24057: वा यौ ============ **Padacheda:** वा | S | 0 | 0 | यौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- वी is optionally the substitute of अज् when the affix -- अनद्यतने लुट् (3.3.15) etc. follows. Vasu English Translation ------------------------ वी is optionally the substitute of अज् when the affix -- अनद्यतने लुट् (3.3.15) etc. follows. This declares an option in case of the affix ल्युट्, the word यु in the *Sutra* referring to this affix; as, प्रवयणः or प्राजनो दण्डः 'driving stick or whip.' Kashika ------- पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। यु इति ल्युटो ग्रहणम्। यौ परभूते अजेर्वा वी इत्ययमादेशो भवति। प्रवयणो दण्डः। प्राजनो दण्डः। प्रवयणमानय। प्राजनमानय॥ Siddhanta Kaumudi ----------------- अजेर्वी वा स्याद् यौ । प्रवयणम् । प्राजनम् ॥ Nyaas ----- `यु` इति ल्युटो ग्रहणम्` इति। अन्यस्यासम्भवात्। `प्रवयणो दण्डः` इति। प्राज्यतेऽनेनेति करणे ल्युट्। पूर्ववण्णत्वम्॥ Prakriyasarvasvam ----------------- ल्युटचजेर्वा वीत्वम् । वयनम् । अजनम् । वयतेस्तु 'आदेच—' (६-१-४५) इत्यात्वाद् वानमेव । ष्ठिवुसिवोर्दीर्घश्च ल्युटि वेति भोजः । ष्ठीवनम् । सीवनम् । अदीर्घे लघूपधगुणः । ष्ठेवनम् । सेवनम् । ष्ठिवेर्घञ्यपि दीर्घ इति केचित् । निष्ठीवः । निष्ठेवः । अतिशीङो ल्युटि अतिशयने तमविष्ठनौ (५-३-५५) इति निपातनात् दीर्घोऽपि । अत एव सुखशयनमित्यादावप्याह हरः । 'मीनाति- मिनोतिदीङां ल्यपि च' (६-१-५०) 'विभाषा लीयतेः' (६-१-५१) इति चात्वम् । मानं हिंसा । निमानं प्रक्षेपः । उपदानं क्षयः । आत्वाभावे गुणः । निलानम् । निलयनम् । मिमील्यां खलचोरात्वप्रतिषेधः । तस्मादेरचि निमयः । प्रमयः । लयः ॥ Sutra Prayogas -------------- * **प्रवयणं** (शिशुपालवधम्): `वा यौ` इति विकल्पादजेर्वीभावः।