24011: गवाश्वप्रभृतीनि च¶
Padacheda: गवाश्व-प्रभृतीनि | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The word गवाश and others are also द्वन्द compounds which take the singular number.
Vasu English Translation¶
The word गवाश and others are also द्वन्द compounds which take the singular number. Thus गवाश्वम् ‘the cow and the horse.’ So also गवाविकम्.
गवाश्वादिः
गवाश्वम्. 2. गवाविकम्. 3. गवैडकम्. 4. अजाविकम्. 5. अजैडकम्. 6. कुब्जवामनम्. 7. कुब्जकैरातकम्. 8. पुत्रपौत्रम्. 9. शचण्डालम्. 10. स्त्रीकुमारम्. 11. दासीमाणवकम्. 12. शाटीपिच्छकम्. 13. उष्ट्रखरम्. 14. उष्ट्रशशम्. 15. मूत्रशकृत्. 16. मूत्रपुरीषम्. 17. यकृन्मेधः. 18. मांसशोणितम् 19. दर्भशरम्. 20. दर्भपूतीकम्. 21. अर्जुनशिरीषम्. 22. तृणोलपम्. 23. दासीदासम्. 24.कुटीकुटम्. 25. भागवतीभागवतम्.
Vart:- In this list, the forms as given, are singular; but when the same words assume different forms they may take either number. As गोश्वम् or गोश्वौ. In this form of गो and अश्व the next rule applies and option is allowed.
Bhashya¶
गवाश्वप्रभृतीनि च (542) (343 एकवद्भावसूत्रम् ॥ 2.4.1 आ.8) (गणपठितरूपविवक्षाधिकरणम्) 1567 वार्तिकम् ॥ 1 ॥ ) - गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम् - (भाष्यम्) गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तं द्रष्टव्यम्। गवाश्वम्। गवाविकम्। गवैडकम् ॥ गवाश्व ॥ 11 ॥
Kashika¶
गवाश्वप्रभृतीनि च कृतैकवद्भावानि द्वन्द्वरूपाणि साधूनि भवन्ति। गवाश्वम्। गवाविकम्। गवैडकम्। अजाविकम्। अजैडकम्। कुब्जवामनम्। कुब्जकैरातकम्। पुत्रपौत्रम्। श्वचण्डालम्। स्त्रीकुमारम्। दासीमाणवकम्। शाटीपिच्छकम्। उष्ट्रखरम्। उष्ट्रशशम्। मूत्रशकृत्। मूत्रपुरीषम्। यकृन्मेदः। मांसशोणितम्। दर्भशरम्। दर्भपूतीकम्। अर्जुनशिरीषम्। तृणोलपम्। दासीदासम्। कुटीकुटम्। भागवतीभागवतम्। गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम्, रूपान्तरे तु नायं विधिर्भवति। गोऽश्वम्। गोऽश्वौ। पशुद्वन्द्वविभाषैव भवति॥
Siddhanta Kaumudi¶
यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ॥
Balamanorama¶
गवाश्वप्रभृतीनि च - गवाशम्वप्रभृतीनि च । यथागणे गणितानि तथैव साधीनित्यर्थः । गवाआमिति । गावश्चाआआश्चेति विग्रहः । अत्रविभाषा वृक्षे॑ति पशुद्वन्द्वत्वाद्विकल्पे प्राप्ते नित्योऽयं विधिः ।अत्रसर्वत्र विभाषे॑ति प्रकृतिभावे पूर्वरूपे च गो-अआं, गोऽआमिति नैकवत्त्वनियमः,यथोच्चारितानी॑त्युक्तेः, गणे च गवाआमित्येव निर्देशात् । गवाआआदिषुयथोच्चारितं द्वन्द्ववृत्तमिति वार्तिकमत्र मानम् । दासीदासमिति । अत्रैकवत्त्वनियमः । पुमान्स्त्रिये॑त्येकसेषस्तु निपातनान्न । इत्यादिति । गवाविकं गवैडकमित्यादि वृत्तौ स्पष्टम् ।
Tattvabodhini¶
गवाश्वप्रभृतीनि च - गवाआ । यथोच्चारितानीति । गणपाठे पाणिनिना यथा पाठितानि तथैव साधूनीत्यर्थः । तेनाऽवङः पाक्षिकत्वाद्यदा नावङ् तदा उत्तरसूत्रेण विकल्पो न भवति । गोअआम् ।अपशवो वा अन्ये गोअओभ्यः, पशवो गोअआआः॑ । गवाआमिति । इह पशुद्वन्द्वे विभाषा प्राप्ता । दशीदासमिति । अत्रपुमान्स्त्रिये॑त्येकशेषो बाध्यते ।
Padamanjari¶
गवाश्वप्रभृतीति च॥ द्वन्द्वरूपाणीति अन्वयात्प्रभृतीनीति नपुंसकोपपतिः। गवाश्वप्रभृतीनि कृतैकवद्भावान्येव पठ।ल्न्ते, तेषामनेन साधुत्वमात्रं विधीयते, न त्वेकवद्भाव इत्याह - गवाश्वप्रभृतीनीति। गवाश्वादीनां चतुर्णाम्पशुद्वन्द्वे विभा षायां प्राप्तायां वचनम्। एवमुष्ट्रखरम्, उष्ट्रशशमिति। दर्भशरादीनां तृणोलपपर्यन्तानां तृणद्वन्द्वे विभाषायां प्राप्तायां दासीदासादीनाम्’पुमान्स्त्रिया’ इत्येकशेषाभावोऽपि निपातनात्। शाटीपटीकमित्यादीनामप्राणिजातिवचनानामबहुप्रकृत्यर्थः पाठः। अन्येषां कुब्जवामनादीनामप्राप्ते वचनम्। यथोच्चारितं द्वन्द्ववृतमिति। गणे याद्दशाः कृतावङदेशाः पठितास्ताद्दशानामेव द्वन्द्ववृतं द्वन्द्वकार्यमेकवद्भावलक्षणं भवति। रूपान्तरेष्विति। ठवङ् स्फोटायनस्यऽ इति विकल्पितत्वाद्यदा नास्ति तदेत्यर्थः। एतेन गणपाठे रूपमेषां विवक्षितम्, न पूर्वोतरपदनिर्देशमात्रे तात्पर्यमित्युक्तं भवति॥
Nyaas¶
गवाश्चादीनि कृतैकवद्भावानि गणे पठन्ते। तेषाममनेन साधुत्वमात्रं विधीयते। न त्वेकवद्भाव इति दर्शयन्नाह - गवाआआदीनि इति। ग्वाआमित्येवमादीनामजैडकपर्यन्तानां पशुद्वन्द्वविकल्पे वचनमिदम्। कुब्जवामनप्रभृतीनां त्रयाणामप्राप्ते। आचाण्डालस्याविरोधः? यदा विरोधं द्वन्द्वो नाचष्टे केवलञ्चार्थमात्रे वर्तते तदा आचाण्डालमिहास्तीति। स्त्रीकुमारं दासीमाणवकम् इत्यप्राप्ते वचनम्। शाटीपिच्छकम् इति जातिरप्राणिनाम् (2.4.6) इति सिद्धे, अबहुप्रकृत्यर्थः पाठः। उष्ट्रखरमुष्ट्रशशम् इति। पशुद्वन्द्वविभाषाप्राप्तौ नित्यार्थम्। मूत्रशकृदादीनां मांसशोणितपर्यन्तानामप्राणिजातीनामबहुप्रकृत्यर्थः पाठः। दर्भशरप्रभृतीनां तृणविभाषायां प्राप्तायां वचनम्। दासीदासादीनां त्रयाणामप्राप्ते। पुमान् स्त्रिया (1.2.67) इत्येकशेषो न भवत्यस्मादेव निपातनात्।गवाआप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम् इति। कथम्? तथा रूप्सयाश्रयणात्। गणपाठे हि यदेषां शब्दानां रूपं तदाश्रितम्। येन यथोच्चारितानामेकवद्भावलक्षणं द्वन्द्ववृतं भवति। रूपान्तरे तु नायं विधिः इति। यदा अवङ् स्फोटायनस्य (6.1.123) इत्यवङ नास्ति तदा रूपान्तरे जातेऽनेन सूत्रेण यो विधिः क्रियते स न भवति। पशुद्वन्द्वविभाषैव प्रवर्तते॥
Prakriyasarvasvam¶
एषां नित्यमेकत्वं निपात्यते । ‘गवाश्वगवाविकगवैडकाजाविकार्जैडकनि’ (स० ३–३–३८) । ‘कुब्जवामनकुब्जकिरातपुत्रपौत्रश्वचण्डालस्त्रीकुमारदासीदास दासीमाणवकोष्ट्रखरोष्ट्रशशभागवतीभागवतानि’ (स० ३-३-३९) । ‘शाटीप्रच्छद- कुटीकुटमूत्रशकृन्मूत्रपुरीषयकृन्मेदोमांसशोणितदर्भपूतीकार्जुनशिरीषतृणोलपानि’ (स० ३-३-४०) । गवाश्वेत्याद्युक्तेर्गोश्वावित्याद्यावेकत्वं न । इति ॥