24081: आमः ========== **Padacheda:** आमः | S | 5 | 1 | Sutrartha --------- **'आम्' प्रत्ययात् परस्य लकारस्य लुक् भवति ।** 'आम्' इति कश्चन प्रत्ययः अस्ति । **कास्प्रत्ययादाममन्त्रे लिटि** (3.1.35) इत्यतः **भीह्रीभृहुवां श्लुवच्च** (3.1.39) इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य वर्तमानसूत्रेण लोपः भवति । यथा - एध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - एध् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → एध् + आम् + ल् [**इजादेश्च गुरुमतोऽनृच्छः** (3.1.36) इति आम्-प्रत्ययः] → एध् + आम् [**आमः** (2.4.81) इति लकारस्य लुक्] → एध् + आम् + चक्रे [**कृञ्चानुप्रयुज्यते लिटि** (3.1.40) इति कृ-धातोः अनुप्रयोगः । **आम्प्रत्ययवत् कृञोनुप्रयोगस्य** (1.3.63) इति तस्य आत्मनेपदम् । तस्य प्रथमपुरुषैकवचनम् 'चक्रे' इति] → एधांचक्रे [**मोऽनुस्वारः** (8.3.23) इति मकारस्य अनुस्वारः] → एधाञ्चक्रे [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः] ज्ञातव्यम् - अत्र निर्दिष्टः 'आम्' इति प्रत्ययः अस्ति, आगमः न । तथा च, अत्र मकारः इत्संज्ञकः अपि नास्ति । Sutrartha (English) ------------------- The लकार that follows the 'आम्' प्रत्यय is removed. Vasu English Summary -------------------- There is लुक् elision in the room of that tense-affix (लि) which comes after आम् of the लिट् (Perfect Tense). Vasu English Translation ------------------------ There is लुक् elision in the room of that tense-affix (लि) which comes after आम् of the लिट् (Perfect Tense). आम् is used in forming Periphrastic Perfect ईहांचक्रे 'he endeavoured.' Here, after the verb ईहाम् all tense-affixes are elided, and the Perfect of कृ is added to form its Perfect. Similarly ऊहांचक्रे, ईक्षांचक्रे ॥ Bhashya ------- आमः (612) (375 लुक्सूत्रम् ॥ 2.4.2 आ.10) (लुङ्लोटोर्लुक्साधनाधिकरणम्) (1649 शेषवार्तिकम् ॥ 1 ॥) - आमो लेर्लोपे लुङ्लोटोरुपसंख्यानम् - (भाष्यम्) आमः लेर्लोपे लुङ्लोटोरुपसंख्यानं कर्तव्यम्। तां वैजवापयो विदामक्रन्। अस्य भवन्तो विदांकुर्वन्तु ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम्। लिग्रहणं निवर्तिष्यते ॥ (आक्षेपभाष्यम्) यदि निवर्तते। प्रत्ययमात्रस्य लुक् प्राप्नोति ॥ (समाधानभाष्यम्) इष्यत एव प्रत्ययमात्रस्य ॥ आतश्चेष्यते। एवं ह्याह कृञ्ञ्चानुप्रयुज्यते लिटिइति। यदि च प्रत्ययमात्रस्य लुग् भवति तत एतदुपपन्नं भवति ॥ (आङ्ग्रहणनिर्णयाधिकरणम्) (1650 आक्षेपवार्तिकम् ॥ 2 ॥) - आमन्तेभ्यो णलः प्रतिषेधः - (भाष्यम्) आमन्तेभ्यो णलः प्रतोषेधो वक्तव्यः। शशाम तताम। वृद्धौ कृतायम्आमइति लुक् प्राप्नोति ॥ (1651 समाधानवार्तिकम् ॥ 3 ॥) - आमन्तेभ्योर्थवद्ग्रहणाण्णलोऽप्रतिषेधः - (भाष्यम्) आमन्तेभ्योर्थवद्ग्रहणाण्णलः। अप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः ॥ लुक् कस्मान्न भवति - शशाम ततामेति? अर्थवद्ग्रहणात्। अर्थवत आम्शब्दस्य ग्रहणम्। न चैषोर्थवान् ॥ (1652 समाधानबाधकवार्तिकम् ॥ 4 ॥) - आमन्तेभ्योर्थवद्ग्रहणाण्णलोप्रतिषेध इति चेदमः प्रतिषेधः - (भाष्यम्) आमन्तेभ्योऽर्थवद्ग्रहणाण्णलोऽप्रतिषेध इति चेत् अमधातोः प्रतिषेधो वक्तव्यः। आम ॥ (समाधानसाधकभाष्यम्) उक्तं वा ॥ किमुक्तम्? सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति ॥ (लुकआदेशापवादत्वाधिकरणम्) (आक्षेपभाष्यम्) किं पुनर्लुगादेसापवादः, आहोस्वित्-कृतेष्वादेशेषु भवति ॥ (1653 समाधानवार्तिकम् ॥ 5 ॥) - लुगादेशापवादः - (भाष्यम्) लुग् आदेशानामपवादः ॥ (1654 समाधानबाधकवार्तिकम् ॥ 6 ॥) - तिङ्कृताभावस्तु - (भाष्यम्) तिङ्कृतस्य तु अभावः ॥ कस्य? पदत्वस्य ॥ (1655 समाधानसाधकवार्तिकम् ॥ 7 ॥) - सुबन्तत्वात्सिद्धम् -) (भाष्यम्) सुबन्तं पदम् इति पदसंज्ञा भविष्यति ॥ (आक्षेपभाष्यम्) कथं स्वाद्युत्पत्तिः? (1656 समाधानवार्तिकम् ॥ 8 ॥) - लकारस्य कृत्त्वात् प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम् - (भाष्यम्) लकारः कृत्, कृत्प्रातिपदिकम् इति प्रातिपदिकसंज्ञा, तदाश्रयं प्रत्ययविधानम्, प्रातिपदिकाश्रयत्वात्स्वाद्युत्पत्तिर्भविष्यति ॥ (समाधानबाधकभाष्यम्) (यद्येवं) सुपः श्रवणं प्राप्नोति ॥ (समाधानसाधकभाष्यम्) अव्ययादिति लुग् भविष्यति ॥ (आक्षेपभाष्यम्) कथमव्ययत्वम्? ॥ (1657 समाधानवार्तिकम् ॥ 9 ॥) - अव्ययत्वं मकारान्तत्वात् ॥ 8 ॥ (भाष्यम्) कृदन्तं मान्तमव्ययसंज्ञं भवतीति अव्ययसंज्ञा भविष्यति ॥ (आक्षेपभाष्यम्) स्वरः कथम् - यत्प्रकारयांचकार? (1658 समाधानवार्तिकम् ॥ 10 ॥) - स्वरः कृदन्तप्रकृतिस्वरत्वात् - (भाष्यम्) कृदन्तमुत्तरपदं प्रकृतिस्वरं भवतीत्येष स्वरो भविष्यति ॥ (1659 फलान्तरवार्तिकम् ॥ 11 ॥) - तथा च निघातानिघातसिद्धिः - (भाष्यम्) तथा च निघातानिघातसिद्धिर्भवति। चक्षुष्कामं याजयांचकार तिङ्ङतिङ इति तस्य चानिघातः। तस्माच्च निघातः सिद्धो भवति ॥ (1660 आक्षेपवार्तिकम् ॥ 12 ॥) - नञ्ञा तु समासप्रसङ्गः - (भाष्यम्) नञ्ञा तु समासः प्राप्नोति - नकारयाम् नहारयाम्। नञ्ञ् सुबन्तेन सह समस्यत इति समासः प्राप्नोति ॥ (समाधानभाष्यम्) उक्तं वा ॥ किमुक्तम्? असार्मथ्यादिति। नात्र नञ्ञ आमन्तेन सार्मथ्यम् ॥ केन तर्हि? लिडन्तेन न चकार कारयाम् न जहार हारयामिति ॥ आमः ॥ 81 ॥ Kashika ------- आमः परस्य लेर्लुग् भवति। ईहांचक्रे। ऊहांचक्रे। ईक्षांचक्रे॥ Siddhanta Kaumudi ----------------- आमः परस्य लेर्लुक् स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- आमः परस्य लुक्॥ Balamanorama ------------ **आमः** - आमः ।मन्त्रे घसह्वरे॑त्यतो लेरिति,ण्यक्षत्रियार्षञित॑ इत्यतो लुगिति चानुवर्तते । तदाह — आमः परस्य लेरिति । अत्रेदमवधेयम् — 'कृन्मेजन्त' इत्यत्र कृद्यो मान्तस्तदव्ययमिति व्याख्याने एधामित्यादि नाऽव्ययं , लिट एव कृत्त्वात्, तस्य च मान्तत्वाऽभावात् । तथा च प्रत्ययलक्षणेन कृदन्तत्वात्प्रातपदिकत्वे स्वाद्युत्पत्तौ 'आम' इति लुक् । लेरित तु नानुवर्तते ।मान्तं कृदन्तमव्यय॑मिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वादेधामिति मान्तमव्ययम् । ततः सुबुत्पत्तावव्ययादाप्सुप इति लुक् । 'आम' इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरितिनानुवर्तनीयम् ।आमः परस्य ले॑रिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवं च एधामित्यव्ययं न वेति पक्षद्वयम्, उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम् । Tattvabodhini ------------- **आमः** - ॒लक्षणप्रतिपदोक्त॑परिभाषया,प्रत्ययग्रहण॑परिभाषया च नेह- आम । आमतुः । परसय् लुगिति ।मन्त्रे घसे॑ति सूत्राल्लेरित्यनुवर्त्त्यलेर्लु॑गिति काशिकादौ व्याख्यातं, तदत्रोपेक्षितं, व्यावर्त्त्याऽलाभात् । तिङाद्यपवादत्वाल्लावस्थायायमेवायं लुक् । तेन आमन्तस्याऽतिङ्न्तत्वाद्देवदत्तादिपदात्परत्वेऽपितिङ्ङतिङः॑ इति न निघातः । आमन्तात्परस्य निघातश्च तिङन्तस्येत्यर्थः । न चाऽतिङन्तत्वे पदत्वाऽभावादामन्तात्परस्य निघातो न सिध्यतीति शङ्क्यं, लिटः कित्त्वात्प्रत्ययलक्षणेन कृदन्ततया प्रातिपदिकत्वे सोरुत्पत्तावामन्तस्याऽव्ययत्वात्सुपो लुक्यपि प्रत्ययलक्षणेन सुबन्ततया पदत्वात् । Padamanjari ----------- आमः॥ आम उतरस्य लेर्लुग्भवतीति। यद्यपि सिचा लिर्विशेषितः, तथापीह लेरित्येवानुवर्तत इति भावः। विदामक्रन्विदाङ्गुर्वन्त्वित्यत्र लुङ्लोटोर्निपातनाल्लुग्भवति। तरबादीनां चामन्तादनुत्पत्तिरेव, तस्यानभिव्यक्तपदार्थत्वात्। अयं च लुग्नाप्राप्तेषु तिबादिषु विधीयमानत्वाल्लादेशानामपवादः। तेनामन्तस्यातिङ्न्तत्वाच्चक्षुः कामम्, याजयाञ्चकारेत्यत्र'तिङ्ङतिङः' इति, तस्य चानिघातः, तस्माच्च निघातः सिद्धो भवति। कथमामन्तस्य पदत्वम्? सुबन्तत्वात्। लकारस्य कृत्वात्प्रातिपदिकत्वम्। तिङ्भाविनो हि लकारस्यातिङिति प्रतिषेधः, न चायं तिङ्भावी। सुपः श्रवणं कस्मान्न भवति? आमः स्वरादिषु पाठादव्ययत्वात्। तद्धितेनामा साहचर्येऽपि तद्धित एव न गृह्यते, अपि तु व्याप्तेरतद्धितोऽपि नञा तुच समासप्रसङ्गः, न कारयां न हारयां'नञ्' सुबन्तेन समस्यत इति समासः प्राप्नोति? नैष दोषः; अभिव्यक्तपदार्थेन हि याजयाञ्चकारेति नञः सामर्थ्यम्, न त्वनभिव्यक्तपदार्थेनामन्तमात्रेण। आमन्तेभ्यो णलः प्रतिषेधः - शशाम, तताम;वृद्धौ कृतायां स्थानिवद्भावेन णलो लिग्रहणेन ग्रहणे लुक् प्राप्नोति? अर्थवद् ग्रहणात्सिद्धम्। अर्थवत आमन्तस्य ग्रहणम्, न चैषोऽर्थवान्। एवमपि ठमगत्यादिषुऽ, तिपो णल्, आम - अत्र प्राप्तोति, अर्थवत्वात्?'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति अत्र न भविष्यति॥ Nyaas ----- `ईहाञ्चक्रे` इति। `ईह चेष्टायाम्` (धातुपाठः-632), लिट्, `इजादेश्च` (3.1.36) इत्यादिनाऽऽम्। तस्य कृत्वे मकारान्तस्य कृदन्तत्वात् प्रातिपदिकसंज्ञा, सुः, आमः स्वरादिपाठादव्ययत्वम्, **अव्ययादाप्सुपः** (2.4.82) इति सुलोपः, `कृञ्च` (3.1.40) इत्यादिना लिट्परस्य कृञोऽनुप्रयोगः, `आम्प्रत्ययवत्` (1.3.63) इत्यादिनाऽऽत्मनेपदम्, तत एशादेशः, द्विर्वचनम्, अभ्यासकार्यम्। आमो मकारस्यानुस्वारः, **अनुस्वारस्य ययि परसवर्णः** (8.4.58) । अथेह कस्मान्न भवति - जगाम, शशामेति? अर्थवदामो ग्रहणात्, अस्य चानर्थकत्वात्। प्रत्ययस्तु `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (पु।प।पा।90) इत्यर्थवान्। इह तर्हि कस्मान्न भवत्यम् रोग इति - आमेति? `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्` (व्या।प।3), अस्य तु लाक्षणिकत्वात्॥ Prakriyasarvasvam ----------------- आमः परस्य लेर्लुक् स्यात् । लिट कृत्त्वात् प्रत्ययलक्षणेन कृदन्तत्वात् सुपि सति आमः स्वरादिपाठात् सुब्लुक् । गोपायाम् । Sutra Prayogas -------------- * **संत्रासयांचकाराऽरिं** (भट्टिकाव्यम्): `आमः` इति लुक्।