24012: विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्

Padacheda: विभाषा | S | 1 | 1 |

वृक्ष-मृग-तृण-धान्य-व्यञ्जन-पशु-शकुनि-अश्व-वडव-पूर्व-अपर-अधर-उत्तराणाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

A द्वन्द compound of words being the names of trees, wild animals, grass, corn, condiment, domestic beasts and birds and the compounds अश्व-वडव , पूर्व-पर and अधरोत्तर , are optionally singular.

Vasu English Translation

A द्वन्द compound of words being the names of trees, wild animals, grass, corn, condiment, domestic beasts and birds and the compounds अश्व-वडव , पूर्व-पर and अधरोत्तर , are optionally singular. Thus, प्लक्षन्यग्रोधम् or प्लक्षन्यग्रोधाः ‘the Plaksha and the Nyagrodha trees’; रुरुपृषतम् or रुरुपृषताः ‘the *Ruru-deer and the spotted antelopes’, कुशकाशम् or कुशकाशाः ‘the Kusa grass and the Kasa grass’; व्रीहियवम् or व्रीहियवाः ‘the rice and the barley’ दधिघृतम् or ते ‘the curd and the butter’ गोमहिषम् or षाः ‘the cow and the buffalo’; तित्तिरकपिञ्जलम् or लाः ‘the Tittiri (a kind of partridge) and the Kapinjala birds’; अश्ववडवम् or वाः ‘the horse and the mare’; पूर्वापरम् or रे ‘the first and the last’; अधरोत्तरम् or रे ‘the upper and lower.’

Vart:- The Dvandva compound of words denoting names of fruits, army, large trees, wild animals, birds, small animals grain and grass, is singular, when a large number or quantity of these is spoken of; that is when a large number of them is taken collectively, the compound is singular, otherwise not; as, बदरामलके तिष्ठतः ‘a badari and an amalaki fruit are here’; रथिकाश्वारोहौ ‘a charioteer and a horseman’; प्लक्षन्यग्रोधौ ‘a Plaksha and a Nyagrodha tree’; रुरुपृषतौ ‘a Ruru and a Prishata deer’; हंसचक्रवाकौ ‘a Hansa and a Chakravaka bird’; यूकालिक्षे ‘a louse and nit’, व्रीहियवौ ‘a brihi and yava grain’; कुशकाशौ ‘the kusa and *kasa_ grass.’

Bhashya

विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् (543) (344 एकवद्भावसूत्रम् ॥ 2.4.1 आ.9) (नियमाधिकरणम्) (1568 नियमवार्तिकम् ॥ 1 ॥) - बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् - (भाष्यम्) फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां द्वन्द्वः विभाषा एकवद्भवति बहुप्रकृतिरिति वक्तव्यम् ॥ फल - बदरामलकम्। बदरामलकानि ॥ सेना - हरत्यश्वत्थम् । हरत्यश्वाः ॥ वनस्पति - प्लक्षन्यग्रोधम्। प्लक्षन्यग्रोधाः ॥ मृग - रुरुपृषतम्। रुरुपृषताः ॥ शकुनि - हंसचक्रवाकम्। हंसचक्रवाकाः ॥ क्षुद्रजन्तु - यूकालिक्षम्। यूकालिक्षाः ॥ धान्य - व्रीहियवम्। व्रीहियवाः। माषतिलम्। माषतिलाः ॥ तृण - कुशकाशम्। कुशकाशाः। शशरीर्षम् प्र् शरशीर्षाः ॥ किं प्रयोजनम्? बहुप्रकृतिरेव यस्तत्र यथा स्यात् ॥ क्व माभूत्? बदरामलके तिष्ठतः ॥ (आक्षेपभाष्यम्) किं पुनरनेन या प्राप्तिः सा नियम्यते, आहोस्विद् - अविशेषेण? (भाष्यम्) किञ्ञ्चातः? (प्रथमपक्षदूषणभाष्यम्) यद्यनेन या प्राप्तिः सा नियम्यते, प्लक्षन्यग्रोधौ जातिरप्राणिनाम् इति नित्यो द्वन्द्वैकवद्भावः प्राप्नोति ॥ अथाविशेषेण, न दोषो भवति ॥ (द्वितीयपक्षाभ्युपगमभाष्यम्) यथा न दोषस्तथास्तु प्र्प्र् (1569 पूर्वविप्रतिषेधवार्तिकम् ॥ 2 ॥) - पशुशकुनिद्वन्द्वे विरोधिनां पूर्वविप्रतिषिद्धम् - (भाष्यम्) पशुशकुनिद्वन्द्वे विरोधिनां येषां च विरोधः शाश्वतिकः इत्येतद्भवति पूर्वविप्रतिषेधेन। पशुशकुनिद्वन्द्वस्यावकाशः - महाजोरभ्रम्। महाजोरभ्राः। हंसचक्रवाकम्। हंसचक्रवाकाः ॥ येषां च विरोधः शाश्वतिकः इत्यस्यावकाशः - श्रमणब्राह्मणम् ॥ इहोभयं प्राप्नोति - काकोलूकं श्वशृगालमिति। येषां च विरोधः शाश्वतिकः इत्येतद्भवति पूर्वविप्रतिषेधेन ॥ (आक्षेपभाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः? (समाधानभाष्यम्) न वक्तव्यः। उक्तं चकारकरणस्य प्रयोजनम् - येषां च विरोधः शाश्वतिकस्तेषां द्वन्द्व एकवचनमेव यथा स्याद् यदन्यत्प्राप्नोति तन्मा भूदिति ॥ (1470 पूर्वप्रतिषेधवार्तिकम् ॥ 3 ॥ - अश्ववडवयोः पूर्वलिङ्गत्वात्पशुद्वन्द्वनपुंसकम् - (भाष्यम्) अश्ववडवयोः पूर्वलिङ्गत्वात्पशुद्वन्द्वनपुंसकं भवति पूर्वविप्रतिषेधेन ॥ अश्ववडवयोः पूर्वलिङ्गत्वस्यावकाशः - विभाषा पशुद्वन्द्वनपुंसकम्, यदा न पशुद्वन्द्वनपुंसकं सोवकाशः - अश्ववडवौ ॥ पशुद्वन्द्वनपुंसकस्यावकाशः - अन्ये पशुद्वन्द्वाः - महाजोरभ्रं महाजोरभ्राः ॥ पशुद्वन्द्वनपुंसकप्रसङ्ग उभयं प्राप्नोति - अश्ववडवम् पशुद्वन्द्वनपुंसकं भवति पूर्वविप्रतिषेधेन ॥ (आक्षेपभाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः? (समाधानभाष्यम्) न वक्तव्यः ॥ (1571 समाधानहेतुवार्तिकम् ॥ 4 ॥) - प्रतिपदविधानात्सिद्धम् - (भाष्यम्) प्रतिपदमत्र नपुंसकं विधीयते - अश्ववडवपूर्वापर - इति ॥ (1572 प्रत्याख्यानवार्तिकम् ॥ 5 ॥) - एकवचनमनर्थकं समाहारैकत्वात् - (भाष्यम्) एकवद्भावोऽनर्थकः ॥ किं कारणम्? समाहारैकत्वात्। एकोयमर्थः समाहारो नाम तस्यैकत्वादेकवचनं भविष्यति ॥ (प्रत्याख्यानबाधकभाष्यम्) इदं तर्हि प्रयोजनम् - एवं विज्ञास्यामि - इह नित्यो विधिः, इह विभाषेति ॥ (प्रत्याख्यानसाधकभाष्यम्) नैतदस्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति - सर्वो द्वन्द्वो विभाषैकवद्भवतीति। यदयं तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् इत्याह ॥ (प्रत्याख्यानबाधकभाष्यम्) इदं तर्हि प्रयोजनम् - स नपुंसकम् इति वक्ष्यामीति ॥ (प्रत्याख्यानसाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य ॥ (आक्षेपभाष्यम्) न तर्हीदानीमिदं वक्तव्यम्? (समाधानभाष्यम्) वक्तव्यं च। किं प्रयोजनम्? पूर्वत्र नित्यार्थम्, उत्तरत्र व्यभिचारार्थं विभाषा वृक्षमृग इति ॥ विभाषा वृदृ ॥ 12 ॥

Kashika

वृक्ष मृग तृण धान्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्येतेषां द्वन्द्वो विभाषैकवद् भवति। प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः। रुरुपृषतम्, रुरुपृषताः। कुशकाशम्, कुशकाशाः। व्रीहियवम्, व्रीहियवाः। दधिघृतम्, दधिघृते। गोमहिषम्, गोमहिषाः। तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः। अश्ववडवम्, अश्ववडवौ। पूर्वापरम्, पूर्वापरे। अधरोत्तरम्, अधरोत्तरे॥ बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम्॥ एषां बहुप्रकृतिरेव द्वन्द्व एकवद् भवति, न द्विप्रकृतिः। बदरामलके। रथिकाश्वारोहौ। प्लक्षन्यग्रोधौ। रुरुपृषतो। हंसचक्रवाकौ। यूकालिक्षे। व्रीहियवौ। कुशकाशौ॥

Siddhanta Kaumudi

वृक्षादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा । वृक्षादौ विशेषाणामेव ग्रहणम् ॥ प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकबकम् । शुकबकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ।<!फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् !> (वार्तिकम्) ॥ बदराणि चामलकानि च बदरामलकम् । जातिरप्राणिनाम् (SK910) इत्येकवद्भावः । नेह । बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधावित्यादि । विभाषावृक्ष - (SK916) इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं जातिरप्राणिनाम् (SK910) इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते । मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एव इति नियमार्थ मृगाकृनिग्रहणम् । एवं पूर्वापरमधरोत्तरमित्यपि । अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् पूर्ववदश्ववडवौ (SK813) इति स्यात् ॥

Balamanorama

विभाषा वृक्षमृगतृणधान्यव्यञ्जन- पशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् - विभाषा वक्ष । द्वन्द्व॑ इत्यनुवृत्तम् । एकापि षष्ठी विषयभेदाद्भिद्यते । वृक्षादिसप्तानामवयवत्वेनान्वयः — वृक्षादीनां द्वन्द्व॑ इति । वृक्षाद्यवयवको द्वन्द्व इति लभ्यते । अआबहबादियुगलत्रयस्य त्वभेदेनान्वयः-॒अआवडव॑, ‘पूर्वापर,’अधरोत्तरे॑त्यात्मको द्वन्द्व॑ इति । तदाह — वृक्षादीनामिति । प्राग्वदिति । विकल्पेन एकवदित्यर्थः । वृक्षादाविति । वृक्षविशेषवाचिनां, तृणविशेषवाचिनां, धान्यविसेषवाचिनां पशिविशेषवाचिनां चेत्यर्थः ।स्वं रूप॑मिति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः । तथा च वृक्षाश्च धवाश्चेत्यादौ नायं विधिरिति फलितम् । किं तुजातिरप्राणिना॑मिति नित्यमेवैकवत्त्वम् । तत्र वृक्षाद्यवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्वमुदाहरति — प्लक्षेति । प्लक्षाश्च न्यग्रोधाश्चेति विग्रहः । मृगद्वन्द्वमुदाहरति — रुरुपृषतमिति । रुरवश्च पृषताश्चेति विग्रहः । तृणद्वन्द्वमुदाहरति — कुशेति । कुशास्च काशाश्चेति विग्रहः । धान्यद्वन्द्वमुदाहरति — व्रीहिति । व्रीहयश्च यवाश्चेति विग्रहः । व्यञ्जनद्वन्द्वमुदाहरचि — दधीति । दधि च घृतं चेति विग्रहः । पसुद्वन्द्वमुदाहरति-गोमहिषमिति । गावस्च महिषाश्चेति विग्रहः । शकुनिद्वन्द्वमुदाहरति — शुकेति । शुकाश्च बकाश्चेति विग्रहः । अआवडवादिद्वन्द्वमुदाहरति-अआवडवमिति । अआआश्च वडवाश्चेति विग्रहः । ‘पूर्वपदआवडवौ’ इति अआवडवादित्यत्र पूर्वपदवत्पुंलिङ्गता । फलसेनेति । एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम् । द्वन्द्वश्च प्राणी॑त्यादिसूत्रैः फलसेनादीनां द्वन्द्व एकवद्भवन् बहुवचनान्तावयवक एव एरवद्भवति, नत्वेकद्विवचनान्तावयवक इत्यर्थः । तत्र फलद्वन्द्वमुदाहरति — बदराणि चेति । बदरीफलानि आमलकीफलानि चेत्यर्थः । विकारतद्धितस्य फले लुक् ।सुक्तद्धितलुकी॑ति स्त्रीप्रत्ययस्य लुक् । जातिरिति । बहुवचनान्तावयवकद्वन्द्वत्वात्जातिरप्राणिना॑मित्येकवत्त्वमित्यर्थः ।बहुप्रकृतिरेवे॑त्यस्य प्रयोजनमाह — नेहेति । बदरामलके इति । बदरं चामलकं चेति विग्रहः । बहुवचनान्तावयवकद्वन्द्वत्वाऽभावान्नजातिरप्राणिना॑मित्येकवत्त्वम् । रतिकाआआरोहाविति । अत्र सेनाङ्गत्वेऽपि नैकवत्त्वम् । प्लक्षन्यग्रोधाविति । इह वृक्षद्वन्द्वत्वेऽपिविभाषा वृक्षे॑त्येकवत्त्वं न । इत्यादीति । रुरुपृषतौ ।अत्र मृगद्वन्द्वत्वेऽपि नैकत्त्वम् । हंसचक्रवाकौ । अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्त्वम् । यूकालिक्षे । अत्र क्षुद्रजन्तुद्वन्द्वत्वेऽपि नैकवत्त्वम् । व्रीहियवौ । अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्त्वम् । कुशकाशौ । अत्र तृणद्वन्द्वत्वेऽपि नैकवत्त्वम् । ननु ‘चार्थे द्वन्द्वः’ इत्यनेन#एतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वात्विभाषा वृक्षे॑ति सूत्रंव्यर्थंमित्याशङ्क्याह — विभाषेत्यादि, विकल्पार्थमित्यन्तम् । वृक्षमृगतृणधान्यव्यञ्जनद्वन्द्वेषु प्लक्षन्यग्रोधं, रुरुपृषतं, कुशकाशं, व्रीहियवं, दधिघृतमित्येतेषुजातिरप्राणिना॑मिति नित्यविहितैकवत्त्वाऽनित्यत्वार्थमप्राणिवृक्षादिग्रहणमित्यर्थः । नन्वेवमपि पशुग्रहणं व्यर्थं, तदुदाहरणेगोमहिष॑मित्यत्रजातिरप्राणिना॑मिति नित्यैकवत्त्वनियमस्याऽप्राप्त्या तन्निवृत्त्यर्थत्वाऽयोगादित्यत आह — पशुग्रहणं हस्त्यआआदिषु सेनाङ्गत्वान्नित्यं प्राप्ते इति ।विकल्पार्थ॑मित्यनुषज्यते । नन्वेवमपि मृगशकुनिग्रहणं व्यर्थं, तदुदाहरणे रुरुपृषतं शुकबकमित्यादौजातिप्राणिना॑मित्येकवत्त्वस्य सेनाङ्गनिबन्धनैकवत्त्वस्य च अप्राप्त्या तन्निवृत्त्यर्थत्वाऽभावेन ‘चार्थे द्वन्द्वः’ इत्येवेतरेतरयोगसमाहारद्वन्द्वाभ्यामेकवत्त्वविकल्पसिद्धेरित्यत आह — मृगाणां मृगौरेवेत्यादि, मृगशकुनिग्रहणमित्यन्तम् । मृगाणां मृगैरेव सह उभयत्र=इतरेतरयोगे समाहारे चचार्थे॑इति द्वन्द्वः । यथा — शुकबकं, शुकबकाविति । मृगाणां तदितरैः शकुनीनां तदन्यैश्च सह इतरेतरयोगद्वन्द्व एव भवति, न समाहारद्वन्द्वः । यता — रुरुशुका इति । एतादृशनियमार्थं मृगशकुनिग्रहणमित्यर्थः । ननु पूर्वापरग्रहणमधरोत्तरग्रहणं च व्यर्थंसचार्थे॑इत्येव सिद्धेः ।जातिरप्राणिना॑मित्यादिनित्यैकवत्त्वस्य तत्राऽप्रवृत्त्या तन्निवृत्त्यर्थत्वाऽसंभवादित्यत आह — एवं पूर्वापरमधरोत्तरमित्यपीति । यथा मृगशकुनिग्रहणं मृगैर#एव मृगाणां, शकुनीनां तैरेव उभयत्र द्वन्द्वः, एवं पूर्वशब्दस्य अपरशब्देनैव, अधरशब्दस्य उत्तरशब्देनैव उभयत्र=इतरेतरयोगे समाहारे च द्वन्द्वः, अन्येन तु सह पूर्वोत्तरावित्यादौ इतरेतरयोगे एवेति नियमार्थं पूर्वापरग्रहणमधरोत्तरग्रहणं चेत्यर्थः । नन्वआवडवग्रहणं व्यर्थं, सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एकवद्भावविकल्पसिद्धेरित्यत आह — अआवडवेति । नपुंसकत्वविकल्पार्थमित्यर्थः । ननु समाहारस्य एकत्वादेव एकवत्त्वसिद्धेरिदमेकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति नियमार्थमित्युक्तम् । तथा च पशुद्वन्द्वत्वादेकवत्त्वविकल्पे सति समाहारे वा, इतरेतरयोगे वा द्वन्द्व इत्यनियमः पर्यवस्यति । एवंच समाहारद्वन्दवपक्षेस नपुंसक॑मिति नपुंसकत्वम्, इतरेतरयोगे तु नेति नपुंसकत्वविकल्पस्य सिद्धत्वादआवडवग्रहणं व्यर्थमेवेत्यत आह — अन्यथेति । इह नपुंसकत्वविध्यभावे समाहारद्वन्द्वपक्षेऽपिस नपुंसक॑मिति नपुंसकत्वं बाधित्वा परत्वात् ‘पूर्वपदस्ववडवौ’ इह पुंस्त्वं स्यात् । नपुंसकविधौ तु तत्सामर्थ्यात्समाहारद्वन्द्वपक्षे ‘पूर्वपदआवडवौ’ इत्येतद्बाधित्वा नपुंसकत्वं भवत्येव । अधिकारप्राप्तपूर्ववदओत्येतत्तु इतरेतरयोगद्वन्द्वे सावकाशमिति भावः ।

Tattvabodhini

विभाषा वृक्षमृगतृणधान्यव्यञ्जन- पशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् - बिभाषा । विशेषणामेवेति । अयं भावः — वृक्षादिशब्दैः प्रत्येकं द्वन्द्वो विशेष्यते, न चैको वृक्षशब्दो द्वन्द्वः , न च द्वयोः सह प्रयोगः,सरूपाणा॑मित्येकशेषात् । नापि पर्यायाणां,विरूपाणामपि समानार्थाना॑मित्येकशेषात् । नापि वृक्षश्च धवश्चेत्यादिसामान्यविशेषयोः, अनभिधानात्तत्र द्वन्द्वस्यैवाऽभावादिति सर्वप्रकरणशेषतया नियममाह ।फलेसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् । फलसेनेत्यादि । फलसेनादीनां द्वन्द्वोविभाषा वृक्षमृगे॑त्यनेन, लक्षणान्तरेण वा एकवद्भवन्बहुप्रकृतिरेव एकवद्भवतीत्यर्थः । बहवो वर्तिपदार्थाः, बहुवचनान्ता वा — प्रकृतिः=कारणं यस्य स बहुप्रकृतिः । बदराणि चामलकानि चेति ।जात्याख्यायामेकस्मि॑न्निति वैकल्पिकं बहुवचनम् । बदरामलके इति । जातिप्राधान्येऽप्येकवचनान्तर्योद्वन्द्व इति नास्त्येकवद्भाव इति भावः । पशुग्रहणमिति ।विकल्पार्थ॑मित्यनुषज्यते ।चार्थे द्वन्द्वः॑इत्यनेनैव सिद्धे मृगशकुनिग्रहणं व्यर्थमित्याशङ्ख्याह — मृगाणां मृगैरेवेत्यादि । नपुंसकत्वार्थमिति । अयं भावः — पशुत्वाद्विकल्पे सिद्धे अआवडवग्रहणं प्रतिपदविधानार्थम् । तेनाआवडवमित्येकवद्भावपक्षेपूर्ववदआवडवौ॑ इत्यतब्दाधित्वास नपुंसक॑मित्येतदेव भवति ।स॑ इति तच्छब्देन ह्रेकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति । तथा च प्रतिपदेक्तस्य बलीयस्त्वान्नपुंसकत्वं सिध्यतीति ।

Padamanjari

विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडपूर्वापराधरोतरणाम्॥ अत्र वृभादिभिः प्रत्येकं द्वन्द्वे विशेष्यते। न चैको वृक्षशब्दो द्वन्द्वः, न च द्वयोः सहप्रयोगः, एकशेषात्। न च पर्यायाणामपि सहयोगः, विरूपाणामपि समानार्थानाम्ऽ एकशेषवचनात्, नापि विशेषेण सहप्रयोगः - वृक्षश्च धवश्चेति, वृक्षशब्देनैवाशेषविशेषाक्षेपाद्धवादिशब्दप्रयोगस्य निष्फलत्वात्। कथं तर्हि’गोबलीवदाê’ इत्यादौ सामान्यविशेषयोः सह प्रयोगः? बलीवर्दशब्दसंनिधौ गोशब्दस्य स्त्रीगवीष्वेव वृतेर्द्धयोरपि विशेषवचनत्वादिति चेद्, इहापि तर्हि धवपदसंनिधौ वृक्षशब्दस्य तद्व्यतिरिक्तविषयतया द्वन्द्वप्रसङ्गः? किं च वाक्येऽपि कथं सहप्रयोगः - ब्राह्मणा आगता वसिष्ठोऽप्यागत इति ? प्रादान्यख्यापनार्थमुक्तार्थस्यापि प्रयोग इति चेद्, द्वन्द्वेऽपि तर्हि प्राप्नोति। तस्मानदनभिधानमेवाश्रयणीयम्, न हि वृक्षधवमिति लोकेऽभिधानमस्ति, अतो वृक्षविशेषवाचिनां ग्राहणम्। एवं मृगादिष्वपि द्रष्टव्यम्। इत्येतेषां द्वन्द्व इति। एतेषामित्येकापि षष्ठी विषयभेदाद्भिद्यते - वृक्षादीञ्च्छकुनिपर्यन्तान्प्रत्यवयवषष्ठी, अश्ववडवादीन् प्रति निर्द्धारणषष्ठी। येऽत्राप्राणिनस्तेषां’जातिरप्राणिनाम्’ इति नित्यं समाहारद्वन्द्वे प्राप्ते उभयत्र विधीयते । यो विभाषाप्राप्तैकवचनो द्वन्द्वः स एषां भवतीति वचनव्यक्त्याश्रयणेन तेषामेव वृक्षादीनामन्यैः सह द्वन्द्वे यथाप्राप्तं नित्यो विकल्पितो वा एकवद्भावो भवति - व्रीहिकुशप्लक्षमिति,’जातिरप्राणिनाम्’ इति नित्यः, प्लक्षशब्दस्पर्शा इत्यत्राद्रव्यवाचित्वात्ठ्जातिरप्राणिनाम्ऽ इत्यस्याप्रवृतौ’चार्थे द्वन्द्वः’ इत्युभयत्र प्राप्तो भवति। पशुग्रहणं हस्त्यश्वादिषु परत्वात् सेनाङ्गलक्षणस्य नित्यविधेर्बाधनार्थम्। मृगशकुनिग्रहणं किमर्थम्, न ह्यएतेषामनेन प्रकरणेन नित्य एकवद्भावः प्राप्तः, यद्वाधनाय विकल्पोऽभ्यनुज्ञायते, अन्यत्र प्राप्त्यभावादेषामुभयत्रैव द्वन्द्व इति नियमो न सम्भवति? अथैषामेवोभयत्र द्वन्द्व इति नियमः स्यात्, क्व तर्ह्येषां स्यात्? क्वचिदिति चेत्, यद्येवम्,’चार्थे द्वन्द्वः’ इति सामान्यलक्षणमनवकाशस्यात्, विषिष्टविधानमेव तदानीमाश्रयणीयं स्यात् प्राण्यङ्गादीनां समाहारे दधिपयाअदीनामितरेतरयोगे वृक्षादीनामुभयत्रेति? अथैषामेवोभयत्रेत्यनेनान्येषामुभयत्रापि द्वन्द्वो वार्यते, अन्यतरत्र तु भवत्येव। एवमपि क्वान्यत्रेति न ज्ञायते,’सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति चानुपपन्नं स्यात्? उच्यते - यतुल्यजातीयानामेवायं विकल्पस्तत्रैव नियमः प्रवर्तते - मृगविशेषवाचिनां मृगविशेषवाचिभिरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहान्यतरत्रेति। नन्वेमपि न ज्ञायते - क्वान्यतरत्रेति, स्यादेतद् एवम्, यद्यौभयत्रैषां द्वन्द्व इति श्रुतं स्यात्। इह तु विभाषैकवचनो द्वन्द्व इति श्रूयते, ततश्च यो विभाषाप्राप्त एकवचनो द्वन्द्वः स मृगविशेषवाचिनां मृगविशेषवाचिभिरेव नान्यैरिति वचनव्यक्तौ व्यक्तमेव ज्ञायते - अन्यैः सहेतरएतरयोगद्वन्द्व इति। अथास्यां वचनव्यक्तौ विभाषाग्रहणं किमर्थम्, यावता विभाषैवैकवचनान्तो द्वन्द्वः प्राप्तस्तत्रैतावदेवास्तु - य एकवचनो द्वन्द्वः स एषामेभिरेवेति ? उच्यते - असति विभाषाग्रहणे वचनव्यक्त्यन्तरमपि सम्भाव्येत - एषामेभिः सहैकवचन एव द्वन्द्व इति, यथा प्राण्यङ्गदिषु। सति तु तस्य नियमस्यासम्भवादभिमतो नियमः संपद्यते। एवं पूर्वापरम्, अधरोतरमित्यत्रापि नियमस्वरूपं विज्ञेयम्।’पशुद्वन्द्व’ इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्। तत्र प्रतिपदविधानादश्ववडवमित्येकवद्भावपक्षे’पूर्ववदश्वडवौ’ इत्येतद्वाधित्वा’स नपुंसकम्’ इत्येतदेव भवति, तच्छब्देन ह्यएकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति।’पूर्ववदश्ववडवौ’ इत्येततु एकवद्भावाभावपक्षे प्रवर्तते - अश्वडवौ, अश्ववडवान् इति। एतदेवाभिप्रेत्य वृत्तिकारस्तत्र वक्ष्यति - अश्ववडवयोर्विभाषैकवद्भाव उक्त इत्यादि। बहुप्रकृतिरिति। बहवो बहुत्वसंख्यायुक्ता वर्तिपदार्थाः प्रकृतिः कारणं यस्य द्वन्द्वार्थस्य स बहुप्रकृतिः, तदर्थाभिधायित्वाद् द्वन्द्वोऽपि बहुप्रकृतिः। नेदं स्वतन्त्रं लक्षणम्, स्वातन्त्र्ये नित्यं चेद्वनस्पत्यादीनामपि एतत्सूत्रविहितं विकल्पं बाधित्वा बहुप्रकृतित्वे नित्य एकवद्भावः स्यात्, विकल्पे फलादीनामपि’जातिरप्राणिनाम्’ इत्यादिलक्षणान्तरेण प्राप्तं नित्यमेकवद्भावं बाधित्वा बहुप्रकृतित्वे विकल्पः स्यात्। अतो लक्षणान्तरस्य शेषोऽयम्। तत्रापि यदि’विभाषा वृक्ष’ इत्यत्र पठितत्वादस्यैव शेषत्वं स्याततो वनस्पत्यादिष्वबहुप्रकृतित्वे एवद्विकल्पाभावेऽपि’जातिरप्राणिनाम्’ इति नित्यो विधिः स्यात्, फलादिषु तु न दोषः; एतद्विकल्पप्राप्त्यभावाल्लक्षणान्तरप्राप्तेरेव नियमनात् तस्मात्सर्वस्यैव प्रकरणस्यार्थशेषस्तदेतदाह - एषां बहुप्रकृतिरेवेति। एषां फलादीनां द्वन्द्वोऽनेन लक्षणान्तरेण वा एकवद्भवन् बहुप्रकृतिरेवैकवद्भवतीत्यर्थः। बदरामलके इति। अत्र’जातिरप्राणिनाम्’ इति न भवति। रथिकाश्वारोहाविति। अत्र सेनाङ्गलक्षणः। प्लक्षन्यग्रोधाविति। अत्रायं विकल्पः,’जातिरप्राणिनाम्’ नित्यश्च न भवति। अवनस्पतीनां तु वृक्षिविशेषाणामबुहुप्रकृतित्वेऽप्ययं विकल्पो भवत्येव - आम्रपलाशम्, आम्रपलाशौ। अन्ये तु वनस्पतिग्रहणं वृक्षमात्रोपलक्षणं मन्यन्ते। रुरुपृषतौ, हंसचक्रवाकाविति। अत्राप्यस्य विकल्पस्याभावः। यूकालिक्षे इति।’क्षुद्रजन्तवः’ इत्यस्याभावः। व्रीहियवौ, कुशकाशावित्यत्र तूभयोः॥

Nyaas

वृक्षादिग्रहयणेनेह वक्षादिविशेषवाचिनां ग्रहणम्। कथम्? यस्मादत्र हि वृक्षादिभिद्र्वन्द्वः प्रत्येकं विशिष्यते, तेनैषा विभाषा तुल्यजातीयेष्वेवावतिष्ठते। विरूपेषु तुल्यजातीयेष्वपि, न स्वरूपेषु। तेषां द्वन्द्वो नास्ति; एकशेषविधानात्। विरूपेष्वपि न पर्यायेषु। तेषां द्वन्द्वाभावात्। द्वन्द्वाभावश्च युगपत्प्रयोगाभावात्, युक्तार्थाभावाच्च। चार्थाभावस्त्वर्थभेदाभावात्। भिन्नाधिष्ठाना हि चार्थता। न च पर्यायाणां भिन्नार्थता सम्भवति; तस्माद्वरूपेष्वेव वृक्षादिविशेषवाचिष्वस्या विभाषाया उपस्थानम्। तेन विशेषग्रहणं वृक्षादिषु विज्ञायते, न स्वरूपग्रहणम्, नापि पर्यायग्रहणम्। अथ सामान्यविशेषवाचिनां ग्रहणं कस्मान्न विज्ञायते, सम्भवति हि सामान्यविशेषवाचिनां द्वन्द्वः, यथा - गोवलीवर्दमिति? न; अनभिधानात्। न हि वृक्षधवमित्येवं लोकेऽभिधानमस्ति; धवशब्दादेव तदर्थाभिधायिनो वृक्षशब्दस्यार्थस्यावगत्वात्, धवादिशब्दप्रयोगे वृक्षादिशब्दस्य प्रयोगानर्हत्वात्। गोवलीवर्दमित्यत्र तु बलीवर्दसन्निधाने गोशब्दस्य स्त्रीगवीष्वेव वृत्तेद्र्वावपि विशेषवाचिनाविति युक्तो द्वन्द्वः। येऽत्राप्राणिवाचिनस्तेषां जातिरप्राणिनाम् (2.4.6) इत्येकवद्भावे नित्ये प्राप्ते वचनमिदं विभाषार्थम्। परिशिष्टानामप्राप्ते। पशुग्रहणेनैव मृगादिग्रहणे सत्यपि पआन्तरेणेषां किमर्थम्? तुल्यजातीयानां द्वन्द्वोऽयमेकवद्भवतीत्युक्तम्, अत्र पशुग्रहणेनैव सिद्धे मृगादिग्रहणे सत्यपि पआन्तरेणेषां परस्परेण वा द्वन्द्वो मा भूदित्येवमर्थम्। पशुद्वन्द्व इत्येवं सिद्धेऽआवडवग्रहणं नियमार्थम्। योऽन्य एतयोः पर्यायस्तत्र मा भूत् - हयवडवे इति।बहुप्रकृतिः इति। बह्वर्था बहुवचनान्ता वा प्रकृतिर्यस्य स बहुप्रकृतिः। बह्वर्थानां फलादीनामेषां बहुवचनान्तानां वा द्वन्द्व एकवद्भवतीत्यर्थः॥

Prakriyasarvasvam

एषां द्वन्द्वो वैकवत् । वृक्षादौ विशेषाणामेव ग्रहः । चूताशोकं चूताशोकाः । मृगे—रुरुपृषतम्, रुरुपृषताः । तृणे—कुशकाशम्, कुशकाशाः । धान्ये—व्रीहियवम्, व्रीहियवाः । व्यञ्जने-दधिघृतम्, दधिघृते । पशुषु-गोमहिषम्, गोमहिष्यौ । शकुनिषु—शुकबकम्, शुकबकौ । परेषां स्वरूपग्रहः अश्वबडवम् ॥

Vartika

बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् ।

Sutra Prayogas

  • विदार्यार्जुनबाणपूगं (किरातार्जुनीयम्): विभाषा वृक्ष… इत्यादिना द्वन्द्वैकवद्भावः।

  • दधि-क्षीरं (भट्टिकाव्यम्): विभाषा वृक्ष इत्यादिना व्यञ्जनत्वादेकवद्भावः।