24016: विभाषा समीपे¶
Padacheda: विभाषा | S | 1 | 1 |
समीपे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A द्वन्द compound denoting an approximate number of concrete substances, is optionally singular.
Vasu English Translation¶
A द्वन्द compound denoting an approximate number of concrete substances, is optionally singular. As, उपदशं दन्तोष्ठ or उपदशा दन्तोष्ठाः ‘nearly ten i.e, nine or eleven sets of teeth and lips;’ उपदशं मार्दङ्गिकपाणविकम् or उपदशा मार्दङ्गिकपाणविकाः ‘nearly ten (nine or eleven) mridanga and panava players.’
An indeclinable, when compounded with a numeral, may either be a Bahuvrihi or an Avyayibhava compound. When the compound is singular in form, it is Avyayibhava, and when it takes proper number-terminations, it is Bahuvrihi compound. As, उपदशं; उपदशाः (2.2.25).
Bhashya¶
विभाषा समीपे (547) (345 एकवद्भावसूत्रम् ॥ 2.4.1 आ.10) (प्रत्याख्यानाधिकरणम्) (आक्षेपभाष्यम्) किमुदाहरणम्? (समाधानभाष्यम्) उपदशं पाणिपादम्, उपदशाः पाणिपादाः ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनमयं द्वन्द्वैकवद्भाव आरभ्यते तत्र कः प्रसङ्गो यदनुप्रयोगस्य स्यात् ॥ (प्रत्याख्यानोपसंहारभाष्यम्) एवं तर्ह्यव्ययस्य संख्ययाऽव्ययीभावोप्यारभ्यते बहुव्रीहिरपि। तद्यदा तावदेकवचनं तदाव्ययीभावोनुप्रयुज्यते एकार्थस्यैकार्थ इति। यदा बहुवचनं तदा बहुव्रीहिरनुप्रयुज्यते बह्वर्थस्य बह्वर्थ इति। विभाषा ॥ 16 ॥
Kashika¶
अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्व एकवद् भवति। उपदशं दन्तोष्ठम्, उपदशा दन्तोष्ठाः। उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः। अव्ययस्य संख्ययाव्ययीभावोऽपि विहितो बहुव्रीहिरपि, तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः॥
Siddhanta Kaumudi¶
अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदाशं दन्तोष्ठम् । उपदश दन्तोष्ठाः ॥
Balamanorama¶
विभाषा समीपे - विभाषा समीपे । ‘अधिकरणैतावत्त्वे’ इत्यनुवर्तते । ‘समीपे’ इत्यस्य सामीप्येन परिच्छिन्ने सतीत्यर्थः । फलितमाह — अधिकरणेति । उपदशं दन्तोष्ठमिति । दशानां समीपे इत्यर्थेऽव्ययीभावः । उक्तरीत्याऽसामर्थ्येऽपि वचनसामर्थ्यात्समाहारद्वन्द्वः । समानलिङ्गवचनत्वादव्ययीभावस्यैवाऽनुप्रयोग इति भाष्यम् । अत एवोपदशं दन्तोष्ठेनेत्यादि सिद्धम् । समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसङ्ख्ययदन्तोष्ठसमूहः, एकादशत्वसङ्ख्यदन्तोष्ठसमूह इति वा बोधः । उपदशा दन्तोष्ठा इति । इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः । नव एकादश वेत्यर्थः ।बहुव्रीहेरेवात्राऽनुप्रयोगः, समानलिङ्गवचनत्वा॑दिति भाष्यम् ।
Tattvabodhini¶
विभाषा समीपे - विभाषा समीपे । यद्यपीहसमाहारद्वन्द्व एवे॑ति व्याख्यानेऽपि न क्षतिस्तथापि पूर्वसूत्रे नियमनिषेधस्योक्तत्वात्तदनुरोधेनाह नियमो वा स्यादिति । उपदसं दन्तोष्ठमिति । एकवद्भावपक्षेऽव्ययीभावस्यैवानुप्रयोगः । यदि तु बहुव्रीहिस्तदाउपदशस्य दन्तोष्ठस्ये॑ति षष्ठी स्यात्,उपदशं दन्तोष्ठस्ये॑त्येवेष्यत इत्याकरः ।दन्तोष्ठस्य दश॑मित्यभिप्रायेण षष्ठआं कृतायामपि उपदशशब्देन षष्ठी नेष्यते । अतो बहुव्रीहेर्नानुप्रयोगः, किं त्वव्ययीभावस्यैवेति तदाशयः ।
Padamanjari¶
विभाषा समीपे॥ ठधिकरणैतावत्वेऽ इत्यधिकारात्समीपरूप एतस्मिन्निति गम्यते, वृतौ त्वर्थमात्रं दर्शितम्। अधिकरणैतावत्वस्य समीप इति। अत्र च भावप्रधानः समीपशब्दः, अधिकरणैतावत्वस्य सामीप्ये परिच्छितावित्यर्थः। अत्र विस्पष्ट एव नियमस्य प्रतिषेधः, न हि विभाषा समाहारद्वन्द्वः प्रतिषेध्यः। अव्ययीभावो विहित इति। ठव्ययं विभक्तिऽ इत्यादिना। यद्यप्यत्र सङ्ख्ययेति नास्ति, सङ्ख्ययापि तु भवत्येव। बहुव्रीहिरिति।’सङ्ख्ययाव्ययासन्न’ इत्यादिना। तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यत इति एकार्थस्यैकार्थ इति भावः। ऐकार्थ्यञ्च तस्य सामीप्यप्रधानत्वात्। यद्यप्यव्ययीभावोऽव्ययत्वान्निः - सङ्ख्यस्तथापि भेदाभावरूपमैकार्थ्यमस्त्येव। सामानाधिकरण्यं च सामीप्यतद्वतोरभेदाश्रयेण प्रतिपाद्यम्। अधिकरणैतावत्वमपि समाहारसमाहारिणोर्भेदाविवक्षयैवोपपाद्यम्। इतरत्र बहुव्रीहिरिति। बह्वर्थस्य बह्वर्थ इति भावः। बह्वर्थत्वं च तस्य समीपिप्रधानत्वात्। ननु द्वन्द्वार्थस्यैकवद्भावादनुप्रयोगस्याप्येकवचनता सिद्धा, किमेतया क्लिष्टकल्पनया? उच्यते - अव्ययीभावस्यैवानुप्रयोगे तस्याव्ययत्वा द्वहुत्वाभावाद् बहुवचनं न स्यात्,सत्यपि वा तस्मिन्नम्भावे कृते उपदशा इति न स्यात्। बहुव्रीहेरेव चानुप्रयोगे उपदशस्य पाणिपादस्येति षष्ठी स्याद्, उपदशम्पाणिपादस्येति चेष्यते; अतो यथोक्तमेव साधीयः॥
Nyaas¶
अधिकरणैतावत्त्वस्य प्रकृतत्वात् तदपेक्षयैव समीपत्वं विज्ञायत इत्यत आह - अधिकरणैतावत्त्वस्य समीपे इति। उपदशं दन्तौष्ठम्िति। अत्राधिकरणैतावत्त्वं दशसंख्या, तत्समीपं नवैकादश वा। तत्र दशशब्द एतावत्त्वमाचष्टे। उपशब्दः सामीप्यम्।कथं पुनद्र्वन्द्वैकवद्भावो विकल्प्यमानोऽनुप्रयोगस्य लभ्यत इत्यत आह - `अव्ययस्य इत्यादि। यद्यप्यर्थातिदेशादनुप्रयोगस्यापि विकल्पो लभ्यते, तथापि परीहारान्तरमप्यस्तीति दर्शनार्थमस्योपन्यासः। तत्राव्ययस्य संख्याया अव्ययीभावो विहितः - अव्ययं विभक्ति (2.1.6) इत्यादिना। बहुव्रीहिरपि विहितः - संख्यायाव्ययासन्न (2.2.25) इत्यादिना। अत्रैकवद्भावपक्ष एकार्थस्य द्वन्द्वस्यैकार्थ एवाव्ययीभावोऽनुप्रयुज्यते। एकार्थत्वं पुनस्तस्य सामीप्यप्रधानसत्वात्। यद्यप्यव्ययीभावोऽव्ययम्, तथाप्यभेदैकत्वं भेदाभावलक्षणं तस्यास्त्येव सामानाधिकरण्यम्। इतरत्र तु बह्वर्थस्य द्वन्द्वस्य बह्वर्थ एव बहुव्रीहिरनुप्रयुज्यते। बह्वर्थं पुनर्बहुव्रीहेः समीपिनः प्राधान्यात्। बहुव्रीहिर्हि समीपी प्रधानत्वाद्भेदसंख्यामुपादत इति बह्वर्थो भवति। उपदशम् इति। अव्ययीभावे शरत्प्रभृतिभ्यः (5.4.107) इत्यनुवर्तमाने अनश्च (5.4.108) इति टच् समासान्तः। नस्तद्धिते (6.4.144) इति टिलोपोः। उपदशाः इति। बहुव्रीहौ संख्येये डजबहुगणात्` (5.4.73) इति डच्॥
Prakriyasarvasvam¶
एतावत्त्वस्य समीपे बोध्ये एकत्वं वा स्यात् । दशासन्नं वैणिकवांशिकम्, दशासन्ना वैणिकवांशिकाः ॥