं च लुग्नाप्राप्तेषु तिबादिषु विधीयमानत्वाल्लादेशानामपवादः। तेनामन्तस्यातिङ्न्तत्वाच्चक्षुः कामम्, याजयाञ्चकारेत्यत्र’तिङ्ङतिङः’ इति, तस्य चानिघातः, तस्माच्च निघातः सिद्धो भवति। कथमामन्तस्य पदत्वम्? सुबन्तत्वात्। लकारस्य कृत्वात्प्रातिपदिकत्वम्। तिङ्भाविनो हि लकारस्यातिङिति प्रतिषेधः, न चायं तिङ्भावी। सुपः श्रवणं कस्मान्न भवति? आमः स्वरादिषु पाठादव्ययत्वात्। तद्धितेनामा साहचर्येऽपि तद्धित एव न गृह्यते, अपि तु व्याप्तेरतद्धितोऽपि नञा तुच समासप्रसङ्गः, न कारयां न हारयां’नञ्’ सुबन्तेन समस्यत इति समासः प्राप्नोति? नैष दोषः; अभिव्यक्तपदार्थेन हि याजयाञ्चकारेति नञः सामर्थ्यम्, न त्वनभिव्यक्तपदार्थेनामन्तमात्रेण। आमन्तेभ्यो णलः प्रतिषेधः - शशाम, तताम;वृद्धौ कृतायां स्थानिवद्भावेन णलो लिग्रहणेन ग्रहणे लुक् प्राप्नोति? अर्थवद् ग्रहणात्सिद्धम्। अर्थवत आमन्तस्य ग्रहणम्, न चैषोऽर्थवान्। एवमपि ठमगत्यादिषुऽ, तिपो णल्, आम - अत्र प्राप्तोति, अर्थवत्वात्?’लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्’ इति अत्र न भविष्यति॥

Nyaas

ईहाञ्चक्रे इति। ईह चेष्टायाम् (धातुपाठः-632), लिट्, इजादेश्च (3.1.36) इत्यादिनाऽऽम्। तस्य कृत्वे मकारान्तस्य कृदन्तत्वात् प्रातिपदिकसंज्ञा, सुः, आमः स्वरादिपाठादव्ययत्वम्, अव्ययादाप्सुपः (2.4.82) इति सुलोपः, कृञ्च (3.1.40) इत्यादिना लिट्परस्य कृञोऽनुप्रयोगः, आम्प्रत्ययवत् (1.3.63) इत्यादिनाऽऽत्मनेपदम्, तत एशादेशः, द्विर्वचनम्, अभ्यासकार्यम्। आमो मकारस्यानुस्वारः, अनुस्वारस्य ययि परसवर्णः (8.4.58) । अथेह कस्मान्न भवति - जगाम, शशामेति? अर्थवदामो ग्रहणात्, अस्य चानर्थकत्वात्। प्रत्ययस्तु अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (पु।प।पा।90) इत्यर्थवान्। इह तर्हि कस्मान्न भवत्यम् रोग इति - आमेति? लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् (व्या।प।3), अस्य तु लाक्षणिकत्वात्॥

Prakriyasarvasvam

आमः परस्य लेर्लुक् स्यात् । लिट कृत्त्वात् प्रत्ययलक्षणेन कृदन्तत्वात् सुपि सति आमः स्वरादिपाठात् सुब्लुक् । गोपायाम् ।

Sutra Prayogas

  • संत्रासयांचकाराऽरिं (भट्टिकाव्यम्): आमः इति लुक्।