24033: एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ===================================== **Padacheda:** एतदः | S | 6 | 1 | त्र-तसोः | S | 7 | 2 | त्र-तसौ | S | 1 | 2 | च | S | 0 | 0 | अनुदात्तौ | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- In the room of एतद् in the case of re-employment there is the substitution of the gravely accented अश् when the affixes त्र -- सप्तम्यास्त्रल् (5.3.10) and तस् -- पञ्चम्यास्तसिल् (5.3.7) follow, and the affixes त्र and तद् are अनुदात्त (gravely accented) also. Vasu English Translation ------------------------ In the room of एतद् in the case of re-employment there is the substitution of the gravely accented अश् when the affixes त्र -- सप्तम्यास्त्रल् (5.3.10) and तस् -- पञ्चम्यास्तसिल् (5.3.7) follow, and the affixes त्र and तद् are अनुदात्त (gravely accented) also. Thus अत्र 'here,' and अतस् 'hence' in the following :- एतस्मिन् ग्रामे सुखं वसामः ; अथो अत्र युक्ता अधीमहे । 'We live in this (*etasmin*) village, happily, therefore let us read with full devotion in this (*atra*).' एतस्माच्छात्राच्छन्दोऽधीष्व, अथो अतो व्याकरणमप्यधीष्व । 'Learn from this student Prosody and also learn from him Grammar.' By rule (5.3.5) अश् is declared to be the substitute of एतद्; its repetition here is to indicate that this अश् of *anvadesa* is *anudatta*. Bhashya ------- एतदस्त्रतसोस्त्रतसौ चानुदात्तौ (564) (352 आदेशसूत्रम् ॥ 2.4.1 आ. 17) (अनुदात्तत्वकथनप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं त्रतसोरनुदात्तत्वमुच्यते? (समाधानभाष्यम्) उदात्तौ मा भूतामिति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। लित्स्वरे निघाते एतदनुदात्तत्वेन सिद्धम् ॥ (समाधानसाधकभाष्यम्) इदमिह संप्रधार्यम् - अनुदात्तत्वं क्रियताम्, लित्स्वर इति। किमत्र कर्तव्यम्? परत्वाल्लित्स्वरः ॥ नित्यमनुदात्तत्वम् - कृतेपि लित्स्वरे प्राप्नोति, अकृतेपि। तत्र नित्यत्वादनुदात्तत्वे कृते लिति पूर्व उदात्तभावी नास्तीति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत। तद्यथा - गोष्पदप्रं वृष्टो देवः ऊलोपे कृते पूर्व उदात्तभावी नास्तीति कृत्वा यथाप्राप्तः प्रत्ययस्वरो भवति। तस्मात्रतसोरनुदात्तत्वं वक्तव्यम् ॥ एतदः ॥ 33 ॥ Kashika ------- अन्वादेश अनुदात्त इति वर्तते। एतदोऽन्वादेशविषयस्याशादेशो भवत्यनुदात्तस्त्रतसोः परतः। तौ चापि त्रतसावनुदात्तौ भवतः। एतस्मिन् ग्रामे सुखं वसामः, अथोऽत्र युक्ता अधीमहे। एतस्माच्छात्राच्छन्दोऽधीष्व, अथोऽतो व्याकरणमप्यधीष्व। सर्वानुदात्तं पदं भवति। **एतदोऽश्** (५.३.५) इत्यशादेशे लब्धे पुनर्वचनमनुदात्तार्थम्॥ Siddhanta Kaumudi ----------------- अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोऽत्राधीमहे । अतो न गन्तास्मः ॥ Balamanorama ------------ **एतदस्त्रतसोस्त्रतसौ चानुदात्तौ** - एतदस्त्रतसोः । 'इदमोऽन्वादेशे' इत्यस्मादन्वादेशे अशनुदात्त इत्यनुवर्तते । तदाह — अन्वादेशेत्यादिना । अतोऽत्रेति । एतच्छब्दात्तसिल्, प्रकृतेरशादेशः । एतदोऽ॑न्नित्येव सिद्धेऽनुदात्तार्थं वचनम् । नच लित्स्वरे सति शेषनिघातेन त्रतयसोरनुदात्तत्वं सिद्धमिति शङ्क्यं, लित्स्वरापवादेऽशोऽनुदात्तत्वे कृते लित्स्वराऽप्राप्त्या प्रत्ययस्वरेण त्रतसोरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात् । Padamanjari ----------- एतदस्त्रतसोस्त्रतसौ चानुदातौ॥ पुनर्वचनमनुदातार्थमिति। पाञ्चमिकोऽशादेश उदातः स्याद्, अनुदातश्चेष्यते इत्यनुदातार्थ पुनर्वचनम्। त्रतसोरिति वचनं निमितभावार्थम्; अन्यथा'त्रतसौ चानुदातौ' इत्यन्वाचयो विज्ञायेत - यत्र त्रतसौ पश्यसि तत्र तावनुदाताविति। किमर्थं पुनस्त्रतसोरनुदातत्वमिष्यते, यावताऽत्रात इत्यादौ त्रतसोः कृतयोः प्रकृतेर्लित्स्वरे कृते शेषनिघातेन प्रत्ययानुदातत्वेसत्यशनुदातः करिष्यते? यद्येवं लभ्यते, कृतं स्यात्; ततु न लभ्यम्। इह हि त्रतसोः कृतयोर्लित्स्वरश्च प्राप्नोति, अनेन चानुदातोऽशादेशः, तत्र येन नाप्राप्तिन्यायेनापवादत्वान्नित्यत्वाच्चानुदातेऽशादेशे कृते तद्विधानसामर्थ्यादपवादस्य लित्स्वरस्याप्रवृतानुत्सर्गः प्रत्ययस्वर एव त्रतसोः स्यात्, यथा - गोष्पदप्रमित्यत्र णमुल उलोपेन सहि विधानाल्लित्स्वराप्रवृतौ प्रत्ययाद्यौदातत्वे सति कृदुतरपदप्रकृतिस्वरेणान्तोदातं पदं भवति। तस्मात्'त्रतसौ चानुदातौ' इति वक्तव्यम्॥ Nyaas ----- `अथो अत्र` इति। **सप्तम्यास्त्रल्** (5.3.10) । `अथो अतः`इति। **पञ्चम्यास्तसिल्** (5.3.7) । `पुनर्वचनमनुदात्तार्थम्` इति। `एतदोऽश्` (5.3.5) इति यः पाञ्चमिकोऽशादेशः स उदात्तः स्यात्। अनुदात्ततश्चेष्यत इत्यनुदात्तार्थ वचनम्। अथ त्रतसोरिति किमर्थम्, यावता `त्रतसौ चानुदात्तौ` इति वचनात् तयोरेव निमित्तभावो विज्ञास्यते? नैतदस्ति; अन्वाचयोऽपि विज्ञायेत, यथा - `कर्त्तुः क्यङ सलोपश्च` (3.1.11) इति। अत्राविशेषेण क्यङ भवति। तथाऽत्राविशेषेण तावदशादेशो भवति। यत्र तु त्रतसौ दृश्येते तत्र तावनुदात्तौ भवतः, तस्मात् तावन्निमितभावार्थं त्रतसोरितिवक्तव्यम्। अथ त्रतसोरनुदात्तत्वं किमर्थम्, यावता लित्स्वर एव तयोरनुदात्तत्वं करिष्यति? नैतदस्ति; न ह्यत्र लित्स्वरोऽस्ति, अनुदात्तस्यादेशस्य विधानात्। ननु च लितस्वरे कृत आदेशस्वरः क्रियते; यद्येवम्, लित्स्वरापवाद आदेशस्वरो विज्ञायेत, न चापवादविषयमनुत्सर्गोऽभिनिविशते? तस्माद्यथा गोष्पदप्रमित्यत्र लिति पूर्वमनुदात्तभावो नास्तीति प्रत्तययस्वर एव भवति; तथेहापि स्यादिति त्रतसोरनुदात्तार्थ वचनम्। ततश्चैतदपि सर्वमनुदात्तं पदं भवति। ताविति वक्तव्ये त्रतसोरिति वचनं स्पष्टार्थम्। गोषपदप्रमिति। `यावति विन्दरजीवोः` (3.4.30) । `चर्मोदयोः पूरेः` (3.4.31) । `वर्षप्रमाण ऊलोपश्चादन्यतरस्याम्` (3.4.32) इति णमुल्, ऊलोपश्च॥