24010: शूद्राणामनिरवसितानाम्

Padacheda: शूद्राणाम् | S | 6 | 3 |

अ-निरवसितानाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

A द्वन्द compound of words denoting those classes of शुद्रा-s who have not been expelled from the communion of higher classes, is singular.

Vasu English Translation

A द्वन्द compound of words denoting those classes of शुद्रा-s who have not been expelled from the communion of higher classes, is singular. Thus, तक्षायस्करम् ‘the carpenter and the blacksmith’; रजकतन्तुवायम् ‘the washerman and the weaver.’

The word अनिर्वासित means one not expelled (from the dish).

A Sudra who can take food from the dish of a higher class, without permanently defiling that vessel, is called an Anirvasita Sudra.

Why do we say ‘not expelled’? Observe चण्डालमृतपाः ‘the Chandala and the Mritapa.’

Bhashya

शूद्राणामनिरवसितानाम् (541) (342 एकवद्भावंसूत्रम् ॥ 2.4.1 आ. 7) (अनिरवसितशब्दार्थाधिकरणम्) (आक्षेपभाष्यम्) अनिरवसितानाम् इत्युच्यते। कुतोऽनिरवसितानाम्? (समाधानभाष्यम्) आर्यावर्तादनिरवसितानाम् ॥ (आक्षेपभाष्यम्) कः पुनरार्यावर्तः? (समाधानभाष्यम्) प्रागादर्शात्प्रत्यक्कालकवनाद्दक्षिणेन हिमवन्तमुत्तरेण पारियात्रम् ॥ (आक्षेपभाष्यम्) यद्येवं किष्किन्धगन्धिकं शकयवनं शौर्यक्रौञ्चमिति न सिध्यति ॥ (समाधानभाष्यम्) एवं तर्ह्यार्यनिवासादनिरवसितानाम् ॥ कः पुनरार्यनिवासः? ग्रामो घोषो नगरं संवाह इति ॥ (आक्षेपभाष्यम्) एवमपि य एते महान्तः संस्त्यायास्तेष्वभ्यन्तराश्चण्डाला मृतपाश्च वसन्ति तत्र चण्डालमृतपा इति न सिध्यति ॥ (समाधानभाष्यम्) एवं तर्हि याज्ञात्कर्मणोऽनिरवसितानाम् ॥ (आक्षेपभाष्यम्) एवमपि तक्षाङायस्कारं रजकतन्तुवायमिति न सिध्यति ॥ (सिद्धान्तसमाधानभाष्यम्) एवं तर्हि पात्रादनिरवसितानाम्। यैर्भुक्ते पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः। यैर्भुक्ते पात्रं संस्कारेणापि न शुध्यति ते निरवसिता इति ॥ शूद्राणाम् ॥ 10 ॥

Kashika

निरवसानम्, बहिष्करणम्। कुतो बहिष्करणम्? पात्रात्। यैर्भुक्ते पात्रं संस्कारेणापि न शुध्यति, ते निरवसिताः। न निरवसिताः, अनिरवसिताः। अनिरवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद् भवति। तक्षायस्कारम्। रजकतन्तुवायम्। अनिरवसितानामिति किम्? चण्डालमृतपाः॥

Siddhanta Kaumudi

अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥

Balamanorama

शूद्राणामनिरवसितानाम् - शूद्राणाम् ।अनिरवसित॑शब्दं व्याचष्टे — अबहिष्कृतानामिति ।यैर्भुक्तं पात्रं क्षारोदकप्रक्षालनेन संस्कारेणापि न शुध्यत ते निरवसिताः, — चण्डालादयः । यैस्तु भुक्तं पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः॑इति भाष्ये स्पष्टम्य । शूद्राणामिति.त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः,अनिरवसिताना॑मिति लिङ्गात् । प्राग्वदिति । समाहरद्वन्द्व एकवदित्यर्थः । तक्षायस्कारमिति । तक्षाणश्च अयस्काराश्चेति विग्रहः ।अनिरवसिताना॑मित्यस्य प्रयोजनमाह — पात्रादिति । चण्डालमृतपा इति । #एतद्भुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति-अत एव भाष्याद्विज्ञेयम् । धर्मशात्रेषु च प्रसिद्धमेतत् ।

Tattvabodhini

शूद्राणामनिरवसितानाम् - शूद्राणां ।त्रैवर्णिकेतरमनुष्यपरः शूद्रशब्दो न तु शूद्रत्वजातिपरः,अनिरवसिताना॑मिति निषेधात् । पात्रादिति । यैर्भुक्ते॒भस्मना शुध्यते कांस्य॑मित्यादिस्मृत्युक्तसंस्कारेणापि पात्रं न शुध्यति तेषामित्यर्थः ।

Padamanjari

शूद्राणामनिरवसितानाम्॥ शूद्रशब्दोऽत्र त्रैवर्णिकव्यतिरिक्तजातिमात्रवचनः, न वृषलपर्यायः, निरवसितप्रतिषेधात्। निरवसित इति। निरवपूर्वात्स्यतेः कर्मणिक्तः। तत्र प्रकृत्यर्थमाह - निरवसानं बहिष्करणमिति। अनेकार्थत्वाद्धातूनामुपसर्गवशाद्वेति भावः। पात्राद्वहिष्करणमिह विवक्षितमित्याह - यैरिति। संस्कारेणापीति।’भस्मना शुध्यते कांस्यम्’ इत्यादिना स्मृतिकारैरुक्तेन न शुध्यति, तेन तत्र भोक्तुअं न लभन्त इति ततो बहिष्कृता भवन्ति॥

Nyaas

यद्यपि षिञ् बन्धने (धातुपाठः- 1248) इति सिनोतिर्बन्धने वर्तते; तथापि निरवपूर्वो बहिष्करणे वर्तत इत्याह - निरवसानं बहिष्करणम्। यैर्भुक्ते पात्रं संस्कारेणापि न शुद्ध्यति तस्मात् ते ततो बहिष्कृताः = पृथक्कृताः। न लभन्ते तत्र भोक्तुमित्यर्थः॥

Prakriyasarvasvam

अबहिष्कृतानामन्त्यजातीनां द्वन्द्व एकवत् स्यात् । ते च ‘कारव’ (स० ३–३–३७) इति भोजः । तक्षायस्कारम् । रजकतन्तुवायम् । बहिष्कृतानान्तु श्वपाकपुल्कसाः ॥

Sutra Prayogas

  • जक्षुर् (भट्टिकाव्यम्): लिट्यन्यतरस्याम् इति भदेर्घस्लृ।