24043: लुङि च¶
Padacheda: लुङि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And when लुङ् (Aorist) follows वध is the substitute of हन्।
Vasu English Translation¶
And when लुङ् (Aorist) follows वध is the substitute of हन्। अवधीत् ‘he killed,’ अवधीष्टाम् ‘they two killed.’ The division of this aphorism from the last sutra (yoga-vibhaga) indicates that the next rule applies to Aorist only and not to Benedictive as well. There is no option in Benedictive Atmanepada.
Bhashya¶
लुङि च (574) (358 आदेशसूत्रम् । 2.4.1 आ.23) (आदेशेऽदन्तत्वनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किमयमदन्तः, आहोस्विद्व्यञ्जनान्तः? (भाष्यम्) किं चातः? (विशेषप्रदर्शकभाष्यम्) यदि व्यञ्जनान्तः वधौ व्यञ्जनान्त उक्तम् । किमुक्तम्? वध्यादेशे वृद्धितत्वप्रतिषेध इडि्वधिश्चेति। अथादन्तः। न दोषो भवति ॥ (सिद्धान्तिभाष्मय्) यथा न दोषस्तथास्तु ॥ हनो ॥ 43 ॥
Kashika¶
लुङि च परतो हनो वध इत्ययमादेशो भवति। अवधीत्, अवधिष्टाम्, अवधिषुः। योगविभाग उत्तरार्थः। आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लिङि मा भूत्॥
Siddhanta Kaumudi¶
वधादेशोऽदन्तः । आर्धधातुके (SK2300) इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तत्वात् अतो लोपः (SK2308) । वध्यात् । वध्यास्ताम् । आर्धधातुके किम् । विध्यादौ हन्यात् । हन्तेः (SK359) इति णत्वम् । प्रहण्यात् । अल्लोपस्य स्थानिवत्त्वात् अतो हलादेः (SK2284) इति न वृद्धिः । अवधीत् ॥ अथ चत्वारः स्वरितेतः ॥{$ {!1013 द्विष!} अप्रीतौ$} । द्वेष्टि-द्विष्टे । द्वेष्टा । द्वेक्ष्यति-द्वेक्ष्यते । द्वेष्टु-द्विष्टात् । द्विड्ढि । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ॥
Laghu Siddhanta Kaumudi¶
वधादेशोऽदन्तः । आर्धधातुके इति विषयसप्तमी, तेन आर्धधातुकोपदेशे अकारान्तत्वादतो लोपः । वध्यात् । वध्यास्ताम् । आदेशस्यानेकाच्त्वादेकाच इतीण्निषेधाभावादिट् । ‘अतो हलादेः’ इटि वृद्धौ प्राप्तायाम् -
Tattvabodhini¶
वधादेशोऽदन्त इति। तेन आदेशोपदेशेऽनेकाच्त्वादवधीदित्यत्र एकाचः इतीण्निषेधाऽप्रवृत्ताविडादौसिचि `अतो हलादे`रिति प्राप्ता वृद्धिरल्लोपस्य स्थानिवत्त्वान्नेति भावः।
Nyaas¶
आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लुङि मा भूत् इति। अनेन योगविभागस्योत्तरार्थतां दर्शयति। एकयोगे हि सति लिङोऽप्युत्तरत्रानुवृत्तेस्तत्राप्यात्मनेपदेषु विकल्पः स्यात्॥
Prakriyasarvasvam¶
लुङि हनो वधभावः स्यात् । अस्य स्थानिवत्त्वात् प्राप्त इण्निषेध एकाच्त्वाभावान्न । वध इस् त् । अतो लोपे कृते तस्य स्थानिवत्त्वाद् ‘अतो हलादेः—’ इति वृद्धिर्न । अवधीत् । अवधिष्टाम् । कर्मणि—
Sutra Prayogas¶
वधीत् (किरातार्जुनीयम्): लुङि च इति हनो वधादेशः।
अवधीत् (शिशुपालवधम्): लुङि च इति हनो वधादेशः।
न्यवधिषं (भट्टिकाव्यम्): लुङि च इति वधादेशः ।