24014: न दधिपयआदीनि¶
Padacheda: न | S | 0 | 0 |
दधि-पय-आदीनि | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
The द्वन्द compounds like दधिपय etc. are not singular.
Vasu English Translation¶
The द्वन्द compounds like दधिपय etc. are not singular. Thus दधिपयसी ‘the curd and the milk’; सर्पिर्मधुनी or मधुसर्पिषी ‘the clarified butter and the honey.’
With this sutra begins prohibition of singular number which previous sutras would have caused.
The following is a list of such compounds:–
दधिपयसी. 2. सर्पिर्मधुनी or मधुसर्पिषी. 3. ब्रह्मप्रजापती. 4. शिववैश्रवणौ. 5. स्कन्दविशाखौ. 6. परिव्राट्कौशिकौ. 7. प्रवर्ग्योपसदौ. 8. शुक्लकृष्णौ 9. इध्माबर्हिषी ॥ निपातनाद्धीर्घः ॥ 10. दीक्षातपसी. 11. श्रद्धातपसी. 12. मेधातपसी. 13. अध्ययनतपसी. 14. उलूखलमुसले. 15. आद्यावसाने. 16 श्रद्धामेधे. 17. ऋक्सामे. 18. वाङ्मनसे.
Kashika¶
यथायथमेकवद्भावे प्राप्ते प्रतिषेध आरभ्यते। दधिपयआदीनि शब्दरूपाणि नैकवद् भवन्ति। दधिपयसी। सर्पिर्मधुनी। मधुसर्पिषी। ब्रह्मप्रजापती। शिववैश्रवणौ। स्कन्दविशाखौ। परिव्राट्कौशिकौ। प्रवर्ग्योपसदौ। शुक्लकृष्णौ। इध्माबर्हिषी। निपातनाद् दीर्घः। दीक्षातपसी। श्रद्धातपसी। मेधातपसी अध्ययनतपसी। उलूखलमुसले। आद्यावसाने। श्रद्धामेधे। ऋक्सामे। वाङ्मनसे॥
Siddhanta Kaumudi¶
एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ॥
Balamanorama¶
न दधिपयआदीनि - न दधिपयाअदीनि । नैकवत्स्युरिति । एषां समाहारद्वन्द्वो नास्तीत्यर्थः । दधिपयसी इति । दधि च पयश्चेति विग्रहः ।जातिरप्राणिना॑मिति नित्यमेकवत्त्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वात्वाद्विकल्पः प्राप्तः, सोऽपि न भवति । इध्माबर्हिषी इति । इध्मं च बर्हिश्चेति विग्रहः । दीर्घ इति ।इध्मशब्दस्ये॑ति शेषः । ऋक्सामे इति । ऋक्च साम चेति विग्रहः ।अचतुरे॑त्यादिनाऽच्समासान्तः । वाङ्मनसे इति । वाक्च मनश्चेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणेब्राहृप्रजापती॑इत्यादि पठितम् ।समाहारद्वन्द्व एवे॑ति नियमप्रकरमेपि नानेन नियमस्यैव निषेधः, ‘ब्राहृप्रजापती’ इत्यादौ नियमस्याऽप्राप्तेः । किंत्वेकवत्त्वस्यैव । तथाच ‘चार्थे’ इति समाहारद्वन्द्वस्य निषेधः फलति ।
Tattvabodhini¶
न दधिपयआदीनि - न दधिपय । दधिपयसी इति । व्याञ्जनत्वाद्विकल्पः प्राप्तः । एवंमधुसर्पिषी,सर्पिर्मधुनी॑इत्यत्रापि बोध्यम् । इहब्राआहृ प्रजापती॑शिववैश्रबणौ॑इत्यादौ समाहारद्वन्द्वनिषेधमुखेनेतरेतरयोगद्वन्द्वोऽनेन व्यावस्थाप्यते । तत्साहचर्याद्दधिपयसी इत्यादवपि ततैव । तेन तत्र व्यञ्जनत्वप्रयुक्तविकल्पे निषिद्धेऽपि जातिलक्षणो नित्यमेकवद्भावोऽस्त्विति न शङ्कनीयम् । किं च नेह लक्षणविशेषे आग्रहः,एतानि नैकत्स्युः॑इत्येकवद्भावमात्रस्य निषेधात्, यथान षट्स्वरुआआदिभ्यः॑इत्यत्र ङीप्टापोरुभयोरपि निषेधसिद्धयेस्त्रियां यदुक्तं तन्ने॑ति सामान्यतो निषिध्यते इति दिक् । ऋक्सामेवाङ्मनसे इति ।अचतुरे॑त्यादिनाऽत्र समासान्तोऽच्निपात्यते । अधिकरणै । समासार्थस्याश्रयोऽधिकरणं=वर्तिपदार्थः, तस्यैतावत्त्वं =परिगणननियमः, तस्मिन्गन्यमान इति व्याचष्टे — द्रव्यसङ्ख्यावगमे इति ।
Padamanjari¶
न दधिपय आदीनि॥ यथायथमिति। व्यञ्जनत्वाद्विकल्पस्य प्राप्तिस्तत्रादितिस्त्रिषु, पूर्वसूत्रविकल्पस्य शुक्लकृष्णाविति, न त्विह। यद्येवम्, प्रतिषिद्धेऽस्मिन्विकल्पे जातिलक्षणो नित्यः स्यादेकवद्भावः? परिहारोऽत्र वक्ष्यते - स्त्रियां यदुक्तं तन्नेति। यथा षट्स्वभिधास्यते तथात्राप्येकवद्भावमात्रमेव निषिध्यते । किं च, ब्रह्मप्रजापत्यादिष्वत्र पठितेषु समाहारद्वन्द्वनिषेधमुखेनेतरेतयोगद्वन्द्वो व्यवस्थाप्यते, तत्साहचर्यादेतेष्वपि चतुर्षु तदेव युक्तम्॥
Nyaas¶
यथायथम् इति। यथास्वं यस्य यदात्मीयं लक्षणं तेनेत्यर्थः। तत्र दधिपयसी इत्यादीनां त्रयाणां व्यञ्जनवाचित्वाद्विभाषैकवद्भावप्राप्तिः। ननु च सर्पिर्मधुनी, मधुसर्पिषी इति राजदन्तादिष्वनयोर्निपातनादेवैकवद्भावो न भविष्यति? नैतदस्ति; पाक्षिको हि व्यञ्जनैकवद्भावः। तत्र यस्मिन् पक्षे स नास्ति तस्मिन्निपातनं पूर्वनिपात्व्यभिचारार्थं स्यात्। इतरस्मिन्नपि पक्ष एकवद्भावनिषेधार्थोऽत्र पाठः। यद्येवम्, अनेनैव सिद्धत्वाद्राजदन्तादिषु पाठोऽनर्थकः स्यात्? नानर्थकः; बहुवचनार्थत्वात्। सर्पिर्मधुनी, मधुसर्पिषी इति। ननु तत्रापि द्ववचनान्तावेव पठएते? यद्यप्येवम्, तथापि शब्दाश्रयत्वात् परनिपातस्यार्थधर्मत्वाद्द्वित्वं नापेक्ष्यते। अर्थाश्रयस्त्वेकवद्भाव इति तत्प्रषेधे युज्यते संख्यां विवक्षितुम्। ब्राहृप्रजापती इत्यादीनां पञ्चानां समाहारैकत्वात् प्राप्तिः। शुक्लकृष्णौ इति। विप्रतिषिद्धं चानधिकरणवाचि (2.4.13) इत्यादिना। इध्माबार्हिषी इत्यादीनां समाहारैकत्वात् प्राप्तिः॥
Prakriyasarvasvam¶
<karika>एतानि नैकवत् स्युः । दधिपयसी अपि सर्पिर्मधुनी मधुसर्पिषी उलूखलमुसले । ऋक्सामे वाङ्मनसे पुनरिध्माबर्हिषी प्रवर्ग्योपसदौ ॥ ४०५ ॥</karika> <karika>स्कन्दविशाखौ द्वौ स्तः शिववैश्रवणौ च शुक्लकृष्णौ च । श्रद्धादीक्षाध्ययनश्रुतैः पृथक् संयुतस्तपश्शब्दः ॥ ४०६ ॥</karika> <karika>ब्रह्मप्रजापती याज्यानुवाक्ये हरिवासवौ । तथैवाद्यवसाने च श्रद्धामेधे इतीदृशाः ॥ ४०७ ॥</karika> गणे निपातनादिध्मस्य दीर्घः ॥