24009: येषां च विरोधः शाश्वतिकः¶
Padacheda: येषाम् | S | 6 | 3 |
च | S | 0 | 0 |
विरोधः | S | 1 | 1 |
शाश्वतिकः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A द्वन्द compound of words signifying those animals only among whom there is permanent enmity i.e. natural and eternal antipathy or quarrel, is singular.
Vasu English Translation¶
A द्वन्द compound of words signifying those animals only among whom there is permanent enmity i.e. natural and eternal antipathy or quarrel, is singular. The word विरोध means enmity: and शाश्वतिकः means permanent.
Thus, मार्जारमूषकम् ‘the cat and the rat’; श्वशृगालम् ‘the dog and the jackal’; अहिनकुलं ‘the snake and the mongoose.’
Why do we say ‘natural and eternal’? Observe गौपालिशालंकायनाः कलहायन्ते ‘Gaupali and Salankayana are quarrelling.’
The force of the word च in the aphorism is that of एव ‘only.’ Dvandva compounds of such animals only are invariably singular; no other rule, even if otherwise applicable, would apply to such compounds. Thus rule (1.4.12) says that Dvandva compounds of beasts and birds, is optionally singular. That rule (by (1.4.2)) would have set aside the present rule. But च prevents that, and no optional plural number is allowed in case of beasts or birds that are naturally at war; as अश्वमहिषम् ‘the horse and the buffalo’; काकोलूकम् ‘the crow and the owl.’
Bhashya¶
येषां च विरोधः शाश्वतिकः (540) (341 एकवद्भावसूत्रम् ॥ 2.4.1 आ. 6) (आक्षेपभाष्यम्) किमर्थश्चकारः? (समाधानभाष्यम्) एवकारार्थश्चकारः - येषां विरोधः शाश्वतिकस्तेषां द्वन्द्व एकवचनमेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ॥ किं चान्यत्प्राप्नोति? (ठठविभाषा वृक्षमृग - इति। तत्र) पशुशकुनिद्वन्द्वे विरोधिनां पूर्वविप्रतिषिद्धम् इत्युक्तम्, तन्न वक्तव्यं भवति ॥ येषां च ॥ 9 ॥
Kashika¶
विरोधो वैरम्, शाश्वतिको नित्यः। येषां शाश्वतिको विरोधः, तद्वाचिनां शब्दानां द्वन्द्व एकवद् भवति। मार्जारमूषकम्। अहिनकुलम्। शाश्वतिक इति किम्? गौपालिशालङ्कायनाः कलहायन्ते। चकारः पुनरस्यैव समुच्चयार्थः। तेन पशुशकुनिद्वन्द्वे विरोधिनामनेन नित्यमेकवद्भावो भवति — अश्वमहिषम्। काकोलूकम्॥
Siddhanta Kaumudi¶
एषां प्राग्वत् । अहिनकुलम् । गोव्याघ्रम् । काकोलूकमित्यादौ परत्वात् विभाषा वृक्षमृग (SK916) इति प्राप्तं चकारेण बाध्यते ॥
Balamanorama¶
येषां च विरोधः शाश्वतिकः - येषां च । शेषपूरणेन सूत्रं व्याचष्टे — एषां प्राग्वदिति । समाहारद्वन्द्व एकवदित्यर्थः ।शआ॑दित्यव्ययं सदेत्यर्थे वर्तते । ततो भवार्थे ठञ् । निपातनादव्ययानां भमात्रे टिलोपः, ‘इसुसुक्तान्तात्कः’ इति कादेशस्च न भवति । स्वाभाविक इत्यर्थः । अहिनकुलमिति । अहयो नकुलाश्चेति विग्रहः । अनयोः स्वभाविको विरोधः प्रसिद्धः । विरोधो — वैरं, नतु सहानवस्थितिः तेन छायातपावित्यत्र न भवति । ‘देवाऽसुराः’ इत्यत्र तु नायमेकवद्भावः, तद्विरोधस्य कादाचित्कत्वात् । अमृतादिप्रयुक्तः कादाचित्क एव हि तेषां विरोधः, अमृतमथनादि काले तेषां विरोधाऽभावात् । ननुविभाषा वृक्षमृगे॑ति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्भावविकल्पो वक्ष्यते । तस्य तावद्गोमहिषु गोमहिषाः, हंसचक्रवाकं, हंसचक्रवाका इत्यत्रावकाशः ।येषां चे॑त्यस्य-अहिनकुलमित्यवकाशः गोव्याघ्रं काकोलूकमित्यादौ तदुभयं प्रसक्तम् । तत्र परत्वाद्क्ष्यमाणविभाषा प्राप्नोतीत्याशङ्क्याह — गोव्याघ्रमिति । चकारेणेति ।येषां चे॑ति चकारेणेत्यर्थः । एतच्च भाष्ये स्पष्टम् ।
Tattvabodhini¶
येषां च विरोधः शाश्वतिकः - येषां च विरोधः । विरोधो वैरं, न तु सहानवस्थानम् । तेनेह न -छायातपौ ।शआ॑दित्यव्ययं त्रैकाल्ये वर्तते, तत्र भवः शाआतिकः ।कालाठ्ठञ् । अतएव निपातनात्इसुसुक्तान्ता॑दिति कादेशः,अव्ययानां भमात्रे॑इतीति टिलोपश्च न । शाआतिकः किम् । देवासुरैरमृतमम्बुनिधिर्ममन्थे॑ । तेषां ह्रमृतादिप्रयुक्तः कादाचित्को विरोधो न तु नित्यः, मन्थनप्रवृत्तिकाले तद्विरहात् । परत्वादिति । पशुशकुनिद्वन्द्वस्यावकाशो — गोमहिषं गोमहिषाः । हंसचक्रवाकं हंसचक्रवाकाः ।येषां चे॑त्यस्यावकाशः — मार्जारमूषकं श्रमणब्राआहृणमित्यादौ ज्ञेयः । चकारेण बाध्यत इति । चकारः पुनर्विधायक इति भावः ।
Padamanjari¶
येषां च विरोधः शाश्वतिकः॥ विरोधो वैरमिति। न सहानवस्थानादिः, छायातपावित्यादावपि प्रसङ्गात्। पूर्वसूत्राच्चानुवृतेन जन्तुग्रहणेन विरोधस्य विशेषणात्। जन्तूनां हि विरोधो वैरमेव भवति। शाश्वतिको नित्य इति। शश्वदिति त्रैकाल्यमाह।’तत्र भवाः’ इति कालाट्ठञि तान्तादपि निपातनादिकादेशः, अव्ययानां भमात्रे टिलोपाभावश्च। गोपालस्यापत्यानि गौपालयः, अत्र कादाचित्को विरोधः। चकारः पुनारित्यादि। पशुशकुनिद्वन्द्वावकाशः - महाजोरभ्रं महाजोरभ्राः, हंसचक्रवाकं हंसचक्रवाकाः; विरोधिनामेकवद्भावस्यावकाशः - श्रमणब्राह्मणम्, मार्जारमूषिकम्; अश्वमहिषं काकोलूकमित्यत्रोभयप्रसङ्गे परत्वात्पशुशकुनिविभाषा स्यात्, चकारादयमेव भवति॥
Nyaas¶
प्रतिपक्षभावमात्रं लोके विरोधशब्देनोच्यते। तस्येह ग्रहणे सति छायातपौ, अग्निजले इत्यत्रापि स्यादिति मत्वा वैरमिह विरोधोऽभिमत इति दर्शयितुमाह - विरोधो वैरम् इति। एवं मन्यते - क्षुद्रजन्तवः (2.4.8) इत्यतो जन्तुग्रहणमनुवर्तते। तेन जन्तूनां यो विरोधस्तस्येह ग्रहणं विज्ञायते। स च वैरस्वभाव एवेति। शाआतिको नित्यः इति। शस्वदिति त्रैकल्यमुच्यते। तत्र भवः शाआतिकः। कालाटठञ् (4.3.11) । अस्मादेव निपातनात् तान्तादपि को न भवति। यश्च त्रैकल्ये भवति स नित्यः। गोपालिशालङ्कायनाः इति। गोपालयश्च शालङ्कायनाश्च गोपालिशालङ्कायनाः। नात्र शाआतिको विरोध इत्येकवद्भावो न भवति। चकारः पुनरस्यैव समुच्चयार्थः इति। प्रकृतस्यान्यस्य समुच्चेतव्यस्याभावादस्यैकवद्भावस्य समुच्चयार्थश्चकारो विज्ञायते। तेन किं भवतीत्याह - तेन पशुशकुनि इत्यादि। पशुशकुनिविभाषाया अवकाशः - महाजोरभ्रम्, महाजोरभ्राः, हंसचक्रवाकम्, हंसचक्रवाका इति। नित्यविरोधिनामेकवद्भावस्यावकाशः - ब्राआहृणनास्तिकमिति, आशृगालम्, अआमहिषम्। काकोलूकमित्यत्रोभयप्राप्तौ परत्वात् पशुशकुनिविभाषा स्यात्। चकारस्य पुनरस्यैव समुच्चयार्थत्वादनेन नित्यमेकवद्भवति॥
Prakriyasarvasvam¶
नित्यवैरिणां द्वन्द्व एकवत् । आहिनकुलम् । अश्वमाहिषम् ॥
Sutra Prayogas¶
देवासुरैः (किरातार्जुनीयम्): येषां च विरोधः शाश्वतिकः इति नैकवद्भावः।
सुरासुरान् (शिशुपालवधम्): येषां च विरोधः शाश्वतिकः इति न द्वन्द्वैकवद्भावः।