24016: विभाषा समीपे =================== **Padacheda:** विभाषा | S | 1 | 1 | समीपे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A द्वन्द compound denoting an approximate number of concrete substances, is optionally singular. Vasu English Translation ------------------------ A द्वन्द compound denoting an approximate number of concrete substances, is optionally singular. As, उपदशं दन्तोष्ठ or उपदशा दन्तोष्ठाः 'nearly ten i.e, nine or eleven sets of teeth and lips;' उपदशं मार्दङ्गिकपाणविकम् or उपदशा मार्दङ्गिकपाणविकाः 'nearly ten (nine or eleven) *mridanga* and *panava* players.' An indeclinable, when compounded with a numeral, may either be a *Bahuvrihi* or an *Avyayibhava* compound. When the compound is singular in form, it is *Avyayibhava*, and when it takes proper number-terminations, it is *Bahuvrihi* compound. As, उपदशं; उपदशाः (2.2.25). Bhashya ------- विभाषा समीपे (547) (345 एकवद्भावसूत्रम् ॥ 2.4.1 आ.10) (प्रत्याख्यानाधिकरणम्) (आक्षेपभाष्यम्) किमुदाहरणम्? (समाधानभाष्यम्) उपदशं पाणिपादम्, उपदशाः पाणिपादाः ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनमयं द्वन्द्वैकवद्भाव आरभ्यते तत्र कः प्रसङ्गो यदनुप्रयोगस्य स्यात् ॥ (प्रत्याख्यानोपसंहारभाष्यम्) एवं तर्ह्यव्ययस्य संख्ययाऽव्ययीभावोप्यारभ्यते बहुव्रीहिरपि। तद्यदा तावदेकवचनं तदाव्ययीभावोनुप्रयुज्यते एकार्थस्यैकार्थ इति। यदा बहुवचनं तदा बहुव्रीहिरनुप्रयुज्यते बह्वर्थस्य बह्वर्थ इति। विभाषा ॥ 16 ॥ Kashika ------- अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्व एकवद् भवति। उपदशं दन्तोष्ठम्, उपदशा दन्तोष्ठाः। उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः। अव्ययस्य संख्ययाव्ययीभावोऽपि विहितो बहुव्रीहिरपि, तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः॥ Siddhanta Kaumudi ----------------- अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदाशं दन्तोष्ठम् । उपदश दन्तोष्ठाः ॥ Balamanorama ------------ **विभाषा समीपे** - विभाषा समीपे । 'अधिकरणैतावत्त्वे' इत्यनुवर्तते । 'समीपे' इत्यस्य सामीप्येन परिच्छिन्ने सतीत्यर्थः । फलितमाह — अधिकरणेति । उपदशं दन्तोष्ठमिति । दशानां समीपे इत्यर्थेऽव्ययीभावः । उक्तरीत्याऽसामर्थ्येऽपि वचनसामर्थ्यात्समाहारद्वन्द्वः । समानलिङ्गवचनत्वादव्ययीभावस्यैवाऽनुप्रयोग इति भाष्यम् । अत एवोपदशं दन्तोष्ठेनेत्यादि सिद्धम् । समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसङ्ख्ययदन्तोष्ठसमूहः, एकादशत्वसङ्ख्यदन्तोष्ठसमूह इति वा बोधः । उपदशा दन्तोष्ठा इति । इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः । नव एकादश वेत्यर्थः ।बहुव्रीहेरेवात्राऽनुप्रयोगः, समानलिङ्गवचनत्वा॑दिति भाष्यम् । Tattvabodhini ------------- **विभाषा समीपे** - विभाषा समीपे । यद्यपीहसमाहारद्वन्द्व एवे॑ति व्याख्यानेऽपि न क्षतिस्तथापि पूर्वसूत्रे नियमनिषेधस्योक्तत्वात्तदनुरोधेनाह नियमो वा स्यादिति । उपदसं दन्तोष्ठमिति । एकवद्भावपक्षेऽव्ययीभावस्यैवानुप्रयोगः । यदि तु बहुव्रीहिस्तदाउपदशस्य दन्तोष्ठस्ये॑ति षष्ठी स्यात्,उपदशं दन्तोष्ठस्ये॑त्येवेष्यत इत्याकरः ।दन्तोष्ठस्य दश॑मित्यभिप्रायेण षष्ठआं कृतायामपि उपदशशब्देन षष्ठी नेष्यते । अतो बहुव्रीहेर्नानुप्रयोगः, किं त्वव्ययीभावस्यैवेति तदाशयः । Padamanjari ----------- विभाषा समीपे॥ ठधिकरणैतावत्वेऽ इत्यधिकारात्समीपरूप एतस्मिन्निति गम्यते, वृतौ त्वर्थमात्रं दर्शितम्। अधिकरणैतावत्वस्य समीप इति। अत्र च भावप्रधानः समीपशब्दः, अधिकरणैतावत्वस्य सामीप्ये परिच्छितावित्यर्थः। अत्र विस्पष्ट एव नियमस्य प्रतिषेधः, न हि विभाषा समाहारद्वन्द्वः प्रतिषेध्यः। अव्ययीभावो विहित इति। ठव्ययं विभक्तिऽ इत्यादिना। यद्यप्यत्र सङ्ख्ययेति नास्ति, सङ्ख्ययापि तु भवत्येव। बहुव्रीहिरिति।'सङ्ख्ययाव्ययासन्न' इत्यादिना। तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यत इति एकार्थस्यैकार्थ इति भावः। ऐकार्थ्यञ्च तस्य सामीप्यप्रधानत्वात्। यद्यप्यव्ययीभावोऽव्ययत्वान्निः - सङ्ख्यस्तथापि भेदाभावरूपमैकार्थ्यमस्त्येव। सामानाधिकरण्यं च सामीप्यतद्वतोरभेदाश्रयेण प्रतिपाद्यम्। अधिकरणैतावत्वमपि समाहारसमाहारिणोर्भेदाविवक्षयैवोपपाद्यम्। इतरत्र बहुव्रीहिरिति। बह्वर्थस्य बह्वर्थ इति भावः। बह्वर्थत्वं च तस्य समीपिप्रधानत्वात्। ननु द्वन्द्वार्थस्यैकवद्भावादनुप्रयोगस्याप्येकवचनता सिद्धा, किमेतया क्लिष्टकल्पनया? उच्यते - अव्ययीभावस्यैवानुप्रयोगे तस्याव्ययत्वा द्वहुत्वाभावाद् बहुवचनं न स्यात्,सत्यपि वा तस्मिन्नम्भावे कृते उपदशा इति न स्यात्। बहुव्रीहेरेव चानुप्रयोगे उपदशस्य पाणिपादस्येति षष्ठी स्याद्, उपदशम्पाणिपादस्येति चेष्यते; अतो यथोक्तमेव साधीयः॥ Nyaas ----- अधिकरणैतावत्त्वस्य प्रकृतत्वात् तदपेक्षयैव समीपत्वं विज्ञायत इत्यत आह - `अधिकरणैतावत्त्वस्य समीपे` इति। `उपदशं दन्तौष्ठम्िति। अत्राधिकरणैतावत्त्वं दशसंख्या, तत्समीपं नवैकादश वा। तत्र दशशब्द एतावत्त्वमाचष्टे। उपशब्दः सामीप्यम्।कथं पुनद्र्वन्द्वैकवद्भावो विकल्प्यमानोऽनुप्रयोगस्य लभ्यत इत्यत आह - `अव्ययस्य` इत्यादि। यद्यप्यर्थातिदेशादनुप्रयोगस्यापि विकल्पो लभ्यते, तथापि परीहारान्तरमप्यस्तीति दर्शनार्थमस्योपन्यासः। तत्राव्ययस्य संख्याया अव्ययीभावो विहितः - `अव्ययं विभक्ति` (2.1.6) इत्यादिना। बहुव्रीहिरपि विहितः - `संख्यायाव्ययासन्न` (2.2.25) इत्यादिना। अत्रैकवद्भावपक्ष एकार्थस्य द्वन्द्वस्यैकार्थ एवाव्ययीभावोऽनुप्रयुज्यते। एकार्थत्वं पुनस्तस्य सामीप्यप्रधानसत्वात्। यद्यप्यव्ययीभावोऽव्ययम्, तथाप्यभेदैकत्वं भेदाभावलक्षणं तस्यास्त्येव सामानाधिकरण्यम्। इतरत्र तु बह्वर्थस्य द्वन्द्वस्य बह्वर्थ एव बहुव्रीहिरनुप्रयुज्यते। बह्वर्थं पुनर्बहुव्रीहेः समीपिनः प्राधान्यात्। बहुव्रीहिर्हि समीपी प्रधानत्वाद्भेदसंख्यामुपादत इति बह्वर्थो भवति। `उपदशम्` इति। **अव्ययीभावे शरत्प्रभृतिभ्यः** (5.4.107) इत्यनुवर्तमाने `अनश्च` (5.4.108) इति टच् समासान्तः। **नस्तद्धिते** (6.4.144) इति टिलोपोः। `उपदशाः` इति। बहुव्रीहौ संख्येये डजबहुगणात्` (5.4.73) इति डच्॥ Prakriyasarvasvam ----------------- एतावत्त्वस्य समीपे बोध्ये एकत्वं वा स्यात् । दशासन्नं वैणिकवांशिकम्, दशासन्ना वैणिकवांशिकाः ॥