24046: णौ गमिरबोधने =================== **Padacheda:** णौ | S | 7 | 1 | गमिः | S | 1 | 1 | अ-बोधने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When the affix णि (causal follows, गामि is the substitute of इण् when the sense is not that of 'informing' but that of 'going'. Vasu English Translation ------------------------ When the affix णि (causal follows, गामि is the substitute of इण् when the sense is not that of 'informing' but that of 'going'. गमयति 'makes him go' गमयतः, गमयन्ति &c. But प्रत्याययति 'causes to believe.' अधिगामयति. The इ of गमि is for articulation. So also इक् to 'remember'; as, अधिगमयति ॥ Bhashya ------- णौ गमिरबोधने। इण्वदिक इत्येव। अधिगमयति। अधिगमयतः। अधिगमयन्ति ॥ णौ गमि ॥ 46 ॥ Kashika ------- णौ परत इणोऽबोधनार्थस्य गमिरादेशो भवति। इकार उच्चारणार्थः। गमयति, गमयतः, गमयन्ति। अबोधन इति किम्? प्रत्याययति। इण्वदिक इत्येव — अधिगमयति॥ Siddhanta Kaumudi ----------------- इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति ॥ (वार्तिकम्) ॥ अधिगमयति ।हनस्तोऽचिण्णलोः (SK2574) । हो हन्तेः - (SK358) इति कुत्वम् । घातयति । ईर्ष्ययति । (वार्तिकम्) ॥ तृतीयव्यञ्जनस्य तृतीयैकाचेति वार्थः । आद्ये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीयेतु अजादेर्द्वितीयस्य (SK2176) इत्यस्यापवादतया सन्नन्ते प्रवर्तते । ऐर्ष्यियत् । ऐर्षिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादेः शेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् ॥ Balamanorama ------------ **णौ गमिरबोधने** - णौ गमिरबोधने ।इणो गा लुङी॑त्यत इण इत्यनुवर्तते । तदाह — इणो गमिरिति । मकारादिकार उच्चारणार्थः । गमयतीति । प्रापयतीत्यर्थः । प्रत्याययतीति । बोधयतीत्यर्थः । लुङि- प्रत्यायियत् । इणो णिचिइणो य॑णिति यणं बाधित्वा परत्वाद्वृद्धावायादेशो आय् इ अ त् इति स्थितेयी॑त्यस्य द्वित्वम् । न च द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद्वृद्धेर्निषेधः शङ्क्यः, 'अजादेर्द्वितीयस्य' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाऽभावात् । 'इक स्मरणे' इत्यस्य इण्वत्त्वमुक्तं स्मारयति — इण्वदिक इति.अधिगमयतीति । स्मारयतीत्यर्थः । हन्तेर्ञिति णिति च तकारादेशमुक्तं णौ स्मारयति — हनस्तोऽतचिण्णलोरिति । कुत्वमिति ।हस्ये॑ति शेषः । उपधावृदिंध मत्वाह — घातयतीति । लुङि अजीघतत् । ईष्र्ययतीति । ईष्र्यतेर्णौ रूपम् । वक्तव्यमिति ।द्वित्व॑मिति शेषः । इति वाऽर्थ इति । 'न न्द्राः' इति सूत्रभाष्ये स्पष्टमिदम् । आद्ये इति ।तृतीयस्य व्यञ्जनस्ये॑ति पक्षे इत्यर्थः । षकारस्येति । अन्यथा इर्ष्य् इ अ त् इति स्थिते 'न न्द्राः' इति रेफं वर्जयित्वा षकारसहितस्य 'ष्यि' इत्यस्य द्वित्वं स्यात् । ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात् । ऐर्ष्य्यदितीष्टं न स्यात् । अतस्तृतीयव्यञ्जनस्येत्युक्तम् । एवं च यकारद्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिध्यतीत्यर्थः । द्वितीये इति ।तृतीयैकाच॑इति व्याख्याने इत्यर्थः । सन्नन्ते प्रवर्तते इति ।उक्तवार्तिक॑मिति शेषः । सनि इटि ईर्ष्य् इस इति स्थिते ईर्ष्य् इति प्रथमैकाच्, 'ष्यिस्' इति द्वितीयैकाच् स इति तृतीयैकाजिति स्थितिः । तत्र तृतीयैकाचः संभवात्तस्य द्वित्वविधिः । अन्यथाअजादेर्द्वितीयस्ये॑ति स्यादिति भाव) । ऐर्ष्य्यदिति । यकारमात्रस्य द्वत्वे णिलोपे संयुक्ताद्वियकारकं रूपम्ऽथ द्वितीयव्याख्यायां रूपमाह — ऐर्षिष्यदिति । तदुपपादयति — द्वितीयव्याख्यायामिति । ण्यन्ताच्चङि ईर्ष्य् इ अ त् इति स्थिते 'न न्द्राः' इति निषेधाद्रेफं वर्जयित्वाअजादेर्द्वितीयस्ये॑ति 'ष्यि' इत्यस्य द्वित्वं न तु यकारमात्रस्य, प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः । तत्र 'ष्यि' इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकारएव हल् इकारशिरस्कः श्रूयते, न तु यकारोऽपीत्यर्थः । कुत इत्यत आह — हलादिशेषादिति । नतु तृतीयस्यैकाच द्वितीयव्याख्यायामिह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह — द्वित्वं तु द्वितीयस्यैवेति । 'एकाच' इति शेषः । कुत इत्यत आह — तृतीयाभावेनेति । ईर्ष्य् इ अ त् इत्यत्र ईर्ष्य् इति प्रथमैकाच्, र्ष्यि इति द्वितीयैकाच् , न तु चङि परे तृतीयैकाजस्ति । अतोऽत्र 'तृतीयैकाच' इति वार्तिकं न प्रवर्तते । तस्माद्द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः । एवं च 'तृतीयस्यैकाच' इति वार्तिकं सन्नन्त एव प्रवर्तते । ईष्र्यतेरामः सत्त्वेन ततः परस्यलिटोऽभावादिति बोध्यम् । ननुप्रार्थयन्ति शयनोत्थितं प्रियाः॑ इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिकणिजन्तं, तस्याऽऽगर्वीयतया आत्मनेपदप्रसङ्गात् । नापिहेतुमण्ण्यन्तं ,स्वाभीष्टं याचते इत्यर्थे तदसंभवात् । नहि प्रयोजकव्यापाराऽभावे तत्प्रवृत्तिरस्तीत्यत आह — निवृत्तेति । निवृत्तं प्रेषणं यस्मात् स निवृत्तप्रेषमः । संप्रति अविवक्षितप्रेषण इत्यर्थः । त्समाद्धातोर्भूतपूर्वगत्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः । तदुक्तं — ॒निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते॑इति । इदं च 'णेरणौ' इति सूत्रे भाष्ये स्पष्टम् ॥ इति बालमनोरमायाम् हेतुमण्णिच्प्रक्रिया॥अथ पाञ्चमिकास्तत्र छयद्विधिः । — — — — — — — — — — — Tattvabodhini ------------- **णौ गमिरबोधने** - प्रत्याययतीति । प्रतिपूर्वस्येणो ज्ञानार्थता । लुङि — प्रत्यायियत् । इह इणो णिचि कृतेइणो य॑णिति यणं बाधित्वा परत्वाद्धृद्धिः । न चओः पुयण्जी॑ति ज्ञापकात्पूर्वं द्वित्वं, पश्चाद्वृद्धिरिति शङ्क्यम्,अजादेर्द्वितीयस्ये॑ति णिचो द्वित्वेऽब्यासोत्तरखण्डस्याऽवर्णपरत्वाऽभावात् । इति वाऽर्थ इति । व्याख्यानद्वयमप्याकरारूढमिति भावः । * ईष्र्यतेस्तृतीयस्येति वक्तव्यम् । षकारस्येति । रेफस्य तुन न्द्राः॑ इत्यनेन निषेधादिति भावः । द्वितीये त्विति ।तृतीयस्यैकाच ॑ इति पक्षे । सन्नन्ते प्रवर्तत इति । वचनसामर्थ्यादिति भावः । ऐर्ष्यियदिति ।तृतीयव्यञ्जनस्ये॑ति पक्षे इदमुदाहरणम् ।ऐर्षिष्य॑दिति रूपस्याऽसाधुत्वमाशङ्क्योपपादयति — द्वितीयव्याख्यायामित्यादिना । द्वितीयस्यैवेति ।एकाच॑ इति शेषः । अप्रवृत्तेरिति । किंतु सन्नन्त एव प्रवर्तते । तत्र ह्रनुपदमीर्ष्यियिषतीत्युदाहरिष्यति ।अर्थ उपयाच्ञाया॑मित्यस्य आगर्वीयत्वादात्मनेपदेन भाव्यमितिप्रार्थयन्ती॑ति माघकाव्यादिप्रयोगोऽसाधुरित्याशङ्क्य तत्समर्थनायाह — निवृत्तप्रेषणादिति । उक्तं च — निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते॑ इति । तेनेत्यादि ।प्रार्थना कुर्वन्ती॑ ति विवक्षितार्थे प्रयोगः सिद्ध इति भावः । केचित्तु परस्मैपदसिद्ध्यर्थं — प्रार्थनं प्रार्थः, तं कुर्वन्ति प्रार्थयन्तीति वयाचक्षते, तदसत् । धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्षिते उपसर्गाणां पृथक्करमस्य वक्ष्यमाणतयाअर्थवेदे॑ त्यापुगागमस्य दुर्वारत्वात् । इति ण्यन्तप्रक्रिया॥ Nyaas ----- `गमयति` इति। `जनीजृष्क्नसुरञ्जोऽमन्ताश्च` (धातुपाठः-ग।सू।817) इति मित्त्वात् ह्रस्वत्वम्॥ Prakriyasarvasvam ----------------- अबोधनार्थस्येणो णौ गमिः स्यात् स च मित् खलु । गमयत्यटवीं वत्सान् प्रत्याययति बोधने ॥ ७४७ ॥ तथेण्वदिक इत्युक्तेः कथाऽधिगमयेद्धरिम् । चङि त्वजीगमत् तद्वत् प्रत्यायियदितीक्ष्य्ताम् ॥ ७४८ ॥ Sutra Prayogas -------------- * **प्रत्याययतु** (रघुवंशम्): `णौ गमिरबोधने` इति इणो गम्यादेशो नास्ति।