24055: वा लिटि ============== **Padacheda:** वा | S | 0 | 0 | लिटि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ख्याञ् is optionally the substitute of चक्षिङ् when लिट् (Perfect Tense) follows. Vasu English Translation ------------------------ ख्याञ् is optionally the substitute of चक्षिङ् when लिट् (Perfect Tense) follows. The लिट् also is an *ardhadhatuka* affix and by the last *sutra* ख्या would always have been the substitute of चक्ष्; the present *sutra* makes this substitution optional, as आचख्यौ, आचख्यतुः and आचख्युः. In the alterative we have आचचक्षे, आचचक्षाते and आचचक्षिरे 'he told &c.' Kashika ------- पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। लिटि परतश्चक्षिङः ख्याञ् आदेशो वा भवति। आचख्यौ, आचख्यतुः, आचख्युः। न च भवति — आचचक्षे, आचचक्षाते, आचचक्षिरे॥ Siddhanta Kaumudi ----------------- अत्र भाष्ये खशादिरयमादेशः । असिद्धाकाण्डे । (वार्तिकम्) ॥ ञित्त्वात्पदद्वयम् । चख्यौ-चख्ये-चक्शौ-चक्शे ॥चयो द्वितीया - (SK5023) इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट । चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ॥ Balamanorama ------------ **वा लिटि** - वा लिटि । चक्षिङः ख्याञ् वा स्याल्लिटीत्यर्थः । अत्रेति ।चक्षिङः ख्या॑ञिति सूत्रभाष्ये 'ख्शादिरयमादेश' इति,पूर्वत्रासिद्ध॑मित्यधिकारेख्शाञः शस्य यो वा वक्तव्यः इति च सित्थमित्यर्थः । तेनपुंख्यान॑मित्यत्र यत्वस्याऽसिद्धत्वात् 'पुनः खय्यम्परे' इति रुत्वं नेति हल्सन्धिनिरुपणे प्रपञ्चितम् । ञित्त्यात्पदद्वयमिति । परस्मपैदमात्मनेपदं चेत्यर्थः । चख्यौ इति । ख्शादेशस्य शस्य वत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः चख्युः । भारद्वाजनियमात्थलि वेट् — चख्यिथ-चख्याथ, चख्यथुः चख्य । चख्यौ चख्यिव चख्यिमाक्रादिनियमादिट् । लिटि तङि ख्शाञादेशस्य शस्य वत्वपक्षे आह - चख्ये इति । चख्याते चख्यिरे । चख्यिषे चख्याते [चख्यिढवे] चख्यिध्वे चख्ये । चख्यिवहे । चख्यिमहे । शस्य वत्वाऽभावपक्षे त्वाह - चक्शौ चक्शे इति । खस्य चर्त्वेन क इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशह्क्य निराकरोति — खय इति । अथ ख्यानादेशाऽभावपक्षे आह — चचक्षे इति । चचक्षिषे चचक्षिध्वे । चचक्षिवहे । ख्यास्यतीति । चष्टाम् चक्षाताम् चक्षताम् । चक्ष्व चक्षाथाम् चड्ढ्वम् ।चक्षै चक्षावहै चक्षामहै । लडआह — अचष्टेति । अचक्षातामचक्षत ।अचष्ठ#आ#ः अचक्षाथामचड्ढ्वम् । अचक्षि अचक्ष्वहि अचक्ष्महि । विधिलिडआह — चक्षीतेति । आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह - ख्यायात् ख्येयादिति ।वाऽन्यस्ये॑त्येत्वविकल्पः । शस्य यत्वाऽभावपक्षे आह — क्शायात् क्शेषादिति । लुङि च्लेः सिचि प्राप्ते आह — Tattvabodhini ------------- **वा लिटि** - असिद्धकाण्डे इति ।णत्वप्रकरणानन्तर॑मिति शेषः । तेनपर्याख्यान॑मित्यत्र शकारेण व्यवधानात्कृत्यचः इति णत्वं न । तथा सुप्रख्येन निर्वृत्तं सौप्रख्यं,तत्र भवः सौप्रख्यीयः । यत्वस्याऽसिद्धत्वात्धन्वयोपधा॑दिति वुञ् न, किं तु छ एवेति बोध्यम् । अचष्टेति ।स्को॑रिति कलोपः । ष्टुत्वम् ।अस्यतिवक्तिख्याती॑त्यत्र विधिसामर्थ्याद्यत्त्वं नाऽसिद्धम् । स्वतन्त्रस्य ख्याधातोः सार्वधातुकमात्रविषयतया वक्ष्यमाणत्वात् । अस्यतेः पुषादिपाठादङि सिद्धं तङर्थं ग्रहणमित्यादि पुषादिषु वक्ष्यति । Prakriyasarvasvam ----------------- लिटि चक्षिङ ख्याञ् क्शाञौ वा स्तः । चचक्षे चचक्षाते । चचक्षिषे । चचक्षिध्वे । चचक्षे । चचक्षिवहे, चख्ये । चख्याते । चख्यिषे । चख्यिध्वे । यस्य शवद्भावाद्विणः परत्वं नेति 'विभाषेटः' इति ढत्वं न । चख्ये* । चख्यिवहे; चख्यौ । चख्यतुः । चख्यिथ, चख्याथ । चख्यिव; चक्शे । चक्शाते । चक्शिषे; चक्शौ । चक्शतुः । चक्शिथ, चक्शाथ । कर्मणि तद्ववत् । आशिषि ख्यासीष्ट । ख्यासीयास्ताम् । ख्यासीध्वम् । Sutra Prayogas -------------- * **प्रत्याचचक्षे** (शिशुपालवधम्): `वा लिटि` इति विकल्पान्न चक्षिङः ख्याजादेशः। * **आचख्यौ** (भट्टिकाव्यम्): `वा लिटि` इति चक्षिङः ख्याञ्।