24015: अधिकरणैतावत्त्वे च¶
Padacheda: अधिकरण-एतावत्त्वे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
A द्वन्द compound denoting a fixed number (एकत्व) of concrete things (अधिकरण) is not singular.
Vasu English Translation¶
A द्वन्द compound denoting a fixed number (एकत्व) of concrete things (अधिकरण) is not singular. As, दश दन्तोष्ठाः ‘ten sets of teeth and lips’; दशमार्दङ्गिकपाणविकाः ‘ten sets of drum and panavika players.’ Compare (2.4.2).
Kashika¶
नेति वर्तते। अधिकरणं वर्त्तिपदार्थः। स हि समासस्यार्थस्याधारः। तस्यैतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो नैकवद् भवति। यथायथमेकद्भावः प्राप्तः प्रतिषिध्यते। दश दन्तोष्ठाः। दश मार्दङ्गिकपाणविकाः॥
Siddhanta Kaumudi¶
द्रव्यसङ्ख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः ॥
Balamanorama¶
अधिकरणैतावत्त्वे च - अधिकरणैतावत्त्वे च । अधिकरणं-द्रव्यं, तस्य एतावत्त्वम्-इयत्ताविशेषः । तदाह — द्रव्यसङ्ख्यावगमे इति । समस्यमानपदार्थस्येयत्ताविसेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः । नियमो नेति । ‘ब्राहृप्रजापती’ इत्यादौ समाहार एव द्वन्द्व #इति नियमस्य प्रकृतस्याऽप्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकाऽभावात्प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः । दश दन्तोष्ठा इति । दन्ताश्च ओष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयं, न तु समाहार द्वन्द्वः । समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनाऽसामर्थ्यात् । इतरेतरयोगद्वन्द्वस्तु भवत्येव, तत्र समस्यमानपदार्थानामेव प्रधानत्वात् ।उपमितं व्याघ्रादिभिः॑ इति सूत्रभाष्ये प्रदानस्य सापेक्षत्वेऽपि समासाभ्युगमात् । ततश्चात्रैकवदेवेति नियमाऽभावे सति असामर्थ्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते । यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति ‘दश दन्तोष्ठाः’ इतीतरेतरयोगद्वन्द्वो न स्यात्,द्वन्द्वश्च प्राणितूर्ये॑ति तन्निषेधात् । तताच वाक्यमेव स्यात् । किंच समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनाऽसामर्थ्यादेवऽप्राप्तेः । अत एकवदिति नियमो न स्यादित्येव व्याख्ययेम् । एवं च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्तिफलकस्याऽनेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमञ्जर्या स्पष्टम् ।
Tattvabodhini¶
अधिकरणैतावत्त्वे च - नियमो न स्यादिति । न चेह प्राण्यङ्गत्वात्प्राप्तस्यएकवदेवे॑ति नियमस्य प्रतिषेधेऽपिचार्थे द्वन्द्वः॑इति समाहारेद्वन्द्वः स्यादिति वाच्यं,सविशेषणानां वृत्तिर्ने॑त्यभ्युपगमेन समाहारेद्वन्द्वस्य प्राप्तयभावात् । न चोक्तन्यायेनेतरयोगद्वन्द्वोऽपि न स्यादिति वाच्यं,सामान्याऽप्रयोगे॑इति लिङ्गत्प्राधानस्य सापेक्षत्वेऽपि तदभ्युपदमात् । उक्तं हि भाष्ये — भवति वै प्रधानस्य सावेक्षस्यापि वृत्तिः॑इति । स्यादेतत् — समाहारद्वन्द्वस्याऽत्र प्राप्त्यभावेद्वन्द्वश्च प्राणितूर्ये॑ति नियमाऽप्रवृत्त्या इतरेतरयोगद्वन्द्वो निर्बाध एवेति सूत्रमिदमकिंचित्करमिति चेदत्राहुः — ॒नियमसूत्राणां निषेधमुखेन प्रवृत्ति॑रिति पक्षेद्वन्द्वश्च प्राणितूर्ये॑ति सूत्रं केवलमितरेतरयोगद्वन्द्वनिषेधपरम् । तथा चेतरेतरयोगनषेधस्य निषेधद्वारा इतरेतरयोगद्वन्द्वप्रापणार्थमिदमिति । एवं च निषेधमुखप्रवृत्तिपक्षस्य ज्ञापनायेदमिति फलितमिति दिक् ।
Padamanjari¶
अदिकारणैतावत्वे च॥ वृत्तिर्वर्तःउ समासः, सोऽस्यास्तीति समासावयवभूतं वर्तिपदम्, तस्यार्थोऽधिकरणमित्युच्यते, कथं पुनस्तदधिकरणमित्याह - स हीति। नियमस्य चात्र प्रतिषेधः प्राण्यङ्गादीनां समाहार एवेति नियमो वर्तिपदार्थस्येयतायां गम्यमानायां न भवतीति, न पुनः पूर्वसूत्रवत्समाहारद्वन्द्वस्य प्रतिषेधः। यद्येवम्, प्रतिषिद्धेऽपि नियमे’दश दन्तोष्ठाः’ इत्यधिकरणैतावत्वेऽपि’चाथे द्वन्द्वः’ इत्यनेन समाहारेऽर्थे द्वन्द्वः स्यादेव, ये चात्र प्रकरणेऽसंकीर्तितास्तेषु नियमस्याप्रसङ्गादसत्यस्मिन्प्रतिषेधे’चार्थे द्वन्द्वः’ इत्यनेन समाहारे द्वन्द्वः स्यादेव - दश ब्राह्मणक्षत्रिया इति, अतः प्रकृतानामन्येषां च सर्वेषामेकवचनो द्वन्द्वो न भवति, ठधिकरणैतावत्वेऽ इति समाहारद्वन्द्व एव प्रतिषेध्यः? उच्यते - ठधिकरणं वर्तिपदार्थःऽ इत्युक्तम्, न च समाहारद्वन्द्वे वतिपदार्थस्यैतावत्वं शक्यं प्रतिपादयितुम्, दशादिशब्दप्रयोगेऽपि हि तस्यैव द्वन्द्वार्थस्य समाहारस्य सङ्ख्याविशेषोऽवगम्यते, न वर्तिपदार्थस्य, यथा द्विगौ - दशपञ्चपूल्य इति। अतो वर्तिपदार्थस्य सङ्ख्याविशेषं प्रतिपिपादयिषताऽवश्यमितरेतरयोग द्वन्द्वो विधेय इति दशब्रह्माणक्षत्रिया इत्यादौ तावददोषः। यद्येवम्, अनेनैव न्यायेन’दश दन्तोष्ठः’ इत्यादावपि समाहारद्वन्द्वो न भविष्यतीति नार्थः प्रतिषेधेन? मैवम्; असत्यस्मिन्प्रतिषेधे प्राण्यङ्गादीनां समाहार एवेति नियमादितरेतरयोगद्वन्द्वो न स्यात्। न च समाहारद्वन्द्वे दशादिप्रयोगेऽपि वर्तिपदार्थस्य सङ्ख्याविशेषः प्रतिपादयितुं शक्य इति अधिकरणैतावत्वे प्रतिपिपादयिषिते द्वन्द्व एव न स्यादित्यारभ्यः प्रतिषेधः। दश दन्तोष्ठा इति। अत्र दशशब्दस्य प्रत्येकं सम्बन्धाद्वर्तिपदार्थस्येयता गम्यते, समुदायसम्बन्धेऽपि दन्तोष्ठात्मकवर्तिपदार्थगतैव सङ्ख्या॥
Nyaas¶
अधिकरणं वर्त्तिपदार्थः` इति। वर्तन वर्त्तः = समासः। भावे घञ्। वर्तोऽस्यास्तीति वर्ति = समासावयवभुतम। वर्त्तिश्च तत् पदञ्चेति वर्त्तिपदं तस्य पदस्यार्थोऽधिकरणमित्युच्यते। कथं पुनस्तस्याधिकरणत्वामित्यत आह - स हि इत्यादि। आधारो ह्रधिकरणम्। वर्त्तिपदार्थश्च समासार्थस्याधारो भवति; तत्र तस्य समवायात्। वर्त्तिपदार्थैह्र्रवयवैरवयवी समासार्थ आरभ्यते, अवयवी चावयवेषु कसमवैति। तस्य ` इति। वर्त्तिपदार्थस्य। `दश {इमे नास्ति - काशिका, पदमञ्जरी च} इमे दन्तौष्ठाः} इति। द्वन्द्वश्च (2.4.2) इत्यादिना प्राप्तिः॥
Prakriyasarvasvam¶
द्रव्यस्यैतावत्त्वे बोध्ये तु प्राण्यङ्गादीनामप्येकत्वं न स्यात् । राक्षसपते- स्त्रिंशच्छिरोबाहवः ॥
Sutra Prayogas¶
सर्वर्तु-सुखामयोध्या- (भट्टिकाव्यम्): अधिकरणैतावच्चे च तदशिष्यं संज्ञाप्रमाणत्वात् ।