24033: एतदस्त्रतसोस्त्रतसौ चानुदात्तौ

Padacheda: एतदः | S | 6 | 1 |

त्र-तसोः | S | 7 | 2 |

त्र-तसौ | S | 1 | 2 |

च | S | 0 | 0 |

अनुदात्तौ | S | 1 | 2 |

Sutrartha


Vasu English Summary

In the room of एतद् in the case of re-employment there is the substitution of the gravely accented अश् when the affixes त्र – सप्तम्यास्त्रल् (5.3.10) and तस् – पञ्चम्यास्तसिल् (5.3.7) follow, and the affixes त्र and तद् are अनुदात्त (gravely accented) also.

Vasu English Translation

In the room of एतद् in the case of re-employment there is the substitution of the gravely accented अश् when the affixes त्र – सप्तम्यास्त्रल् (5.3.10) and तस् – पञ्चम्यास्तसिल् (5.3.7) follow, and the affixes त्र and तद् are अनुदात्त (gravely accented) also. Thus अत्र ‘here,’ and अतस् ‘hence’ in the following :- एतस्मिन् ग्रामे सुखं वसामः ; अथो अत्र युक्ता अधीमहे । ‘We live in this (etasmin) village, happily, therefore let us read with full devotion in this (atra).’ एतस्माच्छात्राच्छन्दोऽधीष्व, अथो अतो व्याकरणमप्यधीष्व । ‘Learn from this student Prosody and also learn from him Grammar.’ By rule (5.3.5) अश् is declared to be the substitute of एतद्; its repetition here is to indicate that this अश् of anvadesa is anudatta.

Bhashya

एतदस्त्रतसोस्त्रतसौ चानुदात्तौ (564) (352 आदेशसूत्रम् ॥ 2.4.1 आ. 17) (अनुदात्तत्वकथनप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं त्रतसोरनुदात्तत्वमुच्यते? (समाधानभाष्यम्) उदात्तौ मा भूतामिति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। लित्स्वरे निघाते एतदनुदात्तत्वेन सिद्धम् ॥ (समाधानसाधकभाष्यम्) इदमिह संप्रधार्यम् - अनुदात्तत्वं क्रियताम्, लित्स्वर इति। किमत्र कर्तव्यम्? परत्वाल्लित्स्वरः ॥ नित्यमनुदात्तत्वम् - कृतेपि लित्स्वरे प्राप्नोति, अकृतेपि। तत्र नित्यत्वादनुदात्तत्वे कृते लिति पूर्व उदात्तभावी नास्तीति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत। तद्यथा - गोष्पदप्रं वृष्टो देवः ऊलोपे कृते पूर्व उदात्तभावी नास्तीति कृत्वा यथाप्राप्तः प्रत्ययस्वरो भवति। तस्मात्रतसोरनुदात्तत्वं वक्तव्यम् ॥ एतदः ॥ 33 ॥

Kashika

अन्वादेश अनुदात्त इति वर्तते। एतदोऽन्वादेशविषयस्याशादेशो भवत्यनुदात्तस्त्रतसोः परतः। तौ चापि त्रतसावनुदात्तौ भवतः। एतस्मिन् ग्रामे सुखं वसामः, अथोऽत्र युक्ता अधीमहे। एतस्माच्छात्राच्छन्दोऽधीष्व, अथोऽतो व्याकरणमप्यधीष्व। सर्वानुदात्तं पदं भवति। एतदोऽश् (५.३.५) इत्यशादेशे लब्धे पुनर्वचनमनुदात्तार्थम्॥

Siddhanta Kaumudi

अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोऽत्राधीमहे । अतो न गन्तास्मः ॥

Balamanorama

एतदस्त्रतसोस्त्रतसौ चानुदात्तौ - एतदस्त्रतसोः । ‘इदमोऽन्वादेशे’ इत्यस्मादन्वादेशे अशनुदात्त इत्यनुवर्तते । तदाह — अन्वादेशेत्यादिना । अतोऽत्रेति । एतच्छब्दात्तसिल्, प्रकृतेरशादेशः । एतदोऽ॑न्नित्येव सिद्धेऽनुदात्तार्थं वचनम् । नच लित्स्वरे सति शेषनिघातेन त्रतयसोरनुदात्तत्वं सिद्धमिति शङ्क्यं, लित्स्वरापवादेऽशोऽनुदात्तत्वे कृते लित्स्वराऽप्राप्त्या प्रत्ययस्वरेण त्रतसोरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात् ।

Padamanjari

एतदस्त्रतसोस्त्रतसौ चानुदातौ॥ पुनर्वचनमनुदातार्थमिति। पाञ्चमिकोऽशादेश उदातः स्याद्, अनुदातश्चेष्यते इत्यनुदातार्थ पुनर्वचनम्। त्रतसोरिति वचनं निमितभावार्थम्; अन्यथा’त्रतसौ चानुदातौ’ इत्यन्वाचयो विज्ञायेत - यत्र त्रतसौ पश्यसि तत्र तावनुदाताविति। किमर्थं पुनस्त्रतसोरनुदातत्वमिष्यते, यावताऽत्रात इत्यादौ त्रतसोः कृतयोः प्रकृतेर्लित्स्वरे कृते शेषनिघातेन प्रत्ययानुदातत्वेसत्यशनुदातः करिष्यते? यद्येवं लभ्यते, कृतं स्यात्; ततु न लभ्यम्। इह हि त्रतसोः कृतयोर्लित्स्वरश्च प्राप्नोति, अनेन चानुदातोऽशादेशः, तत्र येन नाप्राप्तिन्यायेनापवादत्वान्नित्यत्वाच्चानुदातेऽशादेशे कृते तद्विधानसामर्थ्यादपवादस्य लित्स्वरस्याप्रवृतानुत्सर्गः प्रत्ययस्वर एव त्रतसोः स्यात्, यथा - गोष्पदप्रमित्यत्र णमुल उलोपेन सहि विधानाल्लित्स्वराप्रवृतौ प्रत्ययाद्यौदातत्वे सति कृदुतरपदप्रकृतिस्वरेणान्तोदातं पदं भवति। तस्मात्’त्रतसौ चानुदातौ’ इति वक्तव्यम्॥

Nyaas

अथो अत्र इति। सप्तम्यास्त्रल् (5.3.10) । अथो अतः`इति। **पञ्चम्यास्तसिल्** (5.3.7) । `पुनर्वचनमनुदात्तार्थम् इति। एतदोऽश् (5.3.5) इति यः पाञ्चमिकोऽशादेशः स उदात्तः स्यात्। अनुदात्ततश्चेष्यत इत्यनुदात्तार्थ वचनम्। अथ त्रतसोरिति किमर्थम्, यावता त्रतसौ चानुदात्तौ इति वचनात् तयोरेव निमित्तभावो विज्ञास्यते? नैतदस्ति; अन्वाचयोऽपि विज्ञायेत, यथा - कर्त्तुः क्यङ सलोपश्च (3.1.11) इति। अत्राविशेषेण क्यङ भवति। तथाऽत्राविशेषेण तावदशादेशो भवति। यत्र तु त्रतसौ दृश्येते तत्र तावनुदात्तौ भवतः, तस्मात् तावन्निमितभावार्थं त्रतसोरितिवक्तव्यम्। अथ त्रतसोरनुदात्तत्वं किमर्थम्, यावता लित्स्वर एव तयोरनुदात्तत्वं करिष्यति? नैतदस्ति; न ह्यत्र लित्स्वरोऽस्ति, अनुदात्तस्यादेशस्य विधानात्। ननु च लितस्वरे कृत आदेशस्वरः क्रियते; यद्येवम्, लित्स्वरापवाद आदेशस्वरो विज्ञायेत, न चापवादविषयमनुत्सर्गोऽभिनिविशते? तस्माद्यथा गोष्पदप्रमित्यत्र लिति पूर्वमनुदात्तभावो नास्तीति प्रत्तययस्वर एव भवति; तथेहापि स्यादिति त्रतसोरनुदात्तार्थ वचनम्। ततश्चैतदपि सर्वमनुदात्तं पदं भवति। ताविति वक्तव्ये त्रतसोरिति वचनं स्पष्टार्थम्। गोषपदप्रमिति। यावति विन्दरजीवोः (3.4.30) । चर्मोदयोः पूरेः (3.4.31) । वर्षप्रमाण ऊलोपश्चादन्यतरस्याम् (3.4.32) इति णमुल्, ऊलोपश्च॥