24013: विप्रतिषिद्धं चानधिकरणवाचि

Padacheda: विप्रतिषिद्धम् | S | 1 | 1 |

च | S | 0 | 0 |

अनधिकरणवाचि | S | 1 | 1 |

Sutrartha


Vasu English Summary

A द्वन्द compound of words of contrary significations, but not being the names of concrete substances.

Vasu English Translation

A द्वन्द compound of words of contrary significations, but not being the names of concrete substances. Thus शीतोष्णम् or शीतोष्णे ‘cold and heat’; सुखदुःखं or सुखदुःखे ‘pleasure and pain’; जीवितनरकं or जीवितनरके ‘life and death.’

The word विप्रतिषिद्धं means words of contrary significations, च indicates the anuvritti of the word ‘optionally’ from the last sutra.

Why do we say ‘of contrary significations’? Observe, कामक्रोधौ ‘lust and anger,’ which are not of contrary significations.

Why do we say ‘not being the names of substances’? Observe शीतोष्णे उदके ‘cold and warm waters,’ which denote substances.

Kashika

परस्परविरुद्धं विप्रतिषिद्धम्। विप्रतिषिद्धार्थानां शब्दानामनधिकरणवाचिना — मद्रव्यवाचिनां द्वन्द्व एकवद् भवति। विभाषानुकर्षणार्थश्चकारः। शीतोष्णम्, शीतोष्णे। सुखदुःखम्, सुखदुःखे। जीवितमरणम्, जीवितमरणे। विप्रतिषिद्धमिति किम्? कामक्रोधौ। अनधिकरणवाचीति किम्? शीतोष्णे उदके॥

Siddhanta Kaumudi

विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् । शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः चार्थे (SK901) इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ॥

Balamanorama

विप्रतिषिद्धं चानधिकरणवाचि - विप्रतिषिद्धं च ।विभाषे॑त्यनुवर्तते । विप्रतिषेधो विरोधः, सहानवस्थानलक्षणः । अधिकरणं-द्रव्यम् । अद्रव्यवाचि विरुद्धार्थकं च यदनेकं सुबन्तं तदवयवको द्वन्द्वो विभाषैकवद्भावक इत्यर्थः । फलितमाह — विरुद्धार्थानामिति । गोत्वाआत्वम् । गोत्वाआत्वे । सुखदुःखं सुखदुःखे इत्याद्युदाहरणम् । ननु ‘चार्थे’ इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवत्त्वविकल्पसिद्धेरिदं व्यर्थम् । नचजातिरप्राणिना॑मिति नित्यं प्राप्तं विकल्पार्थमिति वाच्यं, जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्व एव तत्प्रवृत्तेरित्यत आह — वकल्पिक इत्यादि, नियमार्थमिदमित्यन्तम् । तेनेति । उक्तनियमेनेत्यर्थः । शीतोष्णे उदके स्त इति । अत्र विरुद्धार्थकत्वेऽपि द्रव्यवाचित्वान्न समाहारद्वन्द्व इति भावः । नन्दकपाञ्चजन्यमिति । विष्णोः कङ्गो नन्दकः, शङ्खस्तु पाञ्चजन्यः, तयोरेकत्र विष्णौसहावस्थानान् विरुद्धत्वमिति स्थितिः । इह विप्रतिषिद्धग्रहणाऽभावे ‘चार्थे’ इति समाहारद्वन्द्वोऽद्रव्यवाचिनामेवेति नियमो लभ्येत । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिनामेवे॑ति नियमो लभ्यते । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिष्वेव नियमितत्वात् ।विप्रतिषिद्ध॑मित्युक्तौ तुविरुद्धार्थानां समाहारद्वन्द्वश्चेत्तर्हि अद्रव्यवाचिनामेवे॑ति नियमो लभ्यते । नन्दकपाञ्चजन्ययोश्चाऽविरुद्धत्वादयं नियमो न प्रवर्तते । ततश्च द्रव्यवाचित्वेऽपि ‘चार्थे’ इति रदाचित्समाहारद्वन्द्वः, कदाचिदितरयोगद्वन्द्वश्च भवत्येव । तदाह — इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति ।

Tattvabodhini

विप्रतिषिद्धं चानधिकरणवाचि - विप्रतिषिद्धम् । अधिकरणमिह द्रव्यम् । चकारो विभाषानुकर्षणार्थः । तदेतव्द्याचष्टे विरुद्धार्थानामित्यादि । उदजाहरणं तु -शीताष्णं, शीतोष्णे, सुखदुःखं, सुखदुःखे इत्यादि । विरोधोऽत्र सहानवस्थानलक्षणः । भवत्येवेति । विप्रतिषिद्धग्रहण #आऽभावे तु स न स्यात्,अद्रव्यवाचिनामेवे॑ति नियमादिति भावः । अनधिकरणवाचीति किम् । शीतोष्णे उदके स्तः । इह पाक्षिकः समाहारद्वन्द्वोऽपि स्यादिति दिक् ।

Padamanjari

विप्रतिषिद्धं चानधिकरणवाचि॥ पस्परविरुद्धमिति। सहानवस्थानादिलक्षणो विरोधः,’विप्रतिषिद्धानाम्’ इत्यादिसूत्रे तु तद्वाच्यवयवत्वाद् द्वन्द्वरूपमेव तथोक्तमिति भावः। अद्रव्यवाचिनामिति। एतेनाधिकरणशब्दो द्रव्ये वर्तते, नाधार इति दर्शयति। न हि द्वन्द्वावयवानामाधारे वृत्तिः सम्भवति; विभक्त्यर्थत्वादाधारस्येति भावः। अयमपि नियमार्थः प्रारम्भ; नियमस्वरूपं च - य एकवचनो द्वन्दो विभाषाप्राप्तः स यदि विप्रतिषिद्धवाचिनां भवत्यद्रव्यवाचिनामेव, द्रव्यवाचिनां त्वितरेतरयोग इति॥

Nyaas

अद्रव्यवाचिनाम् इति। एतेनाधिकरणशब्दोऽत्र द्रव्ये वर्तते नाधार इति दर्शयति। न हि विप्रतिषिद्धवाचिनां शब्दानामाधारे वृत्तिरस्तिः; विभक्त्यर्थत्वादाधारशक्तेः। शीतोष्णे इति। शीतोष्णयोः सहानवस्थानलक्षणेनैव विरोधेन विरुद्धत्वाद्विप्रतिषिद्धवाचित्वम्। तथा सुखदुःखयोरपि॥कामक्रोधौ इति। क्रुद्धोऽपि काममाचरतीति नानयोर्विप्रतिषिद्धत्वम्॥

Prakriyasarvasvam

अद्रव्यवाचिनां विरुद्धवस्तूनां द्वन्द्वो वैकवत् स्यात् । शीतोष्णम्, शीतोष्णे । अविरुद्धे तु—कामक्रोधौ । द्रव्ये तु—शीतोष्णे तोये । सर्वोऽपि द्वन्द्वः समाहारार्थ एकवत् । अन्यत्र नेति ज्ञेयम् ॥

Sutra Prayogas

  • गतागतं (शिशुपालवधम्): विप्रतिषिद्धं चानधिकरणवाचि इति वैभाषिको द्वन्द्वैकवद्भावः।

  • बलाबलं (शिशुपालवधम्): विप्रतिषिद्धं चानधिकरणवाचि इति विकल्पाद् द्वन्द्वैकवद्भावः।