24032: इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ¶
Padacheda: इदमः | S | 6 | 1 |
अन्वादेशे | S | 7 | 1 |
अश् | S | 1 | 1 |
अनुदात्तः | S | 1 | 1 |
तृतीया-आदौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the room of इदम् ‘this’, in the case of its re-employment in a subsequent member of the same sentence and referring to the same thing (अन्वादेश) there is the substitution of अश् which is अनुदात्त (gravely accented), when the Instrumental -3rd case-affix and the rest follow.
Vasu English Translation¶
In the room of इदम् ‘this’, in the case of its re-employment in a subsequent member of the same sentence and referring to the same thing (अन्वादेश) there is the substitution of अश् which is अनुदात्त (gravely accented), when the Instrumental -3rd case-affix and the rest follow. The word अन्वादेश means literally saying (adesa) ‘after’ (anu) or after-say or re-employment.
अश् (actually अ) replaces इदम् in all cases except the nominative and the accusative, when anvadesa or repetition is implied. अश् replaces the whole of इदम् by 55 and not only the final म्. Anvadesa means repeating in a second sentence with reference to the preceding in which it has already been used. Both pronouns, the antecedent and the subsequent, must refer to the same object. As, आभ्याम् छात्राभ्याम् रात्रिरधीता, अथो आभ्यामहरप्यधीम् ‘Those students studied in the night and they have read in the day also.’ The substitute अश् will replace इदम्, even when the latter takes the affix अकच् (5.3.71)
अस्मै छात्राय कम्बलं देहि, अथो अस्मै शाकटमपि देहि ‘Give this student a blanket and give him also a cloth’. अस्य छात्रस्य शोभनं शीलम्, अथो अस्य प्रभूतं स्वम्, ‘this student’s conduct is excellent, and his wealth is great.’
So also when the affix अकच् (5.3.71) comes after the Pronominal as इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्.
The mere mentioning in a subsequent sentences is now anvadesa : it is the employment again of what has been employed to direct one operation, to direct another operation. Therefore the rule does not apply here :- देवदत्तं भोजय, इमंच यज्ञदत्तम् ‘feed Devadatta and this Yajnadatta.’
Bhashya¶
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (563) (अथ विधिप्रकरणम्) (351 आदेशविधिसूत्रम् ॥ 2.4.1 आ.16 ॥) (अन्वादेशलक्षणाधिकरणम्) (1590 वार्तिकम् ॥ 1 ॥) - अन्वादेशे समानाधिकरणग्रहणम् (दैवदत्तं भोजयेमं चेत्यप्रसङ्गार्थम्)- (भाष्यम्) अन्वादेशे समानाधिकरणग्रहणं कर्तव्यम् ॥ किं प्रयोजनम्? देवदत्तं भोजय इमं चेत्यप्रसङ्गार्थम् प्र् इह मा भूत् - देवदत्तं भोजय इमं च यज्ञदत्तं भोजयेति ॥ (1591 अन्वादेशलक्षणवार्तिकम् ॥ 2 ॥) - अन्वादेशश्च कथितानुकथितमात्रम् - (भाष्यम्) अन्वादेशश्च कथितानुकथितमात्रं द्रष्टव्यम्। तद् द्वेष्यं विजानीयाद्-इदमा कथितमिदमैव यदानुकथ्यत इति। तदाचार्यः सुहृद्भूत्वान्वाचष्टे - अन्वादेशश्च कथितानुकथितमात्रमिति ॥ (आदेशशित्करणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थमशादेशः क्रियते, न तृतीयादिषु इत्येवोच्येत। तत्र टायामोसि च एनेन भवितव्यम्। अन्याः सर्वा हलादयो विभक्तयः। तत्र इद्रूपलोपे कृते केवलमिदमोनुदात्तत्वं वक्तव्यम् ॥ (समाधानभाष्यम्) अत उत्तरं पठति - (1592 प्रयोजनवार्तिकम् प्र्प्र् 3 प्र्प्र्) - अशादेशवचनं साकच्कार्थम् - (भाष्यम्) अशादेशवचनं साकच्कार्थं क्रियते। साकच्कस्यायमादेसो यथा स्यात् - इमकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतमिति ॥ (आक्षेपभाष्यम्) अथ किमर्थं शित्करणम्? (1593 समाधानवार्तिकम् ॥ 4 ॥ ) - शित्करणं सर्वादेशार्थम् - (भाष्यम्) शित्करणं क्रियते सर्वादेशार्थम्। शित्सर्वस्येति सर्वादेशो यथा स्यात् - इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतमिति। अक्रियमाणे हि शित्करणेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत ॥ (1594 समाधानबाधकवार्तिकम् ॥ 5 ॥) - न वान्त्यविकारवचनानर्थक्यात् - (भाष्यम्) न वा वक्तव्यम् ॥ किं कारणम्? अन्त्यस्य विकारवचनानर्थक्यात्। अकारस्याकारवचने प्रयोजनं नास्तीति कृत्वान्तरेणापि शकारं सर्वादेशो भविष्यति ॥ (1595 समाधानसाधकवार्तिकम् ॥ 6 ॥) - अर्थवत्त्वादेशप्रतिषेधार्थम् (तस्माच्छित्करणम्)- (भाष्यम्) अर्थवत्त्वकारस्याकारवचनम् ॥ कोर्थः ? आदेशप्रतिषेधार्थम्। येऽन्ये अकारस्यादेशाः प्राप्नुवन्ति तद्बाधनार्थम्। तद्यथा - मो राजि समः क्कौ इति मकारस्य मकारवचने प्रयोजनं नास्तीति कृत्वा अनुस्वारादयो बाध्यन्ते। तस्माच्छित्करणम्। तस्माच्छकारः कर्तव्यः ॥ (एकदेशिसमाधानबाधकभाष्यम्) न कर्तव्यः। प्रश्लिष्टनिर्देशोयम् - अ अ अनेकाल् शित्सर्वस्य इति सर्वादेशो भविष्यति ॥ (समाधानबाधकभाष्यम्) अथ वा विचित्रास्तद्धितवृत्तयः। नान्वादेशेकजुत्पद्यते ॥ इदमो ॥ 32 ॥
Kashika¶
आदेशः कथनम्, अन्वादेशोऽनुकथनम्। इदमोऽन्वादेशविषयस्याशादेशो भवत्यनुदात्तस्तृतीयादौ विभक्तौ परतः। आभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। अस्मै छात्राय कम्बलं देहि, अथोऽस्मै शाटकमपि देहि। अस्य छात्रस्य शोभनं शीलम्, अथोऽस्य प्रभूतं स्वम्। अशादेशवचनं साकच्कार्थम्। इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। नेह पश्चादुच्चारणमात्रमन्वादेशः। किं तर्हि? एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः। तेनेह न भवति — देवदत्तं भोजय, इमं च यज्ञदत्तमिति॥
Siddhanta Kaumudi¶
अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेशः स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ॥
Tattvabodhini¶
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ - इदमोऽन्वादेशे । नन्विदमोऽनुदात्तमात्पविधावपि हलि लोपेनआभ्या॑मित्यादि समीहितरूपं सिध्यति,एनयो॑रित्यत्र तु विशिष्यैनादेशो विहितः, किमनेनाऽआचनेनेत्यत आह — साकच्कार्थमिति । यद्यपीह शित्करणं व्यर्थम्, अकारस्याऽकारविधानसामर्थ्यादेव सर्वादेशासिद्धेः, तथाप्यनुदात्तत्वार्थंमेवाऽकारविधानमित्याशङ्का स्यात्तन्निवारणाय शित्करणमित्याहुओः ।अ — अ॑इति प्रश्लिष्य निर्देशे त्वनेकाल्वादेव सर्वादेशसिद्धेः सिद्ग्रहणं त्युक्तं शक्यमित्याकरः ।
Padamanjari¶
इदमोऽन्वादेशेऽशनुदातस्तृतीयादौ॥ अन्वादेशोऽनुकथनमिति। शब्दार्थकथनमेतत्, याद्दशस्त्वत्राभिप्रेतस्ताद्दशं पश्चाद्वक्ष्यति। आभ्यां छात्राभ्यामिति। आदेश एषः। अथो आच्छभ्यामिति। एषोऽन्वादेशः। अथोशब्देन चात्रान्वादेशऽभिव्यज्यते। ननु तृतीयादावयमादेशस्ततत्र च टायामोसि चैनादेशो वक्ष्यते, अन्याः सर्वा हलादयः, तत्र हलिलोपेनैवाभ्यामित्यादिरूपं सिद्धम्; नार्थ आदेशवचनेन, तत्राह - आदेशवचनमिति। अज्ञाताद्यर्थविवक्षायामकचि कृते’हलि लोपः’ इत्यत्र ठनाप्यकःऽ इत्यतोऽक इत्यधिकारादिद्रूपलोपो न स्यात्, सत्यपि च तस्मिन्नाभ्यामित्यादि रूपं न सिद्ध्यत्; तस्मात्साकच्कार्थमादेशवचनम्। साच्कार्थे चास्मिन् शित्करणं सर्वादेशार्थम्, न वान्त्यस्य विकारवचनानर्थक्यात्। यदि ह्ययमन्त्यस्य विकारः स्याद्वचनमिदमनर्थकं स्यात्; त्यदाद्यत्वेनैव सिद्धेः। अर्थवद्वादेशप्रतिषेधार्थम्। अन्त्यस्यापि विकारवचनमर्थवदेव, येऽन्य आदेशा आभ्यामित्यादौ दीर्घादयस्ते मा भूवन्नित्यकारस्याप्यकारवचनं स्यात्, यथा - मोराजिसमः क्वौऽ इति मकारस्य मकारवचनमनुस्वारनिवृत्यर्थम्। ननु च कृतेऽप्य कचि अनेनादेशे सत्याभ्यामित्यादिरूपस्य साधारण्या9दज्ञाताद्यर्थगतिः प्रकरणाधीना। यद्येवम्, अनुत्पत्तिरेवाकचोऽस्तु, प्रकरणादिनैवाज्ञाताद्यर्थः प्रतिपत्स्यते,। अतोऽनुदातत्वमेव विधेयम्, नादेशः? उच्यते - असत्यादेशे प्रकरणादिकमन्तरेणाकचैव कश्चिदज्ञातादिकं प्रतिपादयेत्, मैवं प्रतिपीपददित्यादेशवचनम्। उतरार्थ च। अनुदातवचनं किमर्थम्, यावता ठूडिदम्पदादिऽ इति विभक्तेरुदातत्वं शेषनिघातेनैव सिद्धम्। अनुदातवचनं विभक्त्वयन्तस्यानुदातार्थम्, शेषनिघातेन हि प्रकृतेरेवानुदातत्वं सिद्ध्यति। कथं पुनरिदमस्तृतीयादावशादेशो भवति, स चानुदात इत्यनेन विभक्त्यन्तस्यानुदातत्वं विधातुं शक्यम्? नानेन विभक्त्यन्तस्यानुदातत्वं विधीयते, किं त्वनेन प्रकृतेरनुदातत्वे कृते ठूडिढम्ऽ इत्यत्रान्तोदातादित्यदिकारादसति विभक्तेरुदातत्वेठ् अनुदातौ सुप्पितौऽ इत्यनुदातत्वादाभ्यामित्यादि पदं कृत्स्नमेवानुदातं भवति। यद्यन्वादेशोऽनुकथनम्, इहापि प्राप्नोति - देवदतं भोजजय, इमं च यज्ञदतमिति, अस्ति ह्यत्रान्वादेशः, तत्र द्विदीयाटौस्स्वेनःऽ इत्येनादेशः प्राप्नोति? इत्यत आह - नेहेति। एकस्यैवाभिधेयस्येत्यादि। तत्रैवान्वादेशशब्दः प्रसिद्धतर इति भावः॥
Nyaas¶
आदेशः कथनम् इति। प्रथमतः प्रतिपादनम्, शब्देन। अनवादेशोऽनुकथम् इति। पश्चात्प्रतिपादनम्। तच्च यादृशमिहाभिप्रेतं तादृशं पश्चाद्वक्ष्यति। आभ्यां छात्राभ्याम् इत्यादि। आदेश एषः। अथो आभ्याम् इत्याद्यन्वादेशः एषः। अथोशब्देनात्रान्वादेश उच्यते।ननु च त्यादाद्यत्वे कृते हलि लोपे (7.2.113) चाथो आभ्यामित्यादिरूपं सिध्यत्येव, तस्मादनुदात्तमेव केवलं विधेयम्, आदेशवचनं त्वनर्थकमित्यत आह - आदेशवचनम् इत्यादि। अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) इत्यकरच्प्रत्यये कृते सत्यपि अनाप्यकः (7.2.112) इत्यधिकारादिद्रूपस्य लोपो नास्तीत्यस्तयादेशवचने रूपं न सिध्यति। ननु च हलि लोपः (7.2.113) इत्यनेन हलादाविद्रूपस्य लोपेऽनेनाजादौ यथा स्यादित्यवेवमर्थं कस्मान्न भवति? नैतदस्ति; सामर्थ्याद्धि हलादावेव भवितव्यम्, तत्र स्मैभावादिषु कृतेषु। तस्मात् साकच्कार्थमादेशवचनम्। साकच्कार्थे चास्मिन्नारब्धे शित्करणं सर्वादशार्थम्; अन्यथा ह्रलोऽन्त्स्य स्यात्। प्रयोजनाभावान्न भविष्यतीति चेत्, न; अकारस्य त्वकारवचनं दीर्घादेशनिवृत्त्य्रथं विज्ञायते। अथानुदात्तवचनं किमर्थम्, यावता ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः (6.1.171) इति विभक्तेरुदात्तत्वे कृते आनुदात्तं पदमेकवर्जम् (6.1.158) इति प्रकृतेरनुदात्तत्वं भविष्यति? नैतदस्ति; सविभक्त्यर्थमनुदात्तवचनम्, सविभक्तिकस्यानुदात्तत्वं यथा स्यात्। तेन सर्वानुदात्तमेवाभ्यामिति पदमन्वादेशे भवति। यदि पश्चादुच्चारणमात्रमन्वादेशस्तदेह कस्मान्न भवति - देवदत्तं भोजय, इमञ्च यज्ञदत्तमिति? अस्ति ह्यत्राप्यन्वादेशः, ततश्च द्वितीयाटौस्स्वेनः (2.4.34) इत्येनादेशः प्राप्नोतीत्यत आह - नेह पश्चादुच्चारणमात्रम् इत्यादि। तेनेह न भवति इति। न ह्यत्रैकस्याभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनम्, किं तर्हि? अभिधेयान्तरस्य। तथाहि पूर्वं देवदत्तस्य प्रतिपादनम्, उत्तरकालं यज्ञदत्तस्य। कथं पुनरयं विशेषो लभ्यते, यावतापश्चादुच्चारणमात्रेऽन्वादेशशब्दः प्रसिद्धः, न च सामान्यशब्दः शब्दान्तसन्निधानादिकरमन्तेरण विशेषेऽवतिष्ठते? नैष दोषः; यस्मात् विभाषा सेना (2.4.25) इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनैवंविधविषय एवान्वादेशोऽत्र ग्रहीतव्यः, नान्वादेशमात्रम्। तसमाद्विशिष्टस्यान्वादेशस्य ग्रहणं युक्तमिति भावः। यदपि च वक्ष्यति तत्र - यत्र किञ्चिद्विधाय इत्यादि, तदपीममेव न्यायं ह्मदि कृत्वेति बोद्धव्यम्॥